
Slaying of Andhaka; Hymn to the Sun; Glory of Brahmins; Gayatri Nyasa and Pranayama
应毗湿摩之请,普罗萨提亚以安陀迦之事,宣说婆伐/怖罗婆(Bhava/Bhairava)之伟大。阿修罗安陀迦为欲与暴所驱,威胁帕尔瓦蒂与诸天;因陀罗奔赴凯拉萨求庇护。湿婆赐予无畏,并显现可怖的宇宙大身,以对抗强敌。 战斗间黑暗与幻力弥漫,直至太阳神苏利耶以人形出现,驱散昏冥,受众神广泛赞颂。安陀迦之血滴落,化生无数“安陀迦”;湿婆创造母神众(Mātṛkā)饮其血,遂将安陀迦贯刺;其后安陀迦转向虔敬,得以提升,获赐伽那之位与名号。 随后转入法义教诲:婆罗门之荣耀,供养、布施与仪轨之必要,以及堪为婆罗门与上师者之标准。并详述伽雅特丽(Gāyatrī):其本尊萨维特利(Savitṛ)、诸音节之神格、调息(prāṇāyāma)与安置法(nyāsa),末以功德偈说明诵持、教授与听闻之果报。
Verse 1
श्री भीष्म उवाच । नरसिंहस्य माहात्म्यं विस्तरेण त्वयेरितं । तथा भवस्य माहात्म्यं भैरवस्याभिधीयताम्
圣者毗湿摩曰:你已详述那罗辛哈之大威德;同样地,请宣说婆婆(Bhava)——即怖畏者拜罗婆(Bhairava)之大功德。
Verse 2
पुलस्त्य उवाच । तस्यापि देवदेवस्य शृणु त्वं कर्म चोत्तमं । आसीद्दैत्योंधको नाम भिन्नांजनचयोपमः
普罗诃斯底耶曰:你且听那位天中天之殊胜行迹。曾有一阿修罗名安陀迦,黑如捣碎的安阇那(眼药)堆。
Verse 3
तपसा महता युक्तो ह्यवध्यस्त्रिदिवौकसाम् । स कदाचिन्महादेवं पार्वत्या सहितं विभुं
他以大苦行成就,纵使三天之众亦难以战胜。某时,他趋近威德无量的摩诃提婆,彼时帕尔瓦蒂随侍在侧。
Verse 4
क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे । एतां देवीं हराम्यद्य वियोगे मृत्युमेष्यति
见女神正嬉戏玩乐,他便起意欲掳走她:“今日我必夺取这位圣女;若与她分离,他将走向死亡。”
Verse 5
ततः स्थिरा भवित्री मे भार्यैषा लोकसुंदरी । बिबौष्ठं चारुवदनं चारुकांततरं मुखं
于是他心想:“这世间绝色必当成为我坚贞的妻。”他凝望她的朱唇与秀丽的容颜,那面容更添摄人之美。
Verse 6
यद्येषा न भवेद्भार्या जीविते किं प्रयोजनम् । एतां मतिमथास्थाय मंत्रिभिः सह मंत्र्य च
“若她不为我妻,生又何益?”他既立此决意,便与群臣谋议商量。
Verse 7
चक्रे योगं ससैन्यस्य सेनापतिमभाषत । आनयस्व रथं मह्यं जैत्रं देवनिपातनम्
他布置军阵既定,便对统帅说道:“为我牵来战车——那得胜之车,能使诸神倾覆。”
Verse 8
जयिष्ये त्रिदशान्सर्वान्विष्णुरुद्रपुरोगमान् । हरिष्ये पर्वतसुतां तया मेऽपहृतं मनः
“我将战胜一切天神,纵使由毗湿奴与鲁陀罗率领者亦然。我必掳走山岳之女——因她已夺去我的心神。”
Verse 9
मंत्रिणा तस्य चाख्यातः कनकस्य वधस्सुरैः । परभार्यानुरक्तस्य कृतो देवैः सवासवैः
随后,他的大臣禀告说:金迦那迦因迷恋他人之妻,故被诸天与帝释天一同诛杀。
Verse 10
ततः कोपपरीतात्मा हन्मि देवान्सशंकरान् । तं हत्वा दानवं शक्रो भयादंधासुरस्य च
于是他怒火攻心,宣言:“我将连同商羯罗一起诛灭诸天。”然而那魔被杀之后,帝释天(因陀罗)也因安陀迦阿修罗而心生恐惧。
Verse 11
जगाम शरणान्वेषी कैलासं शंकरालयं । दृष्ट्वा प्रणम्य देवेशं चंद्रार्द्धकृतशेखरं
他为求庇护,前往凯拉萨——商羯罗之居所。见到诸天之主,顶戴新月为冠,便恭敬顶礼。
Verse 12
भीतो विज्ञापयामास धृतसाहस्रलोचनः । अभयं देहि मे देव दानवादंधकादहं
千眼者(因陀罗)惊惧不已,强自振作而启奏:“大自在天啊,赐我无畏;我惧怕魔王安陀迦。”
Verse 13
बिभेमि तस्य पुत्रोद्य मया युधि निपातितः । तद्यावन्न स जानाति हतं पुत्रं महासुरः
我心生畏惧:今日我在战场上击倒了他的儿子——只要那大阿修罗尚未知其子已被诛杀。
Verse 14
तावत्तत्रस्थ एवाशु हन्यतां मद्भयावहः । स्त्रीलौल्याद्दानवः क्रूरः परभार्यापहारकः
趁他仍立于彼处,速速诛灭这令我畏惧之徒——那残暴的达那婆,因贪恋女色而掳夺他人之妻。
Verse 15
सर्वथा घातनीयस्ते भवता सुरसत्तम । शक्रस्यैवं वचः श्रुत्वा शरण्यः शंकरस्तदा
“无论如何,至尊天神啊,此人必当由你诛杀无疑。”闻此释迦之言,众生归依的商羯罗随即应允而行。
Verse 16
ददावभयमेवासौ मा भैरिति शतक्रतोः । दत्ताभयोथ कैलासादाजगाम कुशस्थलीम्
他赐予沙多克罗图(因陀罗)无畏,曰:“莫惧。”既已施与安慰,便自凯拉萨而来,抵达库沙斯塔利。
Verse 17
वृतो भूतगणैरीशो वधार्थमंधकस्य तु । कृत्वा रूपं महाकायं विश्वरूपं सुभैरवं
主宰为众鬼神之众所环绕,欲诛安陀迦,遂现巨大之身、遍一切的宇宙之相,极其可怖,如同怖畏罗婆。
Verse 18
सर्पैर्ज्वलद्भिर्धावद्भिर्भीमं भीमभुजंगवत् । जटासटाभिराकाशं फणिरत्नशिखार्चिषा
