
The Five Narratives (Pañcākhyāna): Desire, Forbearance, Devotion, and Merit of Hearing
第56章(五故事,Pañcākhyāna)将多则劝诫性的短篇合编为一部具大功德的叙事。开篇呈现一段带有震撼意味的湿婆故事:湿婆与众女的情欲嬉戏;高丽/乌玛以瑜伽神通洞见其事,忿怒之下化现为“吉祥作成者”形相——克谢曼迦丽(Kṣemaṅkarī)。最终以诅咒作结,注定诸女的命运,并使其遭受社会性的放逐与流离。 随后经文转入奉爱与伦理教诲:承认“欲”(kāma)之力,即便大神亦难免;而“忍”(kṣamā,宽恕与容忍)被赞为成就主宰之德。接着出现以毗湿奴信仰为中心的段落,强调哈利/阇那尔达那在虔信者家中亦可亲近,且以侍奉父母与真诚礼拜为首要法则。 末尾功德偈(phalaśruti)宣说:听闻或诵读此五重叙事,可得护佑、远离不祥,其功德等同于重大布施与朝圣诸圣地(tīrtha)。
Verse 1
श्रीभगवानुवाच । पुरा शर्वः स्त्रियो दृष्ट्वा युवती रूपशालिनीः । गंधर्वकिन्नराणां च मनुष्याणां च सर्वतः
世尊曰:往昔,舍婆(Śarva,即湿婆)见到女子——青春而姿容端丽——在乾闼婆与紧那罗之中,亦在人间各处,
Verse 2
मंत्रेण ताः समाकृष्य त्वतिदूरे विहायसि । तपोव्याजपरो देवस्तासु संगतमानसः
他以真言将她们牵引到你身边,却又把她们远远抛在天际;那位神祇以苦行为托辞,心念却仍系于那些女子。
Verse 3
अतिरम्यां कुटीं कृत्वा ताभिः सह महेश्वरः । क्रीडां चकार सहसा मनोभव पराभवः
他建起一座极其华美的茅庐;大自在天摩诃湿伐罗——曾降伏摩奴婆伐(迦摩)者——忽然与她们在其中嬉戏游乐。
Verse 4
एतस्मिन्नंतरे गौर्याश्चित्तमुद्भ्रांततां गतम् । अपश्यद्ध्यानयोगेन क्रीडंतं जगदीश्वरम्
其间,乔丽的心神迷乱;她以禅定瑜伽观见宇宙之主,正在行其神圣的戏游(līlā)。
Verse 5
स्त्रीभिरंतर्गतं ज्ञात्वा रोषस्य वशगाभवत् । ततः क्षेमंकरी रूपा भूत्वा च प्रविवेश सा
她得知他已进入众女之中,便为忿怒所制;随即化作“赐安者”吉祥相——Kṣemaṅkarī——也进入其中。
Verse 6
व्योमैकांतेतिदूरे च कामदेव समप्रभम् । वामातिमध्यगं शुभ्रं पुरुषं पुरुषोत्तमम्
在遥远而寂静的天穹一隅,(他)见到至上之人——Puruṣottama:光辉如迦摩天,清净皎然,身位略偏于中央之左。
Verse 7
स्त्रीभिः सह समालिग्य प्रक्रीडंतं मुहुर्मुहुः । चुंबंतं निर्भरं देवं हरं रागप्रपीडितम्
她们与众女一同拥抱他,反复嬉戏;又热烈亲吻天神诃罗(Hara),而他正为情欲之火所逼迫。
Verse 8
वृत्तं क्षेमंकरी दृष्ट्वा निपपाताग्रतस्तदा । तासां केशेषु चाकृष्य चकार चरणाहतिम्
当他看见弗利塔(Vṛtta)与吉祥作(Kṣemaṅkarī)时,便从正面扑向她们;揪住她们的头发,以脚踢击。
Verse 9
त्रपया पीडितश्शर्वः पराङ्मुखमवस्थितः । केशेष्वाकृष्य रोषात्ताः पातयामास भूतले
舍尔瓦(湿婆)为羞惭所苦,背过脸站立;继而因愤怒揪住她们的头发,将她们掷倒在地。
Verse 10
स्त्रियः सर्वाधरां प्राप्य सहसा विकृताननाः । उमाशापप्रदग्धांगा म्लेच्छानां वशमागताः
