Adhyaya 58
Srishti KhandaAdhyaya 5857 Verses

Adhyaya 58

Praise of the Merits of Sacred Ponds, Tree-Planting, and Water-Charities

本章开示:种植并护持树木所得的福德(puṇya),若在水边行之——如河岸、池塘、水库与莲池——其功德将不可思议地倍增。其中特别推尊阿湿婆他树(aśvattha/pippala,菩提榕):触摸、绕行(pradakṣiṇā)与礼拜供养,能灭罪、得富足、延寿、得子并生天;若伤害砍伐,则招致严厉的地狱果报。 经文又将功德伦理扩展为利济众生的公共善行:修建与维护普什迦里尼(puṣkariṇī,蓄水池/圣池)、设立普拉帕(prapā,施水处)及安置“法水罐”等,皆为长久不坏、助成解脱(mokṣa)的布施,并能利益祖先与后代。由此把护生态与供水设施提升为具敬虔性的奉献之业,福泽绵延世代。

Shlokas

Verse 1

व्यास उवाच । शाखिनामेव सर्वेषां फलं वक्ष्यामि यादृशम् । तच्छृणुध्वं महाभागा रोपणे च पृथक्पृथक्

毗耶娑言:我将宣说一切树木所生之功德果报。诸位有福者,当谛听;并且在栽植之时,我亦将逐树分别说明。

Verse 2

यस्तु रोपयते तीरे पुण्यवृक्षान्समंततः । तस्य पुण्यफलं ज्ञातुं कथितुं नैव शक्यते

然而,若有人在河岸四周遍植能生福德之圣树,其所积功德之果,实不可尽知,亦不可尽述。

Verse 3

अन्यत्र रोपणं कृत्वा शाखिनां यत्फलं लभेत् । ततो जलसमीपे तु लक्षकोटिगुणं भवेत्

在他处植树所得之功德,若于水边而行,则同一善业增为一亿倍(lakṣa-koṭi)。

Verse 4

स्वयं पुष्करिणी तीरे त्वनंतं फलमश्नुते । तस्माच्छतगुणं ब्रूमः शाखिनां पुण्यकारिणाम्

凡亲自前往并住于神圣莲池(puṣkariṇī)之岸者,得无尽的灵性福果。因此我等宣说:栽植并护养树木之人所生功德,胜过百倍。

Verse 5

अश्वत्थरोपणं कृत्वा जलाशयसमीपतः । यत्फलं लभते मर्त्यो न तत्क्रतुशतैरपि

若在水库、水塘之近处栽植圣无花果树 aśvattha,凡人所得功德之果,纵行百次吠陀祭(kratu)亦不能及。

Verse 6

पतंति यानि पत्राणि जले पर्वणि पर्वणि । तानि पिंडसमानीह पितॄणामक्षयं ययुः

凡于每一 parvan(神圣月相交会)之时落入水中的叶片,在此皆等同于 piṇḍa(祭食团),并令祖先获得不坏、无尽的满足。

Verse 7

खादंति पतगास्तत्र फलानि कामतो ध्रुवम् । ब्रह्मभक्ष्यसमं तस्य पुण्यं भवति चाक्षयम्

在那里,群鸟确实随意啄食其果;而由此之行,功德成为无尽,等同于供献适合梵天(Brahmā)之食的功德。

Verse 8

अश्वत्थेनैव भक्ष्येण रोपणेनैव यत्फलम् । तद्वै क्रतुशतैर्नैव पुत्रैरेव शतैरपि

由供献与 aśvattha 相关之食、以及栽植 aśvattha 本身所获之功德,其果报非百次祭祀所能得,亦非百子所能及。

Verse 9

उष्णेच्छायां प्रगृह्णंति गावो देवद्विजातयः । कर्तुः पितृगणानां च स्वर्गो भवति चाक्षयः

当在炎热之时,诸神与二次出生者(婆罗门)受纳(领受供施)牛时,施主及其祖先众灵便得不坏之天界。

Verse 10

कर्तुं स्वस्थस्य वै विघ्नमक्षयत्वान्न शक्यते । तस्मात्सर्वप्रयत्नेन रोपयेद्वृक्षमाधवम्