烈焰之蛇奔走盘旋,怖人如凶猛巨蟒;其纠结的发髻充塞虚空,因蛇冠宝珠之焰光而辉照。
Verse 19
दहन्नतीवतेजोभिः कालाग्निरिव संक्षये । मुखैर्दंष्ट्रांकुरांकैश्च द्वितीयेन्दुकलोज्ज्वलैः
他以不可遏止的光焰炽然显现——如同劫末时劫火(时之火)——诸面生出獠牙之芽,光辉灿然,宛若第二道月牙。
Verse 20
पातालोदररूपाभैर्भैरवारावनादिभिः । भुजैरनेकसाहस्रैर्बहुशस्त्रकृतग्रहः
其形貌宛如地下界波多罗(Pātāla)的深渊——可怖、咆哮等相——他具无数千臂,因众多兵器而使其擒握尤为骇人。
Verse 21
बह्वाभरणभूषाढ्यै रणे घोरनिनादिभिः । सिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकं
他们以众多饰物华丽庄严;临阵发出骇人的吼声——以狮皮为衣,以虎皮为上披。
Verse 22
गजाजिनकृताटोपं पतद्भृंगरवाकुलं । ईदृग्रूपं विधायेशो दनुदैत्यभयावहं
主宰化现威猛之相,披覆如象皮之甲,回响着飞蜂嗡鸣;他塑成如此形体——令丹奴所生的代提耶众心生大惧。
Verse 23
अवातरन्महीं भीमो दनूनां क्षयकारकः । अंधासुरोपि दनुजः पुत्रं श्रुत्वा हतं युधि
那威猛者降临大地,成为达那婆(Dānava)诸军的毁灭者。连达那婆的安达阿修罗(Andhāsura),听闻其子已在战场被杀,也为悲痛所击。
Verse 24
क्रोधेन तमसाविष्टो रणतूर्याण्यचोदयत् । संहत्यावहितः प्राप्तो यत्र ते त्रिदशाः स्थिताः
他因嗔怒而为黑暗所覆,命人擂响战鼓;随即集结军旅,心志专一,抵达那三十位天神驻守之处。
Verse 25
महत्या सेनया सार्द्धं रथवारणयुक्तया । ते देवा दानवान्वीक्ष्य महाहवकृतादरान्
他们率领浩大军阵,配备战车与战象;诸天见到达那婆,便对一场大决战生起昂然战意。
Verse 26
व्यपयाततनुत्राणाः शंभुं शरणमन्वयुः । मा भैरिति च तान्देवो देवानुक्त्वा त्रिलोचनः
他们失却身之护具,便归依于商婆(湿婆)。于是三目大自在对诸天说道:“莫要恐惧。”
Verse 27
गृहीत्वा शूलमातिष्ठद्दंष्ट्रारवधरो रुषा । अंधकेनाथ रुष्टेन शतकोटिशरैर्गणाः
他执起三叉戟,挟着獠牙轰鸣之威,怒然挺立。继而安陀迦亦起嗔怒,诸伽那便遭数百俱胝之箭雨所袭。
Verse 28
निहताश्चापि देवानां बहूनामेकताकृतां । सस्फुलिंगार्चिषो वह्नेर्मुंचमानः पिनाकधृक्
他又击倒众多天神,仿佛将其聚作一团;执持毗那迦之湿婆,喷薄火星与炽焰而行。
Verse 29
शरैः समावृतं चक्रे अंधकं रथगं ततः । दनुनाथो रथस्थोथ शिथिलः शिथिलायुधः
随后,他以箭雨遮覆车上的安陀迦(Andhaka)。于是那檀那婆(Dānava)之主虽立于战车,亦渐趋疲软:气力衰竭,兵器在手中松脱。
Verse 30
निमंत्र्य दानवान्सर्वान्स योद्धुमुपचक्रमे । बहुधा तद्बलं भग्नं विविधायुधयोधिभिः
他召集一切檀那婆(Dānava),遂开始交战;然而那支军势屡屡被持种种兵器的勇士击碎。
Verse 31
युधि वीरैर्हतं देवैः स्थाणुना सख्यमाश्रितैः । दानवश्चांधकः सैन्यं भिन्नं दृष्ट्वा कृतं सुरैः
战场之中,诸天神英勇无畏,且与斯塔努(Sthāṇu,湿婆)结为友盟,遂将他们诛灭。魔众安陀迦见其军旅被天众击碎,便(随之而动)。
Verse 32
आत्मानं च महेशेन निरुद्धं बाणकोटिभिः । विह्वलीभूतदेहोसौ धैर्यमालंब्य केवलम्
他又见自身被大天(Mahādeva)以千万支箭所制伏。身躯困顿不安之际,他唯有执持勇毅与坚忍。
Verse 33
पिनाकं चैव रुद्रस्य गृह्य रुद्रमताडयत् । पिनाकस्याभिघातेन रुद्रो भूमिमथागमत्
他夺取鲁陀罗(Rudra)之弓——毗那迦(Pināka),并以之击打鲁陀罗;因毗那迦之击,鲁陀罗遂坠落于地。
Verse 34
भूमौ निपातिते देवे चलितं भुवनत्रयं । तत्यजुः सागरा वेलां पर्वताः शिखराणि च
当神祇坠落大地之时,三界震动;大海离弃海岸,群山亦仿佛舍其峰巅。
Verse 35
नक्षत्राणि वियोगीनि जग्मुर्मुक्तान्यनेकशः । पतिते भुवि देवेशे अंधको गदया पुनः
无数如星之飞矢,成阵放出,四散而去。及至天神之主坠地,安陀迦又以钉锤再度击打。
Verse 36
जघान रुषितो नागं हत्वा तं पातयद्भुवि । शिवं त्यक्त्वा नागराजः प्रपलाय्यान्यतो गतः
他怒而击杀大蛇,既杀之,便掷其尸于地。蛇王舍离湿婆,仓皇遁走,奔向他处。
Verse 37
मुहूर्त्ताच्चेतनां लब्ध्वा उत्थितः परमेश्वरः । गृहीत्वा परशुं दिव्यं दानवं नैव पश्यति
须臾之间,至上主宰复得清明而起;执持神圣之斧,却已不见那达那婆。
Verse 38
कृत्वा तु तामसीं मायां मायाशतविशारदः । तया विमोहिते देवे क्व नु वै दानवो गतः
然而他施作幽暗迷惑之幻术——精通百般魔艺者——当神祇为其所惑之际,那达那婆究竟遁往何处?