诸女抵达萨尔瓦达拉(Sarvādhara)后,面容忽然变得丑陋;肢体被乌玛(Umā)的诅咒灼烧,遂落入弥勒叉(Mleccha)之掌控。
Verse 11
ताश्चांडालस्त्रियः ख्याता अधवा धवसंयुताः । अद्याप्युमाकृतं शापं सर्वास्ताश्च समश्नुयुः
她们被称为旃陀罗(Caṇḍāla)之女,或称为归附夫主之妇;直至今日,她们仍共同承受乌玛所宣之诅咒。
Verse 12
अथोमा शतधा रूपं कृत्वेशं संगता तदा । एवं प्रभावं जानीहि कामस्य सततं द्विज
于是乌玛化作百种形相,前往亲近主宰。应当知晓,噢二次生者,爱欲之神迦摩(欲望)恒常的威力。
Verse 13
ततश्चिरात्तया सार्द्धं गतः कैलासमंदिरं । अतः क्षेमंकरीं दृष्ट्वा येभिनंदंति मानवाः
随后,经过许久,他与她一同前往凯拉萨的殿宇。因此,见到赐安吉祥的克舍曼迦丽(Kṣemaṅkarī)时,人们欢喜踊跃。
Verse 14
तेषां वित्तर्द्धि विभवा भवंतीह परत्र च । कुंकुमारक्तसर्वांगि कुंदेन्दुधवलानने
对他们而言,福泽、财富与光辉在此世与彼世皆得增长。噢遍体丹朱之色者,噢面容皎洁明耀如茉莉与明月者。
Verse 15
सर्वमंगलदे देवि क्षेमंकरि नमोस्तु ते । योगिनीसाम्यं तेनैव संमुखा विमुखापि वा
噢女神,赐予一切吉祥者,施安成就者克舍曼迦丽(Kṣemaṅkarī),向你顶礼。凭此同一威力,无论当面朝向你,或即便背向你,也能得与瑜伽女神众(Yoginī)同等之境。
Verse 16
दृष्ट्वा तां नाभिवंदेद्यस्तस्य युद्धे पराजयः । राजगृहेषु विद्यायां नमस्काराज्जयो भवेत्
凡见到她而不行礼致敬者,于战阵之中必遭败北;而在王廷之内与求学之途,因恭敬顶礼而得胜利。
Verse 17
एवं कामस्य माहात्म्यं भवो मोहवशं गतः । अयं देवासुराणां च क्षमया प्रभुतां गतः
这就是伽摩(欲爱)的非凡威力:连婆伐(湿婆)也落入迷妄的支配。此人又以“刹摩”(宽忍、忍辱)而得以统御天神与阿修罗。
Verse 18
अस्यैव सदृशो लोके न भूतो न भविष्यति । रामामङ्कस्थितां रम्यां क्षमातल्पगतेन च
在此世间,从未有过与她相似者,将来也不会再出现。她端丽可爱,安坐于罗摩(罗摩女神)之膝,又仿佛安卧在大地之床。
Verse 19
त्यक्त्वैव साधिता लोकास्सुरासुरसुदुर्लभाः । एवं वैष्णवमुख्यश्च सुरासुरगणार्चितः
唯以出离与舍弃,方能成就连天神与阿修罗都极难获得的诸世界。因此,最上首的毗湿奴信徒,为天神与阿修罗众所礼敬。
Verse 20
यो नो ददाति भुक्त्यग्र्यं शेषं च स्वयमश्नुते । एवमभ्यासधैर्येण दीर्घकाले सुखंगते
若有人不把饭食中最上好的部分施与我们,反而自己吃那余剩;凭借如此反复的习惯与执拗,久而久之,他也会趋入安乐之境。
Verse 21
प्राक्संगमात्स्वभार्यां च दृष्ट्वा मां प्रददौ मुदा । द्वादशाब्दं प्रसंकल्प्य प्राग्भोगो मयि वेशितः
在我们结合之前,他欢喜地把我交付给自己的妻子;并立下十二年之期,把本应先前享受的欢娱加诸于我。
Verse 22
तेन तस्य गृहे नित्यं तिष्ठामि गृहरक्षणात् । तथा धात्रीफलस्यापि सदा स्वर समीहते