要为受护佑而安稳之人制造障碍并不可能,因为那护持是不灭的。因此,应竭尽全力栽植“摩陀婆树”,即奉献于毗湿奴的圣树。

Verse 11

एकं वृक्षं समारोप्य नरः स्वर्गान्न हीयते । तस्मादेव महावृक्षं रोपयध्वं द्विजोत्तमाः

即便只种下一棵树,人也不会从天界堕落。因此,诸位最胜的二次出生者啊,当栽植高大长寿之树。

Verse 12

जलानां निकटे रम्ये रसानां क्रयविक्रये । मार्गे जलाशये वृक्षान्रोपयेद्यो महाशयः

心怀高尚者若在临水的清美之处、在买卖汁液等饮品的市集、以及道路旁与水池水库近处栽种树木,便成就广大功德。

Verse 13

अश्वत्थादीन्समारोप्य स्वर्गं याति मनोरमम् । अर्चयित्वा तु यत्पुण्यं प्रवक्ष्यामि द्विजातयः

栽植阿湿婆他(圣榕)等诸圣树者,将往生于悦乐天界。如今,二次出生者啊,我将宣说由礼拜供奉所生之功德。

Verse 14

स्नात्वाश्वत्थं स्पृशेद्यस्तु सर्वपापैः प्रमुच्यते । अस्नातो यः स्पृशेन्मर्त्यो लभते स्नानजं फलम्

凡沐浴之后触摸圣阿湿婆他树(菩提榕、毕钵罗)者,得脱一切罪业;即使未沐浴而触之的凡人,也能获得如沐浴所生之功德。

Verse 15

दृष्ट्वा च नाशयेत्पापं स्पृष्ट्वा लक्ष्मीं प्रपद्यते । प्रदक्षिणे भवेदायुः सदाश्वत्थ नमोस्तु ते

仅仅瞻见你,罪业便消;触摸你,则得拉克什米(吉祥与富饶)。绕行你一周,寿命增长。噢圣阿湿婆他树,愿我恒常顶礼于你。

Verse 16

चलद्दलाय वृक्षाय सदा विष्णुस्थिताय च । बोधिसत्वाय योग्याय सदाश्वत्थ नमोस्तु ते

顶礼于你,恒常的阿湿婆他——叶动微颤之树;你永为毗湿奴之所住,适合觉悟的求道者,堪受敬礼。

Verse 17

अश्वत्थाय तु हव्यं तु पयो नैवेद्यमेव च । पुष्पं धूपं दीपकं च दत्वा स्वर्गान्न हीयते

向阿湿婆他圣树(圣无花果)奉献供火之供品、以乳为食供,并献花、焚香与明灯者,便不致从天界福位堕落。

Verse 18

सपुत्रं चाक्षयं विद्धि धनवृद्धियशस्करम् । विजयं मानदं भद्रमश्वत्थस्य प्रपूजनम्

当知礼敬阿湿婆他(圣无花果)能赐子嗣与不坏功德;增长财富与名声,授予胜利,带来尊荣,并成就吉祥安泰。

Verse 19

यज्जप्तं च हुतं स्तोत्रं यन्त्रमंत्रादिकं च यत् । सर्वं कोटिगुणं प्रोक्तं मूले चलदलस्य च

凡以持诵(japa)所念、以火供(homa)所献、以赞颂(stotra)所诵,以及与坛城(yantra)、真言(mantra)等相关的一切——皆宣说:若在圣树Caladala之根部行之,其功德得千万倍(koti)增长。

Verse 20

यस्य मूले स्थितो विष्णुर्मध्ये तिष्ठति शंकरः । अग्रभागे स्थितो ब्रह्मा कस्तं जगति नार्चयेत्

其根有毗湿奴(Viṣṇu)驻立,其中有商羯罗(Śaṅkara)安住,其前端有梵天(Brahmā)居处——世间有谁不礼敬供奉此圣树?