Verse 39
शंभोर्भयमथो प्राप्य किं नु पापः करिष्यति । तमसा छादिता यावद्देवा व्याकुलतां गताः
一旦陷于对商婆(湿婆)的恐惧,恶者还有什么不敢为?只要黑暗遮蔽未散,诸天便陷入惶乱与忧苦。
Verse 40
संभ्रांतमानसानीकास्तदोचुः कार्यगौरवात् । एतस्मिन्नंतरे सूर्यस्तेजोरूपो व्यवस्थितः
于是那些众军因重任压心而惶惶不安,便开口陈说。其间,太阳以光辉之体安住,赫然显现。
Verse 41
उत्तस्थौ नररूपेण कुर्वन्वितिमिरा दिशः । नष्टे तमसि हृष्टाङ्गे खद्योते प्रकटे स्थिते
他以人形起身,使四方无复幽暗。黑暗既灭,萤火之光显现之时,他全身因欢喜而战栗。
Verse 42
देवा मुदमवापुस्ते स्पष्टाननविलोचनाः । उद्दीप्तास्तु सुराः सर्वे गणाः स्कंदपुरोगमाः
诸天皆得欢喜,面容与眼目清明光亮。由斯坎达率领的一切天众,悉皆炽然辉耀。
Verse 43
स्तुवंति विविधैस्तोत्रैः नररूपं दिवाकरम् । अनौपम्यं जगद्व्यापि ब्रह्मविष्णुशिवात्परम्
他们以种种赞颂之偈礼赞化作人形的日神:无与伦比、遍满世界、甚至超越梵天、毗湿奴与湿婆者。
Verse 44
स्निग्धविद्रुमसच्छायं सिंदूरारुणसप्रभम् । प्रभासंतं तदा दृष्ट्वा पंचांगालिंगितावनिः
当时见到普拉婆娑——如珊瑚般温润光泽,放射朱砂般赤红辉煌——大地仿佛以自身五肢将其拥抱。
Verse 45
पुनः प्रणामप्रवणं प्रणिधानपुरःसरम् । आलोक्य स्निग्धया दृष्ट्या देवदेवं त्रिलोचनः
随后,见到诸天之主——再次倾心礼拜,以恭敬专注为先——三目者特里洛迦那以温柔慈爱的目光注视着他。
Verse 46
उवाच स्निग्धगंभीर वाचा देवं शनैर्हरः । पूरयन्निव तेजोभिर्भगवान्भुवनत्रयम्
哈罗(湿婆)以温柔而深沉的声音缓缓对主说道,仿佛那位圣者正以光辉充满三界。
Verse 47
दैत्यमायाभिपन्नानां दर्शनाकुलचेतसाम् । प्राणिनामिदमेवैकमविसंवादि दैवतम्
对于陷入阿修罗幻力(摩耶)之中、因所见而心神迷乱的众生而言,唯有此者是唯一不欺的神圣归依。
Verse 48
अयमेव च संसारसागरात्सकलादपि । सत्त्वानुत्तारयन्देवः कर्णधाराय ते प्रभुः
正是这位主——你们的至尊——乃神圣的舵手,从四方救度一切众生,令其渡越轮回之海(生死海)。
Verse 49
यजंतो जंतवो भक्त्या यं देवं विविधाः सदा । निःश्रेयसाय कल्पंते तं नतो भास्करं विभुम्
众生恒以虔敬、以种种方式礼拜那引导他们趋向至上善的神祇;我顶礼那威德无量的婆迦罗(太阳)。
Verse 50
यस्तूदयाद्रिशिखरे मकुटायमानलीलागभस्तिभिरलं कुसुमप्रकाशैः । व्याप्य स्वदीधितिगणैः प्रदिशो दिशश्च देदीप्यते स सविता विभवाय लोके
彼于日出之时立于东方山巅,宛如加冕;其嬉游之光芒灿然绽放,如花之辉;又以无数自光遍布,照耀诸隅与十方:此日神萨维特利为世间的昌盛而辉耀。
Verse 51
ब्रह्मेंद्ररुद्रमरुदच्युतवह्निपाथो नाथ प्रयोगनिपुणैश्च ऋषींद्रसंघैः । श्रेयोर्थिभिः प्रतिदिनं दिवसांगरागैर्दिव्यांगरागपरिलिप्त समस्तदैहैः
主啊,梵天、因陀罗、楼陀罗、风神众(马鲁特)、阿周陀(毗湿奴)、火神阿耆尼与水之主,连同善于圣仪的诸大圣仙众,日日为求至善者所礼敬;其全身皆涂抹天香妙膏与日常芬芳的檀香膏。
Verse 52
पूज्यं वपुस्तव सदा प्रलये हि वेदैर्गीर्भिर्विचित्रपदमंडलमंडिताभिः । ये त्वां स्तुवंति परसद्मनि सद्महीना नित्यं प्रसारितकरा भुवि ते भवंति
你的圣形恒为应供;即使在宇宙坏灭之时,诸吠陀亦以辞句与韵律奇妙庄严的赞歌称颂你。凡在至上圣境赞叹你者,虽无定居之所,于世间亦常成双手伸展、恭敬祈奉之人。
Verse 53
ये दद्रुकुष्ठपिटिकादिभिरर्दितांगाः शीर्णत्वचः कुनखिनश्च्युतकेशनाशाः । देवेश तेपि तवपादनता भवंति सद्यो द्विरष्टशरदाकृतयो मनुष्याः
凡身受癣疮、麻风、疖肿等诸病所逼,皮肤剥蚀、指甲败坏、发落脱尽者,天神之主啊:即便是他们,一旦俯伏于你足下,立刻化为容貌青春之人,宛如仅十六岁。
Verse 54