因此我常住于他的家中,守护其家宅;同样,余甘子(dhātrī,āmalakī)之果也恒常希求天界之境。
Verse 23
तस्मादुक्तो मयान्येषां वैष्णवानां च वैष्णवः । पुरा ये विप्र मे भक्तास्सुरा मत्पथगामिनः
因此我宣说他是在诸多毗湿奴信徒中之毗湿奴信徒。往昔啊,婆罗门,那些为我之奉献者的诸天,皆随我道而行。
Verse 24
तैरेव न कृतं यच्च तदनेन कृतं परम् । तस्माद्वैष्णवसर्वस्वं नाम रम्यं मया कृतम्
他们未能成就之事,他已至高圆满地成就。故我撰成此名为《毗湿奴信徒之精髓》(Vaiṣṇava-sarvasva)的悦意之作。
Verse 25
अस्य वेश्मनि तिष्ठामि मुहूर्तं न चलाम्यहम् । अतो ये चैवमद्भक्तास्तेष्वहं सुलभो द्विज
我住于此奉献者之家,片刻亦不离去。因此,二次生者啊,对如是奉我之人,我极易得见、极易可达。
Verse 26
अस्माकं पदवीं तेभ्यो ह्यद्य दद्मि स्वकारणम् । आवयोर्विप्रसौजन्यं स्वप्नभोज्यादिकं समम्
今日我将向他们揭示我等处境之因。于我二人之间,婆罗门啊,所谓婆罗门应有的温良行持,与梦中所享之食等事无异——同属虚幻之性。
Verse 27
सायुज्यं च सखित्वं च पश्य भूदेवनांतरम् । ततो मूकादयः सर्वे स्वागता हरिमीश्वरम्
“请看大地诸神之间的差别:有的得 sāyujya,与主合一;有的得 sakhya,与主为友。随后众人——乃至哑者等——都恭迎哈利(Hari),至上的自在天(Īśvara)。”
Verse 28
गंतुकामा दिवं पुण्यास्सदाराः सपरिच्छदाः । ये च तेषां गृहाभ्याशेप्यात्मनो गृहगोधिकाः
“那些具福德者欲往天界,携妻并带着一切资具而行;甚至住在他们宅旁的家壁虎——仿佛也属其家眷——也随之同行。”
Verse 29
नाना कीटादयो ये च तेषामनुययुः सुराः । व्यास उवाच । एतस्मिन्नंतरे देवाः सिद्धाश्च परमर्षयः
“当时种种昆虫等众生也随他们而去;诸天(deva)亦在其后相随。毗耶娑(Vyāsa)说:就在那一瞬间,诸天、悉达(Siddha)以及至高的圣仙(ṛṣi)也随之现前。”
Verse 30
प्रचक्रुः पुष्पवर्षाणि साधुसाध्वित्यनादयन् । देवदुंदुभयो नेदुर्विमानेषु वनेषु च
“他们降下花雨,高声称赞:‘善哉!善哉!’(sādhu, sādhu)天鼓轰鸣,在诸天车(vimāna)之中,也在林野之间回响。”
Verse 31
समारुह्य रथं स्वं स्वं हरिवीथीपुरं ययुः । तदद्भुतं समालोक्य विप्रोऽवोचज्जनार्दनम्
“他们各自登上自己的车乘,前往哈利毗提城(Harivīthīpura)。见此奇景,那位婆罗门便对阇那尔达那(Janārdana,毗湿奴)开口说道。”
Verse 32
उपदेशं च देवेश ब्रूहि मे मधुसूदन । श्रीभगवानुवाच । गच्छ स्वपितरौ तात शोकविक्लवमानसौ
“诸天之主啊,摩度苏陀那,请赐我教诲。”世尊曰:“去吧,亲爱的孩子,回到你的父母那里;他们的心被悲痛所淹没。”
Verse 33
समाराध्य प्रयत्नेन मद्गृहं प्राप्स्यसेऽचिरात् । पितृमातृसमा देवा न तिष्ठंति सुरालये
若你以真诚之力敬拜并奉事,不久便能到达我的居所。诸神如同父母,并不只停留在天界之中。
Verse 34