Verse 21

सोमवारे त्वमायां च स्नानं यन्मौनिना कृतम् । दानस्य गोसहस्रस्य फलं चाश्वत्थवंदने

沉默的牟尼于周一在Tvamā所行之沐浴,被说与布施千牛之功德等同;同样,礼敬圣菩提树(aśvattha)亦得如是福德。

Verse 22

सप्तप्रदक्षिणेनैव गवामयुतजं फलम् । प्रचुराल्लक्षकोटिश्च तस्मात्कार्या हि सा सदा

仅以七次绕行礼敬(pradakṣiṇā),便得等同于施舍一万头牛之功德;且福报丰盛,至于十万、千万之量。故此七绕应当恒常奉行。

Verse 23

यत्किंचिद्दीयते तत्र फलमूलजलादिकम् । सर्वं तच्चाक्षयफलं जन्मजन्मसु जायते

凡在彼处所施与者——果实、根茎、清水等——一切供施皆成不坏功德,生生世世结其果报。

Verse 24

अहोश्वत्थसमो नास्ति वृक्षरूपी हरिर्भुवि । यथा पूज्यो द्विजो लोके यथा गावो यथामराः

啊!在大地上没有树能与阿湿婆他(圣榕/菩提树)相比,因为诃利以树的形态住于此。正如婆罗门在世间应受礼敬,牛亦应受礼敬,诸天亦复如是。

Verse 25

तथाश्वत्थवृक्षरूपी देवः पूज्यतमः स्मृतः । रोपणे रक्षणे स्पर्शे पूजाकर्मणि वै सदा

同样,住于阿湿婆他树形之神,被忆念为最应受供奉者——常于栽植、护持、触碰以及行礼拜供养之业中皆当如是。

Verse 26

ददाति वित्तं पुत्रांश्च स्वर्गं मोक्षं पुनः क्रमात् । किंचिच्छेदं तु यः कुर्यादश्वत्थस्य तनौ नरः

它依次赐予财富、子嗣、天界之乐,继而赐予解脱(莫克沙)。然而,若有人在这神圣的阿湿婆他树身(树干)上哪怕割出一丝小口……

Verse 27

कल्पैकं निरयं भुक्त्वा चांडालादौ प्रजायते । मूलच्छेदेन तस्यैव स च यात्यपुनर्भवम्

受一劫之久的地狱苦报之后,他将生于最下贱的弃民之中,如旃陀罗等。然而,若能斩断那同一根本(罪业/轮回之根),他亦得至不复再生之境。

Verse 28

पुरुषास्तस्य तिष्ठंति रौरवे घोरदर्शने । अश्वत्थस्यैकवृक्षस्य रोपणे यत्फलं भवेत्

此等之人将久住于名为“劳罗婆”(Raurava)的可怖地狱,景象骇人。这便是彼业之果;而栽种一株阿湿婆他树,也同样有其特定的功德之果。

Verse 29

तथैव चंपकेर्के च त्रयाणां रोपणेपि च । अष्टौ बिल्वस्य वृक्षाश्च न्यग्रोधाश्चैव सप्त च

同样,栽植占波迦(campaka)与伊罗迦(eraka)亦有功德;并当种植八株毕罗树(bilva),又种七株尼伽罗陀(nyagrodha,榕树)。

Verse 30

निंबस्य दशवृक्षाश्च फलं चैषां समं भवेत् । एकैकस्य फलं चोक्तं वृक्षाणां रोपणे द्विजाः

据说,栽植十株尼姆树(nimba/neem)所得之果报,其结果相等。噢,二次生者啊,关于植树之果报,已为每一株分别宣说。

Verse 31

एवं बुध्वा तु धर्मात्मा यः कुर्यात्कृत्रिमं वनम् । कल्पकोटिसहस्राणि कल्पकोटिशतानि च

如是了知后,具法之人若营造人造林苑(种植之林),其功德可延续千亿劫之千倍,亦复百亿劫之百倍。

Verse 32

नाकमेति स चूतस्य समारोप्य सहस्रकम् । ततो द्वित्रिगुणेनैव न्यूने वा प्रचुरेपि वा

献上一千份芒果供养者,得至天界;其后功德或倍增、或三倍增——无论少许或丰盛皆然。

Verse 33

भुंक्ते भुक्त्वा पुनः कुर्यान्नृपो वाथ सदीश्वरः । स्वर्गं भोग्यं ततो राज्यं कल्याणं मंगलं शुभम्