सामेति सामगगणा हि मखार्थकं त्वामध्वर्यवस्त्वृगिति बह्वृचमुख्यपूगाः । त्वामेवमार्यमिति कार्यविदोधिगंतुं नागाश्च वेति पितरोप्यथ सर्वगंधम्
诵唱《娑摩》者称你为“娑摩”,因为你正是祭祀的真实旨归;《夜柔》之阿德瓦律与《梨俱》之诵者,以多诵派为首,各以其法宣扬你。明智者洞悉行持之真义,唯认你为尊贵圣者;那伽亦然,乃至祖灵亦来归依你——遍满一切的芬芳,万有之精髓。
Verse 55
मायेति चोपनिषदर्कषडेव देवा मर्त्यास्तथा वयमिवेह उपासतेऽमी । गंधर्वकिन्नरगणाः सहचारणैस्तु रूपं तथा च भगवन्प्रतिपद्यसे त्वम्
即便诸天——《奥义书》所称颂的六位光辉者——也在此以“摩耶”之名敬拜你;凡人亦如是,我们亦如是。乾闼婆与紧那罗诸众,连同恰罗那,也同样礼敬你;因此,噢吉祥的世尊,你便随其所应而示现相应之形。
Verse 56
येनार्चयंति सततं भवतोर्च्यमर्चिस्तेर्चिष्प्रतापितदिगंबरवित्तहीनाः । क्षुत्क्षामकंठजठराघटखर्परेण भिक्षामटंति परवेश्मसुतेर्थहीनाः
那些以区区火焰恒常礼拜可敬之主者,终被其热所灼,沦为赤裸贫乏。饥饿使咽喉与腹中枯槁,只携一罐一钵,流离于他人门前乞食,失却真实的圣所与归依。
Verse 57
उत्फुल्लकोकनदकोशविशालनेत्रमीषद्विलासलुलिताञ्चितपिंगतारम् । कामं प्रशस्ततरसुंदरहाररम्यमुत्तुंगपीवरपयोधरभारखिन्नं
她的双眸广大,如盛放的红莲花蕾;微带金褐的发丝,因轻柔的戏谑之姿而更显婉丽。颈间佩以极其华美的项链,她似因高耸丰盈的乳房之重而略显倦态。
Verse 58
रंभोपमोरु पृथुपीननितंबबिंबानद्धक्वणन्मणिरणद्रशनाकलापं । बृंदं ललाटतटकोटिपटांतलंबि हेमांचलांचितमुखं कुलपालिकानाम्
一群护族之女现身:其大腿如天女蓝婆般柔美,臀胯宽阔丰圆如球。她们系着宝珠串成的腰带,行步间清音叮咚;衣角自额际边缘垂下;面容又以金色面纱点缀生辉。
Verse 59
कांतं गृहेषु कलगद्गदभाषितानां झंकारनूपुररवेणविरावितानाम् । तेषां कृशानुकरमिन्दुसमानकांतं यैरर्चितोसि भगवन्भवमोचनस्त्वं
噢主啊,解脱轮回之主——那些家中回响着甜美而略带颤音的言语、并有脚铃(nūpura)叮当之乐的人礼敬你;对他们,你显现如明月般清辉,又具如火般炽盛的光耀。
Verse 60
ब्रह्मा त्वमेव हरिरस्यनिलोऽनलोसि रुद्रोंऽतकोसि वरुणोऽस्यमराधिपोसि । सोमोसि वायुरसि भूरसि चेश्वरोसि यज्ञोसि वित्तपतिरस्यपराजितोसि
唯你是梵天(Brahmā);你是诃利(Hari,毗湿奴)。你是风与火;你是鲁陀罗(Rudra)与安多迦(Antaka,死神)。你是伐楼那(Varuṇa)与诸天之主。你是苏摩(Soma);你是伐由(Vāyu);你是大地,亦是至上自在主。你是祭祀(Yajña);你是俱毗罗(Kubera),财富之主;你是不败者。
Verse 61
ते सप्तसप्तिसुरवाहरणेन मुक्ता भूमावथेति तरसोरुतरंतरीताः । व्योमैतदंतरहितं परितो हि गत्वा गच्छंति न श्रमदं हिमनागपीमे
借诸天之乘具、以七乘七之众得以解脱者,迅疾降至大地,穿越此域彼方。继而周行无碍的虚空,四方巡游之后,他们继续前行——毫无疲惫——进入那可怖的喜马拉雅群山。
Verse 62
ध्यानैकयोगनिरताश्च समाधिभावात्ध्यात्वा पदं तव तुरीयमनंतमूर्ते । मुक्तामयास्तनुभृतो न भियाभियुक्तास्तद्ब्रह्मशाश्वतमचिंत्यमनाद्यनंतं
他们唯住于禅观之瑜伽,并由三摩地之境,观想你那第四(超越)住处,噢无量形相者。脱离一切苦恼后,有身之众不再为恐惧所驱使——因为他们已证得那永恒、不可思议、无始无终的梵(Brahman)。
Verse 63
जन्मादिरोगरहितं परमं पुराणमीशं जरामरणशोकभयातिरिक्तम् । स्थूलानुभावनगणागणितं विशुद्धं वेदांतवादिभिरलं परिमन्यते यत्
那至上的《普罗那》(Purāṇa)被尊为主自身——远离出生等诸病,超越老、死、忧、惧;清净而不可量度,即使其显明教义之众多亦不可计数——因此为阐释吠檀多(Vedānta)者所极其推崇。
Verse 64
त्वामग्निपुंजवपुषं तपसां निवासं याता दिवं सुचिरकालमुपास्यभक्ताः । भानो सुरासुरसमूहशिरोनिघृष्ट पादारविंदयुगलामलचारुमूर्त्ते
噢太阳神婆奴(Bhānu),汝身如火焰之聚,乃苦行之所依;久以虔敬(bhakti)奉事汝者,得升天界。噢清净庄严者,汝双莲足为无数天神与阿修罗之首所顶礼摩触!
