Sukta 10.61
मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिमग्मन् । द्विबर्हसो य उप गोपमागुरदक्षिणासो अच्युता दुदुक्षन् ॥
म॒क्षू क॒नाया॑: स॒ख्यं नव॑ग्वा ऋ॒तं वद॑न्त ऋ॒तयु॑क्तिमग्मन् । द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒ अच्यु॑ता दुदुक्षन् ॥
makṣū́ kanā́yāḥ sakhyáṃ návagvā ṛtáṃ vádanta ṛtá-yuktim agman | dvíbarhaso yá úpa gopám ā́gur adakṣiṇā́so ácyutā dudúkṣan ||
迅疾地,九伽婆(Navagva)进入少女的友契,言说真理(ṛta);他们以与ṛta相应的正当结合而来。具双重威力者趋近牧牛者——光芒之守护——然而因无达克希那(dakṣiṇā)之正施,他们挤取那本不应坠落之乳,扭曲了稳固的诸力。
म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नव॑ऽग्वाः । ऋ॒तम् । वद॑न्तः । ऋ॒तऽयु॑क्तिम् । अ॒ग्म॒न् । द्वि॒ऽबर्ह॑सः । ये । उप॑ । गो॒पम् । आ । अगुः॑ । अ॒द॒क्षि॒णासः॑ । अच्यु॑ता । दु॒दु॒क्ष॒न् ॥मक्षु । कनायाः । सख्यम् । नवग्वाः । ऋतम् । वदन्तः । ऋतयुक्तिम् । अग्मन् । द्विबर्हसः । ये । उप । गोपम् । आ । अगुः । अदक्षिणासः । अच्युता । दुदुक्षन् ॥makṣu | kanāyāḥ | sakhyam | nava-gvāḥ | ṛtam | vadantaḥ | ṛta-yuktim | agman | dvi-barhasaḥ | ye | upa | gopam | ā | aguḥ | adakṣiṇāsaḥ | acyutā | dudukṣan