Sukta 1.94
तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः । दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिषामा वयं तव ॥
तत्ते॑ भ॒द्रं यत्समि॑द्ध॒: स्वे दमे॒ सोमा॑हुतो॒ जर॑से मृळ॒यत्त॑मः । दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
tát te bhadráṃ yát samíddhaḥ své damé sómāhuto járase mṛḷayát-tamaḥ | dádhāsi rátnáṃ dráviṇaṃ ca dāśúṣe 'gne sakhyé mā́ riṣāmā vayáṃ táva ||
这便是你的吉祥之善:当你在自家居处被点燃,受苏摩(Soma)之供而被呼请时,你于增长的生命最为慈悯、最能赐护。你为施献者安立宝珠与资财的丰盈;噢阿耆尼(Agni),在你的友契中,愿我们——属于你的人——不遭伤害。
तत् । ते॒ । भ॒द्रम् । यत् । सम्ऽइ॑द्धः । स्वे । दमे॑ । सोम॑ऽआहुतः । जर॑से । मृ॒ळ॒यत्ऽत॑मः । दधा॑सि । रत्न॑म् । द्रवि॑णम् । च॒ । दा॒शुषे॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥तत् । ते । भद्रम् । यत् । सम्इद्धः । स्वे । दमे । सोमआहुतः । जरसे । मृळयत्तमः । दधासि । रत्नम् । द्रविणम् । च । दाशुषे । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥tat | te | bhadram | yat | sam-iddhaḥ | sve | dame | soma-āhutaḥ | jarase | mṛḷayat-tamaḥ | dadhāsi | ratnam | draviṇam | ca | dāśuṣe | agne | sakhye | mā | riṣāma | vayam | tava