Sukta 10.61
अध यद्राजाना गविष्टौ सरत्सरण्युः कारवे जरण्युः । विप्रः प्रेष्ठः स ह्येषां बभूव परा च वक्षदुत पर्षदेनान् ॥
अध॒ यद्रा॑जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे॑ जर॒ण्युः । विप्र॒: प्रेष्ठ॒: स ह्ये॑षां ब॒भूव॒ परा॑ च॒ वक्ष॑दु॒त प॑र्षदेनान् ॥
adhá yád rājānā gáv-iṣṭau sárat saraṇyúḥ kāráve jaraṇyúḥ | vípraḥ préṣṭhaḥ sá hy eṣāṃ babhū́va párā ca vákṣad utá párṣad enān ||
于是,当两位王者在求光之行中,为那寻求正当赞颂的歌者发动迅疾的萨兰纽(Saraṇyu,疾行之力)时;最受爱戴的圣见者(vipra)确已成为他们的引领者:他使他们越过彼岸,并带他们渡济而过。
अध॑ । यत् । रा॒जा॒ना॒ । गोऽइ॑ष्टौ । सर॑त् । स॒र॒ण्युः । का॒रवे॑ । ज॒र॒ण्युः । विप्रः॑ । प्रेष्ठः॑ । सः । हि । ए॒षा॒म् । ब॒भूव॒ । परा॑ । च॒ । वक्ष॑त् । उ॒त । प॒र्ष॒त् । ए॒ना॒न् ॥अध । यत् । राजाना । गोइष्टौ । सरत् । सरण्युः । कारवे । जरण्युः । विप्रः । प्रेष्ठः । सः । हि । एषाम् । बभूव । परा । च । वक्षत् । उत । पर्षत् । एनान् ॥adha | yat | rājānā | go--iṣṭau | sarat | saraṇyuḥ | kārave | jaraṇyuḥ | vipraḥ | preṣṭhaḥ | saḥ | hi | eṣām | babhūva | parā | ca | vakṣat | uta | parṣat | enān