Verse 65
भूतेशभूतवरदा सकृदव्ययात्मन्व्योमाट्टहाससवितर्भुवनैकदीप । ऋक्साममंत्रयजुषामधिवास नाम सृष्टिस्थितिप्रलयकारणलोकपाल
噢众生之主,亦赐福于诸灵者;噢不坏之真我——穹苍之日,其笑声在高空回荡,为诸世界唯一之灯;为《梨俱》《娑摩》及诸咒与《夜柔》之所依——噢护世者,乃生、住、灭之因。
Verse 66
दीनस्य देव कृपणस्य भवेभवे मे मग्नस्य चारुदविचार मनोरथानि । शश्वद्यतीश्वर शशी करकंकघोरोत्पातो जरामरणशोकरुगांतरस्य
噢主宰,我在一生又一生中贫苦无依,沉没于轮回(saṃsāra)之海;然而我心中仍生起清妙美善的思虑与愿望。噢永恒的苦行主宰,愿汝如明月,吉祥地驱散此境之可怖凶兆:衰老、死亡、忧苦与诸多内在病患。
Verse 67
यः प्रातः सायमिदं मध्याह्ने वा पठेच्च दीप्तांशोः । सालोक्यं याति रवेः प्राप्नोति धर्मार्थकामांश्च
凡于清晨、傍晚或正午诵此者,得往生于光辉日神罗毗(Ravi)之界,并亦获得达摩(dharma)、义利(artha)与欲乐(kāma)。
Verse 68
नित्यं तस्माच्च सूर्याच्च मनसोभिहितं च यत् । नमस्ते देवदेवेश भक्तानामभयंकर
凡心恒常称念之名,亦为彼日神所赞叹者——向汝顶礼,噢诸神之神,赐予信众无畏者。
Verse 69
सुब्रह्मण्य नमस्ते तु सर्वदेवनमस्कृत । तिग्मांशो वै नमस्तुभ्यं जगतश्चक्षुषे नमः
向你顶礼,苏婆罗摩尼亚,为诸天所敬。噢提格玛安舒,光耀的太阳,诚心礼敬于你——礼敬你这世间之眼。
Verse 70
प्रभाकर नमस्तेस्तु भानो जय जगत्पते । अनेन दनुमुख्येन पीडितोहं जगत्पते
噢普拉婆迦罗,向你顶礼;噢婆奴,愿你得胜,世间之主。被这但奴族中最强者所逼迫,我受其苦,世间之主。
Verse 71
किं करोमि कथं चैनं घातयामि दिवाकर । सूर्य उवाच । जय शूलेन पापिष्ठं मायाशतविशारदम्
“我当如何行事,又怎样将他击倒,噢日神?”苏利耶说道:“以三叉戟征服那极恶之徒——精通百般幻诈者。”
Verse 72
जयं प्राप्नुहि देवेश हत्वा शूलेन चांधकम् । गृह्य शूलं ततो दूरमाक्षिप्य हर तेजसा
噢诸神之主,以三叉戟诛杀安陀迦而得胜。随后执起三叉戟,将其远远掷出——噢哈罗——以你光辉的威力。
Verse 73
ततोन्धकस्त्रिशूलेनाताडयत्पापकर्मकृत् । तस्मिन्युद्धे तथा रुद्रो ह्यन्धकेनाभिपीडितः
于是安陀迦——作恶之徒——被三叉戟击中。在那场战斗中,鲁陀罗也被安陀迦逼迫,深受其扰。
Verse 74
मुमोच बाणमुत्युग्रं नाम्ना पाशुपतं हि यत् । पिनाकमानम्य दोर्भ्यां पिनाकी शंकरः स्वयम्
圣者商羯罗亲自——持品那迦弓的品那迦持者——以双臂挽弓,放出那支极其凶猛、名为“帕舒帕塔”的神箭。
Verse 75
रुद्रबाणविनिर्भेदाद्रुधिरादन्धकस्य तु । अंधकाश्च समुत्पन्नाश्शतशोथ सहस्रशः
因鲁陀罗之箭穿刺而流出的安陀迦之血中,安陀迦们又再生出来,先成百,继而成千。
Verse 76
तेषां विदार्यमाणानां रुधिरादपरे पुनः । बभूवुरंधका घोरा यैर्व्याप्तमखिलं जगत्
当他们被撕裂之时,又从其血中生出更多可怖的安陀迦,遍满了整个世界。
Verse 77
तं तु मायाविनं दृष्ट्वा देवदेवस्तदांधकम् । पानार्थमंधकस्यास्रं ससृजे मातृकास्तदा
然而,诸神之主见到那施幻术的安陀迦时,为使安陀迦之血得以被饮尽,便在那时化生出诸母神(摩特哩迦)。
Verse 78
माहेश्वरीं तथा ब्राह्मीं शौरीं वा बाडवीं तथा । सौपर्णीमथ वायव्यां शंखिनीं तैत्तिरीं तथा
又有摩醯湿伐梨(Māheśvarī)、婆罗摩梨(Brāhmī)、绍梨(Śaurī)与巴荼毗(Bāḍavī);同样还有苏帕尔尼(Sauparṇī)、婆耶毗耶(Vāyavyā)、商佉尼(Śaṅkhinī)与泰提梨(Taittirī)。
Verse 79
सौरीं सौम्यां शिवदूतीं चामुंडामथ वारुणीं । वाराहीं नारसिंहीं च वैष्णवीं च विभावरीं
他们祈请诸圣母:娑梨(Saurī)、娑弥耶(Saumyā)、湿婆使者(Śivadūtī)与遮母荼(Cāmuṇḍā);继而祈请伐楼尼(Vāruṇī);又祈请婆罗诃依(Vārāhī)与那罗辛诃依(Nārasiṃhī);并祈请毗湿奴依(Vaiṣṇavī)与毗婆婆梨(Vibhāvarī)。
