
The Slaying of Tāreya
第69章叙述战场上最高潮的一幕:司建陀(Skanda,亦名古诃 Guha,帕尔瓦蒂与哈罗之子)与阿修罗族(Daitya)首领塔雷亚(Tāreya)激烈交锋。神圣武器(astra)与破法对抗迅疾交替;塔雷亚以箭雨连番猛攻,并施展名为毗湿瓦那罗(Vaiśvānara)、劳陀罗(Raudra)、阿戈罗(Aghora)等力量,甚至显现骇人形相,仿佛要威胁诸世界。 司建陀与同盟者,尤以毗沙迦(Viśākha)为著,逐一化解其攻势,并以炽燃之箭贯穿阿修罗统帅。描写愈发强烈:金羽之箭、鲜血如春花般流淌,兵刃在空中相击作响;终至塔雷亚败北坠地,震动大地。 章末诸天神以仪式般的礼敬供奉司建陀,将此胜利宣示为宇宙秩序的复归,并重申神圣护持对诸世界的守卫。
Verse 1
व्यास उवाच । तारेयो बलसंपन्नः शक्रतुल्यपराक्रमः । जघान विशिखैस्स्कन्दं पितृघातिनमाहवे
毗耶娑曰:塔雷耶(Tārēya)力具神威,其勇猛堪比因陀罗;他在战场上以利箭击中斯甘达——那弑父的斯甘达。
Verse 2
ततस्स्कन्दो महाबाहुर्हरितुल्यपराक्रमः । विचकर्त शरांस्तांस्तान्निर्बिभेद शरोत्तमैः
于是,臂力无双的斯甘达,勇武堪比毗湿奴(Hari),以最上妙箭连连射击,斩断并贯穿那些敌众。
Verse 3
स दैत्यस्सहसा स्कंदं छादयामास मार्गणैः । असंभ्रान्तः प्रचिच्छेद विशाखो विशिखैस्तदा
那位阿修罗忽然以箭雨遮蔽斯甘达;而毗舍迦镇定不乱,当即以自身之箭将其尽数截断。
Verse 4
तारेयोग्निशरैः स्कंदं जघान रणमूर्धनि । विशिखं भिदुरप्रख्यं चखान हरनंदने
在战阵最激烈之处,他以如星般、火焰为锋的箭矢击中斯甘达;又将一支倒钩之箭——以“裂破者”闻名——深深钉入哈罗之子。
Verse 5
वैश्वानरेण सेनानीस्तत्र संपर्यवारयत् । रौद्रमस्त्रं पुनर्दैत्यः प्रेषयामास तं प्रति
在那里,统帅以毗湿瓦那罗(火神)之武器遏止了攻势;随后那魔族又一次向他发出“罗陀罗”神兵。
Verse 6
तन्निरस्तं कृतं तेन बाणेनास्फालितेन च । अघोरं प्राक्षिपद्दैत्यो घोररूपं सुदारुणं
那攻势被他以一箭击退,震开并拨向一旁;随即那阿修罗掷出名为“阿伽罗”(Aghora)之力,形相狰狞,凶烈至极。
Verse 7
भूधरा विटपास्सिंहास्तथा सर्पादयः शराः । धावंति पार्वतीपुत्रं कोटिकोटिसहस्रशः
群山、林木、狮子、毒蛇等众物——如箭矢一般——以万万之数、以亿亿相叠之势,奔袭帕尔瓦蒂之子斯甘达。
Verse 8
छित्वा तांस्तुशरान्स्कंदो बिभेद दैत्यपुंगवं । आपादं शीर्षपर्यंतं शरैरग्न्यर्कसन्निभैः
斯甘达斩断那些箭矢后,又以如火如日般炽烈的箭簇,将最强的达伊提亚从足至顶尽皆贯穿。
Verse 9
स्वर्णपुंखाः शरा लग्ना देहे दैत्यपतेर्भृशं । रेजुस्ते स्वर्णशकला यथा कृष्णशिलोच्चये
金羽之箭深深嵌入达伊提亚之主的身躯,灿然闪耀——如黑石高堆上点点金屑。
Verse 10
तस्य देहात्ततश्चैव बहु सुस्राव शोणितं । यथा च माधवे मासि पुरुपुष्पश्शमी तरुः
随即,他的身躯涌出大量鲜血——正如在摩陀婆月(春时),沙弥树繁花怒放、倾泻成簇。
Verse 11