याभ्यां सुगर्हितं देहं शिशुत्वे पालितं सदा । अज्ञानदोषसहितं प्रपुष्टं चापि वर्धितम्
正是那二人,使此身——虽多可责——在幼时常得抚育;纵有无明之过,也被滋养、培育,直至成长成熟。
Verse 35
याभ्यां तयोस्समं नास्ति त्रैलोक्ये सचराचरे । ततो देवगणास्सर्वे पंचभिस्तैर्मुदान्विताः
于三界之中——动与不动——无有可与那二人相比者。因此,诸神众会皆欢喜踊跃,因那五者而充满喜悦。
Verse 36
माधवं संस्तुवंतश्च गतास्ते हरिमंदिरम् । खचितां च पुरीं रम्यां विश्वकर्मविनिर्मिताम्
他们赞颂摩达婆,前往哈利之神殿——那座华美之城,镶嵌璀璨,由毗首羯磨所造。
Verse 37
रत्नाढ्यामिष्टसंपूर्णां कल्पवृक्षादिभिर्युताम् । शातकुम्भमयैर्गेहैस्सर्वरत्नैस्सकर्बुराम्
城中珠宝丰盈,珍馐充满,又以如意树等瑞木庄严;其宅第皆由纯金铸成,并以一切宝石杂彩辉映。
Verse 38
वज्रवैडूर्यसोपानां स्वर्णदीतोयसंयुताम् । गीतवाद्यादिसंपूर्णां सर्वदुर्गसमाकुलाम्
其阶梯以金刚与吠琉璃宝所成,并与金色水流相连;其中歌声与乐器之音充盈,又为种种城堡与险要之路所环护。
Verse 39
कोकिलालापबहुलां सिद्धगंधर्वसेविताम् । रूपाढ्यैः सुजनैः पूर्णां प्रयांतीमिव खे पुरीम्
其间布满杜鹃啼鸣,诸悉地者与乾闼婆侍从环绕,俊美贤善之众充盈其中——宛如一座在虚空中行进的天城。
Verse 40
ततः स्थित्वाऽच्युताः सर्वे सर्वलोकोर्ध्वतो भृशम् । द्विजोपि पितरौ गत्वा समाराध्य प्रयत्नतः
于是,一切归依阿周多者安住不动,升至诸世界之上,远远超越。那婆罗门亦往其祖灵之前,以恳切精勤之心虔敬供奉。
Verse 41
अचिरेणैव कालेन सकुटुंबो हरिं ययौ । पंचाख्यानमिदं पुण्यं मया ते समुदाहृतम्
不久之后,他与全家同得归至哈利。此五段圣净之叙事,已由我为你宣说。
Verse 42
यः पठेच्छृणुयाद्वापि तस्य नास्तीह दुर्गतिः । ब्रह्महत्यादिभिः पापैर्न लिप्येत कदाचन
凡诵读此文者——乃至仅仅听闻者——于此世不遭厄运;亦永不为杀婆罗门等诸罪所染。
Verse 43
गवां कोटिप्रदानेन यत्फलं लभते नरः । तत्फलं समवाप्नोति पंचाख्यानावगाहनात्
人以布施千万头牛所得之功德,亦能因沉浸于“五部叙事”而圆满获得同等果报。
Verse 44
स्नानेन पुष्करे नित्यं भागीरथ्यां च सर्वदा । यत्फलं तदवाप्नोति सकृच्छ्रवणगोचरात्
每日于补湿迦罗(Puṣkara)沐浴、又常于婆伽罗提河(Bhāgīrathī,恒河)沐浴所得之功德,只要听闻此圣传一次,亦能获得同等果报。
Verse 45
दुःस्वप्नं नाशयेत्क्षिप्रं तथारोग्यं प्रयच्छति । लक्ष्म्यारोग्यकरं चैव तस्माच्छ्रोतव्यमेव हि
它能迅速消除恶梦,并赐予安康;亦能招来吉祥与健康,因此确应当聆听。
Verse 56
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्यानंनाम षट्पंचाशत्तमोऽध्यायः
至此,《圣莲华往世书》(Śrī Padma Purāṇa)第一部《创生品》(Sṛṣṭikhaṇḍa)中名为《五部叙事》(Pañcākhyāna)之第五十六章圆满结束。