Sukta 10.92
ते हि द्यावापृथिवी भूरिरेतसा नराशंसश्चतुरङ्गो यमोऽदितिः । देवस्त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुरर्हिरे ॥
ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मोऽदि॑तिः । दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षण॒: प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ॥
te hi dyāvāpṛthivī bhūri-retasā narāśaṃsaś catur-aṅgo yamo 'ditiḥ | devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire ||
确然是他们——富于生成之种的天与地;那罗阿沙ṃ萨(Nārāśaṃsa);四肢具足之力;阎摩(Yama)与阿底提(Aditi);神匠特瓦什特里(Tvaṣṭṛ),赐财丰盈者;以及里布克善(Ṛbhukṣan);又有马鲁特(Maruts)与毗湿奴(Viṣṇu)——都已赢得并支撑这广阔的两界,为那前行的灵魂。
ते । हि । द्यावा॑पृथि॒वी इति॑ । भूरि॑ऽरेतसा । नरा॒शंसः॑ । चतुः॑ऽअङ्गः । य॒मः । अदि॑तिः । दे॒वः । त्वष्टा॑ । द्र॒वि॒णः॒ऽदाः । ऋ॒भु॒क्षणः॑ । प्र । रो॒द॒सी इति॑ । म॒रुतः॑ । विष्णुः॑ । अ॒र्हि॒रे॒ ॥ते । हि । द्यावापृथिवी इति । भूरिरेतसा । नराशंसः । चतुःअङ्गः । यमः । अदितिः । देवः । त्वष्टा । द्रविणःदाः । ऋभुक्षणः । प्र । रोदसी इति । मरुतः । विष्णुः । अर्हिरे ॥te | hi | dyāvāpṛthivī iti | bhūri-retasā | narāśaṃsaḥ | catuḥ-aṅgaḥ | yamaḥ | aditiḥ | devaḥ | tvaṣṭā | draviṇaḥ-dāḥ | ṛbhukṣaṇaḥ | pra | rodasī iti | marutaḥ | viṣṇuḥ | arhire