Sukta 5.15
प्र वेधसे कवये वेद्याय गिरं भरे यशसे पूर्व्याय । घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ॥
प्र वे॒धसे॑ क॒वये॒ वेद्या॑य॒ गिरं॑ भरे य॒शसे॑ पू॒र्व्याय॑ । घृ॒तप्र॑सत्तो॒ असु॑रः सु॒शेवो॑ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो॑ अ॒ग्निः ॥
prá védhase kaváye védyāya gíraṃ bhare yaśáse pū́rvyāya | ghṛtá-prasatto ásuraḥ su-śévo rāyó dhartā dharúṇo vásvo agníḥ ||
我奉上圣言,献与智巧的安置者、当被认识的圣贤诗人,为其古老的荣光。经酥油澄净者——那有力的主宰(asura),至善而施惠:阿耆尼(Agni),丰盈之持守者,根基与承载者,存在之财富的负载者。
प्र । वे॒धसे॑ । क॒वये॑ । वेद्या॑य । गिर॑म् । भ॒रे॒ । य॒शसे॑ । पू॒र्व्याय॑ । घृ॒तऽप्र॑सत्तः । असु॑रः । सु॒ऽशेवः॑ । रा॒यः । ध॒र्ता । ध॒रुणः॑ । वस्वः॑ । अ॒ग्निः ॥प्र । वेधसे । कवये । वेद्याय । गिरम् । भरे । यशसे । पूर्व्याय । घृतप्रसत्तः । असुरः । सुशेवः । रायः । धर्ता । धरुणः । वस्वः । अग्निः ॥pra | vedhase | kavaye | vedyāya | giram | bhare | yaśase | pūrvyāya | ghṛta-prasattaḥ | asuraḥ | su-śevaḥ | rāyaḥ | dhartā | dharuṇaḥ | vasvaḥ | agniḥ