享受其果报之后,当再行善业;无论为王,或为有大威势之主,皆得可受用之天界,继而得王权、安泰、吉祥与福祉。

Verse 34

आरोग्यं शौर्यसंपन्नमारामादेव जायते । फलानि यस्य खादंति जंतवोथ सहस्रशः

确实由园林生起健康与勇勇;其中千千万万的众生享食其果。

Verse 35

आश्रिता विहगाः कीटाः पतगाः शलभादयः । छायाश्रिताश्च ये सत्वास्तत्संख्याताः पृथग्जनाः

凡于彼处依止者——鸟类、虫类、诸有翼者如蝗等——以及栖居其荫下的一切众生:皆按其数目,各各算作独立之个体。

Verse 36

तस्य किंकरतां यांति शतशो देवतार्चिताः । ये च वृक्षा महासत्वास्सर्वे ते देवरूपिणः

为诸天所礼敬的百位神祇,皆来入其役使;而那些具大生命力之树亦复如是:一切都呈现神圣之形。

Verse 37

तदर्चा पितृवत्कार्या शुश्रूषां जलपिंडकम् । मर्त्यलोके च ते पुत्रास्तस्य जन्मनि जन्मनि

应如奉祀祖灵(Pitṛ)一般敬拜之,以侍奉、献水奠与饭团(米团)为供;而在世间为人之处,其子嗣将于每一生中屡屡再生。

Verse 38

सुरूपाः सुविनीताश्च सदापुण्यक्रिया शुभाः । एवं गणेशतां यांति जंतवश्चूतलग्नकाः

形貌端美,性行调顺,恒常修作吉祥功德;如是依恋芒果树之众生,得至成为象头神伽内沙(Gaṇeśa)侍从之位。

Verse 39

धात्री हरीतकी चान्ये कटुतिक्ताम्लसंभवाः । सर्वे चारामतः शुद्धाः फलदाः शिवदाः सदा

余甘子(dhātrī)、诃梨勒(harītakī)及其他具辛、苦、酸之味而生的诸果,皆以其本性而净化;恒常赐予果报(利益),并时时授与湿婆之吉祥。

Verse 40

प्रासादा यत्र सौवर्णाः सर्वरत्नविभूषिताः । सर्वाभरणसंयुक्ता विमानाश्चानिलोपमाः

彼处宫殿皆以黄金铸成,饰以一切宝珠;诸天车亦然,具足众饰,无与伦比,疾如风行。

Verse 41

शातकुंभमया वृक्षाः सदैव सर्वदायिनः । सर्वर्तुसुखदाः सौम्यकन्यका अप्सरस्समाः

有以精炼黄金所成之树,恒常施与一切所求之赐。温柔少女如天女(Apsaras)一般,于四时皆带来安乐。

Verse 42

गीतनृत्यपराधीरास्तत्र तिष्ठंति वृक्षदाः । पुष्करिण्यो विशेषेण खातान्यन्यानि यानि च

彼处有专心歌舞者安住其间,并有能赐所愿之果的树木;尤有圣洁莲池,以及其他开凿的水塘与种种水库。

Verse 43

शुद्धोपलांतरचिता नद्यः पायसकर्द्दमाः । पुनर्दुग्धसफेनाश्च अन्नादिषड्रसान्विताः

诸河流淌,夹于净石之间,其泥如乳粥;又复如乳而起泡沫,并具六味,从谷食之味起。

Verse 44

मर्त्यलोके यथा भोग्यं पुनः स्वर्गे पुनर्भुवि । पुनरेव तदभ्यासात्खातमारामकं पुनः

正如在凡世中享受诸乐一般,亦复在天界再受其乐,又复在大地再受其乐。诚然,由于反复沉溺于同样的享受,众生便一次又一次坠入所掘之坑,陷于败坏之境。

Verse 45

यथा पुण्यादिकं कृत्वा स्वर्गमर्त्याधिपः पुमान् । अशक्तस्तु प्रपां कृत्वा पुष्करिण्याः फलं लभेत्