Verse 80
शतानंदां भगानंदां पिच्छिलां भगमालिनीं । बालामतिबलां रक्तां सुरभीं मुखमंडिताम्
他们赞诵道:沙多难陀(Śatānandā)、薄伽难陀(Bhagānandā)、毗遮罗(Picchilā)与薄伽鬘梨尼(Bhagamālinī);又赞诵婆罗(Bālā)、阿提婆罗(Atibalā)、罗多(Raktā)、苏罗毗(Surabhī)与穆迦曼荼多(Mukhamaṇḍitā)。
Verse 81
मातृनंदां सुनंदां च बिडानीं शकुनीं तथा । रेवतीं च महापुण्यां तथैव शिखिपट्टिकां
又称念:母喜(Mātṛnandā)、善喜(Sunandā),以及毗陀尼(Biḍānī)与舍拘尼(Śakunī);还有功德广大之勒伐底(Revatī),并同样称念尸弃钵底迦(Śikhipaṭṭikā)。
Verse 82
शूलेन च ततो दैत्यं बिभेद त्रिपुरांतकः । निर्गतं रुधिरं तस्मात्पपुस्ता मातरस्तदा
于是,摧灭三城者(Tripurāntaka)以三叉戟刺穿那魔。其血奔流而出,当下诸母神便饮之。
Verse 83
नीरक्तो हि तदा दैत्यश्शुष्कतां प्राप भूपते । शूले प्रोतस्तदा दैत्यो दिव्यवर्षसहस्रकम्
于是,王啊,那阿修罗因血尽而枯槁至极。被钉在三叉戟上,他竟如此停留了一千个天界之年。
Verse 84
महाबलेन रुद्रेण विधृतोपि मृतो नहि । स्तुतस्तेन तदा शंभुर्भक्त्या दैत्येन सुव्रत
虽被大力的鲁陀罗擒住,他却未死。于是那阿修罗以虔敬之心赞颂商布,噢,持善戒者。
Verse 85
नमोस्तु शंभो भवनाशहेतो नमोस्तु ते देव वरप्रसीद । त्वं भू जलाग्नीरनभोर्कसोमयज्वाष्टमूर्तिर्भवभावनोलम्
礼敬于你,商布,世间归灭之因;礼敬于你,天神啊,愿你垂恩赐福。你即大地、诸水、火、风、日、月与祭主;你是八相之主,令众生出生并加以护持。
Verse 86
त्वां वै बाणो बहुवाद्येन तोष्य प्राप्तश्चैश्यं स्वे पुरे तत्स्वरक्ष्यम् । रक्षोधीशो बाहुभिस्तोल्यशैलं युष्मत्क्रांतक्लिष्टरूपो ह्यनौषीत्
婆那以众多乐器取悦于你,前来并在自城获得王权,也得其疆域之护持。然而罗刹之主以双臂举山而忍受,其形体因被你击败而痛苦不堪。
Verse 87
प्राप्तोप्यैश्यं सर्वरक्षोगणानां पुत्रं चापि प्रोर्जितं शक्रबंधम् । भवभयहर हर परम उदार मम सुखकरण निखिल सुरसार
纵已统御一切罗刹众,又生得一子,名闻于世,且为因陀罗之亲族——噢哈罗,除去轮回恐惧者,至为慷慨者——愿你赐我安乐,噢诸神之精髓。
Verse 88
जितमरुदभिमतवितरणपार तव पदकमलमिहारणसार । तवेश पादपंकजं करोति यो नरो हृदि सदेशतस्य वांछितं ददासि भक्तिभावितः
噢主宰,你的莲华足在此乃渡越之精髓,超越连诸天也所希求的赐予。凡人若将你的莲足安置于心中,你便因其虔爱而不迟延地赐与所愿之福。
Verse 89
मुनीश्वराः पुरा हरं भवंतमेवमादरात्प्रपूज्य लिंगरूपिणं समापिता मनोरथान् । भवोद्भवैकरूपिणं प्रपंचपंचकाकृतिं विचिंत्यवृक्षकोटरस्थ एष जीवजीवनं
在远古之时,诸大牟尼以至诚恭敬礼拜哈罗(湿婆)之林伽形相,遂令所愿皆得圆满。复观想彼为生起与成有之唯一本体,亦为世间五重显现之具足形态,乃悟曰:“彼住于存在之树的空穴之中,实为一切众生之生命。”
Verse 90
भवेद्भवाङ्घ्रिचिंतनाप्तसर्वकामईश्वर त्वदीय किंकरान्विते पदे पदे समागतः । मूढोहं नाभिजानामि त्वां स्तोतुं भक्तवत्सल
主啊,观想汝足则一切所愿皆可得。我步步来归于汝,亦随汝之侍从而至。然而我实愚昧,不知如何赞颂汝,噢,怜爱信众者。
Verse 91
सदीश्वरेण मनसाप्यनुकंप्यो रणं गतः । इति स्तुतो महेशस्तु भक्त्या दैत्येन सादरं
虽为能令主在心中亦起怜悯之人,他仍赴战场。于是那位大自在天(湿婆)被此阿修罗以恭敬之心、以信爱而赞颂。
Verse 92
गणेशतां ददौ तस्मै नाम भृंगीरिटीति च । एष ते महिमा भूप हरस्य भवहारिणः
彼赐予其伽内沙之位,又赐名曰“婆陵吉利提”(Bhṛṅgīriṭi)。大王啊,此即哈罗之威德——能除世缚者。
Verse 93
