Sukta 1.117
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना । युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुॠज्रेभिरश्वैः ॥
यु॒वं तुग्रा॑य पू॒र्व्येभि॒रेवै॑: पुनर्म॒न्याव॑भवतं युवाना । यु॒वं भु॒ज्युमर्ण॑सो॒ निः स॑मु॒द्राद्विभि॑रूहथुॠ॒ज्रेभि॒रश्वै॑: ॥
yuváṃ tugrā́ya pūrvyébhi reváiḥ punar manyā́v abhavataṃ yuvānā | yuváṃ bhujyúm árṇaso níḥ samudrā́d víbhir ūhathur ṛ́jrebhir áśvaiḥ ||
你们二位以古老的威力冲动,为图格拉(Tūgra)再度使心神返于青春。你们又以光步的骏马、以多般善巧之具,将布胡久(Bhujyu)自汹涌洪水、从大海之中救出而载来。
यु॒वम् । तुग्रा॑य । पू॒र्व्येभिः॑ । एवैः॑ । पु॒नः॒ऽम॒न्यौ । अ॒भ॒व॒त॒म् । यु॒वा॒ना॒ । यु॒वम् । भु॒ज्युम् । अर्ण॑सः । निः । स॒मु॒द्रात् । विऽभिः॑ । ऊ॒ह॒थुः॒ । ऋ॒ज्रेभिः॑ । अश्वैः॑ ॥युवम् । तुग्राय । पूर्व्येभिः । एवैः । पुनःमन्यौ । अभवतम् । युवाना । युवम् । भुज्युम् । अर्णसः । निः । समुद्रात् । विभिः । ऊहथुः । ऋज्रेभिः । अश्वैः ॥yuvam | tugrāya | pūrvyebhiḥ | evaiḥ | punaḥ-manyau | abhavatam | yuvānā | yuvam bhujyum | arṇasaḥ | niḥ | samudrāt | vi-bhiḥ | ūhathuḥ | ṛjrebhiḥ | aśvaiḥ