Sukta 1.105
त्रितः कूपेऽवहितो देवान्हवत ऊतये । तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी ॥
त्रि॒तः कूपेऽव॑हितो दे॒वान्ह॑वत ऊ॒तये॑ । तच्छु॑श्राव॒ बृह॒स्पति॑: कृ॒ण्वन्नं॑हूर॒णादु॒रु वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
tritáḥ kū́pe 'váhito devā́n havata ūtáye | tác chuśrāva bṛ́haspátiḥ kṛṇván aṁhūraṇā́d urú vittáṁ me asyá rodasī ||
特里塔(Trita)被投掷、囚置于井中,呼唤诸天神求护佑。婆罗门主(Bṛhaspati)听见那呼号;他从逼仄中开辟广阔,带来解脱与出离。愿天地二界(天与地)在我之中印证这救度的发现。
त्रि॒तः । कूपे॑ । अव॑ऽहितः । दे॒वान् । ह॒व॒ते॒ । ऊ॒तये॑ । तत् । शु॒श्रा॒व॒ । बृह॒स्पतिः॑ । कृ॒ण्वन् । अं॒हू॒र॒णात् । उ॒रु । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥त्रितः । कूपे । अवहितः । देवान् । हवते । ऊतये । तत् । शुश्राव । बृहस्पतिः । कृण्वन् । अंहूरणात् । उरु । वित्तम् । मे । अस्य । रोदसी इति ॥tritaḥ | kūpe | ava-hitaḥ | devān | havate | ūtaye | tat | śuśrāva | bṛhaspatiḥ | kṛṇvan | aṃhūraṇāt | uru | vittam | me | asya | rodasī iti