Sukta 1.109
पुरंदरा शिक्षतं वज्रहस्तास्माँ इन्द्राग्नी अवतं भरेषु । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
पुरं॑दरा॒ शिक्ष॑तं वज्रहस्ता॒स्माँ इ॑न्द्राग्नी अवतं॒ भरे॑षु । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
puraṃdará śíkṣataṃ vajrahastā asmā́ṃ indrāgnī avataṃ bháreṣu | tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī utá dyáuḥ ||
破城者、执金刚者啊,请教导我们;因陀罗与阿耆尼啊,在诸般争战的重负中护佑我们。愿密特罗与伐楼那使我们广大;愿阿底提、奔流的信度河、大地与苍天,增益并扶持我们。
पुर॑म्ऽदरा॑ । शिक्ष॑तम् । व॒ज्र॒ऽह॒स्ता॒ । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒त॒म् । भरे॑षु । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥पुरम्दरा । शिक्षतम् । वज्रहस्ता । अस्मान् । इन्द्राग्नी इति । अवतम् । भरेषु । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥puram-darā | śikṣatam | vajra-hastā | asmān | indrāgnī iti | avatam | bhareṣu | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛth ivī | uta | dyauḥ