कथितो विघ्नविघ्नाख्यस्तत्पराणां सुखावहः । भीष्म उवाच । मनुष्यस्यापि देवत्वं सुखं राज्यं धनं यशः
如是已述那位名为“除障者”,能为专心归依者带来安乐。毗湿摩曰:即便为人,亦可得神圣之分、安乐、王权、财富与名声。
Verse 94
जयं भोग्यं तथारोग्यमायुर्विद्यां श्रियं सुतं । बंधुवर्ग शिवं सर्वं ब्रूहि मे विप्रसत्तम
请告诉我,最尊贵的婆罗门啊:关于胜利、享乐与健康;关于长寿、学识、福泽与得子;以及亲族与一切吉祥善利——愿你为我详加开示。
Verse 95
पुलस्त्य उवाच । एभिर्गुणैर्युतः श्रीमान्सदैवब्राह्मणो भुवि । त्रैलोक्ये तु सदा मेध्यो विप्रदेवो युगेयुगे
普拉斯提亚说:具足这些德行者,常在世间以婆罗门之身而光辉;于三界之中恒常清净、堪受供养,世世代代皆为圣贤中的神明。
Verse 96
पूजयित्वा द्विजान्देवाः स्वर्गं भुंजंति चाक्षयं । धरामवंति राजानो लोकावित्तं सुखं शिवं
礼敬二次出生者(婆罗门)之后,诸天得享不坏之天界;而诸王护持大地,获得世间财福、安乐与吉祥的安泰。
Verse 97
लोके विप्र समो नास्ति देवानामपि दैवतं । स च धर्ममयः साक्षाद्भुवि मुक्तिप्रदो भृशं
在世间,婆罗门啊,无人能与之比肩——他甚至是诸天所敬的神圣。此人实为法(Dharma)之化身,并在大地上大力赐予解脱(mokṣa)。
Verse 98
लोकानां स गुरुः पूज्यस्तीर्थभूतोऽनघो जनः । सर्वदेवालयः सत्वो निर्मितो ब्रह्मणा पुरा
对诸世界而言,他是应受礼敬的导师——无垢之人,已成活的圣地渡口(tīrtha)。那清净之灵,乃一切诸神之殿堂,久远以前由梵天(Brahmā)所造。
Verse 99
इममर्थं पुरा पृष्टो नारदेन पितामहः । कस्मिंस्तु पूजिते ब्रह्मन्प्रसादी माधवो भवेत्
很久以前,纳罗陀向祖父梵天问此事:“婆罗门啊,礼敬供奉何者,摩达婆(毗湿奴)才会欢喜?”
Verse 100
ब्रह्मोवाच । यस्य विप्राः प्रसीदंति तस्य विष्णुः प्रसीदति । तस्माद्ब्राह्मण शुश्रूषुः परं ब्रह्माधिगच्छति
梵天说:令婆罗门欢喜者,亦令毗湿奴欢喜。因此,勤恳侍奉婆罗门的人,得证至上梵(最高梵)。
Verse 101
विष्णुर्ब्राह्मणदेहेषु सदा वसति नान्यथा । तस्माद्ब्राह्मणपूजायां विष्णुस्तुष्यति तत्क्षणात्
毗湿奴恒常住于婆罗门之身,别无他处。因此,礼敬婆罗门之时,毗湿奴当下即得欢喜。
Verse 102
विप्रान्यः पूजयेन्नित्यं दानमानार्चनादिभिः । कृतं क्रतुशतं तेन विध्युक्तं प्रियदक्षिणम्
应当日日以布施(dāna)、恭敬、礼拜等供养婆罗门。如此便等同于依教法完成百次祭祀,并奉上悦意的供养金(dakṣiṇā)。
Verse 103
ब्राह्मणस्य मुखं क्षेत्रमनूषरमकण्टकम् । वापयेत्सर्वबीजानि सा कृषिस्सार्वकालिकी
婆罗门之口如同田地:不荒瘠、无荆棘。应将一切种子播于其间;此乃恒常结果的耕作。
Verse 104
अभिगम्य तु यद्दत्तं यच्च दानं मनोरमं । विद्यते सागरस्यांतो दानस्यांतो न विद्यते
亲自前往、面见贤善之人而施与的供施,以及一切悦意的布施——大海尚有尽头,而布施的功德与广大却无有穷尽。
Verse 105
मनसापि न हिंसंति भूदेवमाततायिनं । मनोनुकूलतां यांति देवैरपि च दुर्लभां
他们甚至在心念中也不加害于那侵害婆罗门的凶徒;他们得至内心调和之境,此境连诸天亦难得。
Verse 106
गृहे यस्यागतो विद्वान्नैराश्यं नोपगच्छति । सर्वपापक्षयस्तस्य चाक्षयं स्वर्गमश्नुते
凡有学者来到其家,而其心不陷于沮丧者——此人一切罪业尽灭,并得不坏之天界。
Verse 107
काले देशे च पात्रे च विप्रे यच्चार्पयेद्वसु । तद्धनं चाक्षयं विद्धि जन्मजन्मनि तिष्ठति
于适当之时、适当之地、对堪受之婆罗门所奉献的财物——当知此财为不坏之财,生生世世随身而住。
Verse 108
न च दारिद्यतामेति नातुरो न च कातरः । मनोनुकूलां प्रमदामर्चयित्वा द्विजान्लभेत्
他不至贫困,不遭疾病,也不陷忧惧;礼敬那与其心意相应的爱妻之后,便得二次生者(婆罗门等)的护念与扶持。
Verse 109
