Sukta 6.66
नास्य वर्ता न तरुता न्वस्ति मरुतो यमवथ वाजसातौ । तोके वा गोषु तनये यमप्सु स व्रजं दर्ता पार्ये अध द्योः ॥
नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ । तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥
nā́syà vartā́ ná tarutā́ nv asti marúto yám ávatha vā́jasātau | tókē vā góṣu tánaye yám apsú sá vrajáṃ dartā́ pā́rye ádha dyóḥ ||
对他而言,无有回转之路,无人能胜过他——噢,马鲁特啊,你们在赢得丰盛(vāja-sāti)时所扶助的那一位。无论在孩童之中,或在群牛之中,或在子嗣之中,或在诸水之中——他都能破开围栏(vraja),即使在遥远的边界之处,也在苍穹之下将其击穿。
न । अस्य॑ । व॒र्ता । न । त॒रु॒ता । नु । अ॒स्ति॒ । मरु॑तः । यम् । अव॑थ । वाज॑ऽसातौ । तो॒के । वा॒ । गोषु॑ । तन॑ये । यम् । अ॒प्ऽसु । सः । व्र॒जम् । दर्ता॑ । पार्ये॑ । अध॑ । द्योः ॥न । अस्य । वर्ता । न । तरुता । नु । अस्ति । मरुतः । यम् । अवथ । वाजसातौ । तोके । वा । गोषु । तनये । यम् । अप्सु । सः । व्रजम् । दर्ता । पार्ये । अध । द्योः ॥na | asya | vartā | na | tarutā | nu | asti | marutaḥ | yam | avatha | vāja-sātau | toke | vā | goṣu | tanaye | yam | ap-su | saḥ | vrajam | dartā | pārye | adha | dyoḥ