स्यंदनाधश्चराश्वाश्च शिश्यिरे भूमिलग्नकाः । अथ क्रुद्धो महादैत्यः शूलं भीमं च दारुणं
战车下方与其骏马皆倾倒,仿佛钉在大地。于是那大达伊提亚怒火炽盛,举起一柄可怖而凶猛的三叉戟。
Verse 12
धृत्वा तं प्रतिचिक्षेप कालमृत्युसमप्रभं । पार्वतीनंदनेनापि शूलं पाशुपतेन ह
他一把夺住,便将其掷回——光辉如同时间与死亡;甚至由帕尔瓦蒂之子所执的帕舒帕塔三叉戟,也被如此反掷回去。
Verse 13
क्षिप्तं तेन कृतं दग्धं मुहूर्तेन रणाजिरे । पुनः शक्तिं मुमोचाथ ब्रह्मदत्तान्तु दानवः
他所掷之物,在战场上顷刻间被焚毁。随后,魔罗婆罗摩达多(Brahmadatta)又一次放出他的枪矛神兵。
Verse 14
शूलं प्रतिजघानाथ शतकूटसमप्रभम् । ततोऽस्त्रे वज्रसंकाशे जघटाते वियत्यपि
主以三叉戟回击,炽盛如百座山峰。继而,即便在空中,两件兵器也如金刚雷电般闪耀,相互撞击。
Verse 15
तयोस्सवीर्ययोरस्त्रे धरण्यां प्रणिपेततुः । ततो दैत्यपतिः स्कंदं शरैरग्निशिखोपमैः
于是那两件威力无比的兵器坠落大地。随后,代底耶之王以如火舌般的箭矢攻向斯甘达。
Verse 16
अर्दयामास सहसा घनधारेव पर्वतं । तांस्तु च्छित्वा महाबाहुः सेनानीश्चापमस्य वै
他骤然猛击,如暴雨倾泻击打山岳一般。然而那位臂力无双的统帅斩断诸箭,确实握起了他的弓。
Verse 17
विचकर्तार्धचंद्रेण तथा यंतुः शिरोमहत् । तथाश्वान्बहुभिर्बाणैः पातयामास भूतले
他以半月形利刃斩下延图那雄伟的头颅;又以无数箭矢将群马同样射落于大地。
Verse 18
गृहीत्वा मुसलं वेगात्स दुद्राव स्थले गुहं । जघान तेन दैत्येन्द्रः शिखिनं शिखिवाहनं
他迅疾抓起钉锤,冲向战场上的古诃;那代提耶之主以此击倒了尸弃因——乘孔雀之神。
Verse 19
ततो मोहं गतो बर्ही प्रचकंपे मुहुर्मुहुः । ततः स्कंदः पुनस्तं च जघानासुरपुंगवं
于是巴尔希陷入迷乱,屡屡战栗;随即,斯坎达再次出手,击倒那最杰出的阿修罗。
Verse 20
प्रचिच्छेदासिना वेगान्मुसलं चातिदारुणं । तारेयः शक्तिमादाय जघान क्रौंचदारणम्
他以迅猛之势挥剑,劈断那极其可怖的钉锤;继而塔雷耶执起长枪,击倒了“劈裂鸠槃荼山者”——克劳恩恰·达拉那。
Verse 21
सोपि शक्तिं मुमोचाथ अमोघां दुष्टघातिनीम् । ततः संदह्य सा शक्तिर्विश्वप्रलयकारिणी
他也放出一件无不中的神圣武器,专诛邪恶;焚尽万有之后,那股威力竟成了世界毁灭之因。
Verse 22
यमदंडसमानं च भित्वा पुनर्गुहं गता । स गतासुः पपातोर्व्यां चालयंश्च वसुंधरां
她击碎那如阎摩之杖者,复又回入洞窟。彼已气绝,仆倒于大地,震动脚下的尘寰。
Verse 23
पुष्पधूपादिभिः स्कंदः सर्वदेवैः प्रपूजितः
斯坎达为诸天以花鬘、香烟及诸般供品如法礼敬。
Verse 69
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तारेयवधोनामैकोनसप्ततितमोऽध्यायः
至此,圣《莲华往世书》第一部〈创世品〉中名为“诛灭塔雷亚”的第六十九章圆满。