Sukta 10.61
उत त्या मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तये यजध्यै । मनुष्वद्वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू ॥
उ॒त त्या मे॒ रौद्रा॑वर्चि॒मन्ता॒ नास॑त्याविन्द्र गू॒र्तये॒ यज॑ध्यै । म॒नु॒ष्वद्वृ॒क्तब॑र्हिषे॒ ररा॑णा म॒न्दू हि॒तप्र॑यसा वि॒क्षु यज्यू॑ ॥
utá tyā́ me raudrā́v arcimántā nā́satyāv indra gūrtáye yájadhyai | manuṣvád vṛktábarhiṣe rárāṇā mandū́ hitáprayāsā vikṣú yajyū́ ||
又那二位为我——燃着楼陀罗(Rudra)之辉的那萨底耶(Nāsatyas)——噢因陀罗(Indra),当为崇奉,以成就那高举之目标。他们如人般欢悦于铺陈圣草之仪,热切而供献整饬,当在诸族之中被召请。
उ॒त । त्या । मे॒ । रौद्रौ॑ । अ॒र्चि॒ऽमन्ता॑ । नास॑त्यौ । इ॒न्द्र॒ । गृ॒तये॑ । यज॑ध्यै । म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषे । ररा॑णा । म॒न्दू इति॑ । हि॒तऽप्र॑यसा । वि॒क्षु । यज्यू॒ इति॑ ॥उत । त्या । मे । रौद्रौ । अर्चिमन्ता । नासत्यौ । इन्द्र । गृतये । यजध्यै । मनुष्वत् । वृक्तबर्हिषे । रराणा । मन्दू इति । हितप्रयसा । विक्षु । यज्यू इति ॥uta | tyā | me | raudrau | arci-mantā | nāsatyau | indra | gṛtaye | yajadhyai | manuṣvat | vṛkta-barhiṣe | rarāṇā | mandū iti | hita-prayasā | vikṣu | yajyūiti