正如一人以修诸福业(puṇya)等而得天上与人间之主位;同样,若不能行更大功德,但能建立施水之所(prapā,公共饮水处),亦可获得如建圣池之果报。

Verse 46

प्रपाया लक्षणं चात्र सर्वपापहरं परं । सर्वभोगप्रदं शुद्धं स्वर्गापवर्गदं स्थिरं

此处宣说 prapā(施水歇息处)之相:最胜能除一切罪;能赐诸受用;清净无染;并能授与天界之乐与解脱;其功德坚固长存。

Verse 47

लक्षणं च प्रवक्ष्यामि प्रपायाः कीर्तिवर्धनम् । निर्जलेऽध्वनि पृक्ते च स्थाने कृत्वा च मंडपम्

我今将宣说 prapā(施水站)之正相,能增长名闻:当于无水之路上,于适宜之处,建立一座曼荼罗亭(maṇḍapa,凉亭/棚亭)。

Verse 48

बहुपान्थे समायाते ग्रीष्मवर्षाशरत्स्वपि । अगरुकादि सौगंध्यं जलं पूगं सचंद्रकम्

当众多行旅前来——无论夏季、雨季或秋季——应施以以沉香(agaru)等熏香之芳水,并供槟榔(pūga),以及清凉如月之饮品,以慰其渴乏。

Verse 49

आसनं चैव तांबूलं दत्वा स्वर्गान्न हीयते । एवं वर्षत्रयेणैव पुष्करिण्याः फलं लभेत्

施与座席并奉上槟榔(tāmbūla)者,不会从天界堕落。如此仅三年,便能获得与圣池(puṣkariṇī)相应的圆满功德之果。

Verse 50

स्वर्गाच्चैवाच्युतो मर्त्यो देवैरपि प्रपूज्यते । मासमेकं तु यो दद्यात्प्रपां ग्रीष्मेथ निर्जले

即便从天界堕落的凡人,若在干旱的夏季,于无水之地设立施水处(prapā,公共饮水亭)达一月,也会受到诸天的礼敬。

Verse 51

कल्पैकं तु वसेत्स्वर्गे स्वर्गाद्भ्रष्टो महीयते । प्रपादास्तत्र तिष्ठंति यत्र पुष्करिणीप्रदाः

人可在天界住满一劫(kalpa);纵使自天界坠落,在人间仍受尊崇。凡有圣池(puṣkariṇī)施恩之处,其沐浴阶梯亦具如是尊位。

Verse 52

नोचेद्धर्मघटो देयः पुण्यः पापक्षयाय च । एष धर्मघटो ज्ञेयो ब्रह्मविष्णुशिवात्मकः

否则,应当布施“法之水罐”(dharma-ghaṭa),此为功德之施,能灭除罪垢。此法罐当知为具足梵天(Brahmā)、毗湿奴(Viṣṇu)与湿婆(Śiva)之体。

Verse 53

तवप्रसादात्सफलाः मम संतु मनोरथाः । स्वर्णमाषं चतुर्भागं दक्षिणार्थं घटस्य च

愿凭汝之恩典,使我诸愿皆得成就。并愿以四分之一摩沙(māṣa)之金,作为此罐仪式的供养酬施(dakṣiṇā)。

Verse 54

एवं वर्षत्रयेणैव प्रपादानफलं लभेत् । यः पठेच्छ्रावयेद्वापि पुष्करिण्यादिजं फलम्

如此,仅在三年之内,便能获得布施“施水亭”(供大众饮水之处)的功德果报。凡诵读此段记述,或令他人诵读者,亦同得由圣池等诸善行所生之福德。

Verse 55

साक्षात्पापाद्भवेन्मुक्तस्तत्प्रसादात्तु सद्गतिः । जनेषु श्रावयेद्यस्तु पुण्याख्यानमिदं शुभम्

承其加被,众生得以直接解脱罪垢,趋向吉祥善趣。凡使此吉祥、具福德的圣传在众人中得闻者,亦同获其果。

Verse 56

कल्पकोटिसहस्राणि सुरलोके स तिष्ठति

他将于天界安住,历经千千万万亿之劫(kalpa)。

Verse 58

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पुष्करिण्यादिधर्मकीर्तनंनामाष्टपंचाशत्तमो । ऽध्यायः

至此,《圣莲华往世书》第一部(创世品,Sṛṣṭikhaṇḍa)中名为《称赞圣池(Pushkarinī)及相关诸法之功德》的第五十八章圆满。