कृत्वा साहसकर्माणि दद्याद्विप्राय पर्वसु । तद्दानं सुगुणं प्रोक्तमभयं लाभ एव च
行毕勇猛艰苦之业,当于圣节之日施赠于婆罗门。此等布施被宣说为功德圆满,能赐无畏,亦能招致利益。
Verse 110
विप्रपादतलोद्घृष्टि क्षती भवति यः करः । स करः श्रीकरो नाम अन्यः कर्मकरः करः
那只因摩触婆罗门足底而受伤的手,被称为“室利迦罗”(吉祥之手);其余的手,不过是劳作之手。
Verse 111
विप्रपादरजः पूताः पूतास्तज्जलबिन्दुभिः । विपद्भिश्च सदा पापैर्मुक्ता यांति त्रिविष्टपम्
由婆罗门足尘而得清净,又由与其相关之水滴而复得净化,他们恒常解脱诸罪与诸难,往生于三十三天(Triviṣṭapa)。
Verse 112
विप्रपादरजः पूताः शुचयो गृह चत्वराः । पुण्यक्षेत्रसमास्ते स्युः प्रशस्ता यज्ञकर्मसु
由婆罗门足尘所净化的家宅庭院,便成清洁纯净;被视同圣地朝圣之域,并被称赞为适宜举行祭祀(yajña)之处。
Verse 113
आदौ ब्रह्ममुखाद्विप्रः समुद्भूतः पुरानघः । वेदास्तत्रैव संजाताः सृष्टिसंस्थिति हेतवः
在最初之时,噢婆罗门,古老而无垢者,(原初之有)从梵天之口中显现;就在彼处,吠陀亦诞生,作为创生与维系宇宙秩序之因。
Verse 114
तस्माद्विप्रमुखे वेदाश्चार्पिताः पुरुषेण हि । पूजार्थं सर्वलोकानां सर्वयज्ञार्थतो ध्रुवम्
因此,至上人格确已将吠陀托付给最卓越的婆罗门,作为供养与礼拜一切世界的确定之道,并为一切祭祀(yajña)之宗旨。
Verse 115
पितृयज्ञे विवाहे च वह्निकार्येषु शांतिषु । प्रशस्ता ब्राह्मणा नित्यं सर्व स्वस्त्ययनेषु च
在祖先祭(pitṛ-yajña)、婚礼、圣火仪轨以及息灾安抚之法中,婆罗门恒被视为最为吉祥;确然,在一切求安康与福祉之行中皆复如是。
Verse 116
देवा भुंजंति हव्यानि बलिप्रेतादयोऽसुराः । पितरश्चैव कव्यानि विप्रस्यैव मुखाद्र्धुवम्
诸天享受供火之供(havya);阿修罗——如婆利与诸饿鬼(preta)——受其分配之供;而祖灵(Pitṛ)享受祖供(kavya)。这一切,确然皆由婆罗门之口而达。
Verse 117
देवेभ्यश्च पितृभ्यश्च यो दद्याद्यज्ञकर्मसु । दानं होमं बलिं चैव विना विप्रेण निष्फलम्
在祭祀(yajña)之业中,凡人所献于诸天与祖灵者——布施、投火之供(homa)与仪式供献(bali)——若无婆罗门主持,皆成无果。
Verse 118
भुंजंति चासुरास्तत्र प्रेता दैत्याश्च राक्षसाः । तस्माद्ब्राह्मणमाहूय तेषु कर्माणि कारयेत्
于彼处,阿修罗、饿鬼(preta)、大地耶(daitya)与罗刹(rākṣasa)亦分受其供。因此,当召请婆罗门,使其依规成办相关仪轨。
Verse 119
काले देशे च पात्रे च लक्षकोटिगुणं भवेत् । श्रद्धया च द्विजं दृष्ट्वा प्रकुर्यादभिवादनम्
若施舍或功德之行行于适当之时、适当之地,并施与堪受之人,其果报将增至十万倍乃至亿万倍。又当以信心见到二次生者(婆罗门)时,应当恭敬顶礼致敬。
Verse 120
दीर्घायुस्तस्य वाक्येन चिरंजीवी भवेन्नरः । अनभिवादनाद्विप्र द्वेषादश्रद्धयापि च
凭其言语之加持,人得长寿,乃至成就久住之命;然而,婆罗门啊,此福亦会因不行恭敬礼拜而失去,同样也会因嗔恨,甚至因无信而失。
Verse 121
आयुः क्षीणं भवेत्पुंसां भूतिनाशश्च दुर्गतिः । आयुर्वृद्धिर्यशोवृद्धिर्वृद्धिर्विद्या धनस्य च
对世人而言,寿命会减损;福祉被毁,厄运随之而来。反之,则寿命增长,名声增长,智慧与财富亦随之增长。
Verse 122
पूजयित्वा द्विजान्श्रेष्ठो भवेन्नास्त्यत्र संशयः । न विप्रपादोदककर्दमानि न वेदशास्त्रप्रतिघोषितानि
以恭敬供养二次生者(婆罗门),人必成最上之人,于此无疑。然而,真正的卓越并非仅凭婆罗门足洗之水的泥浊,亦非仅凭高声诵读吠陀与论典而得。
Verse 123
स्वाहा स्वधा स्वस्तिविवर्जितानि श्मशानतुल्यानि गृहाणि तानि । नारद उवाच । कश्च पूज्यतमो विप्रो ह्यपूज्यो वाथ को भवेत्
凡家宅若缺少“svāh┓svadh┓svasti”之圣音,便如同火葬场一般。那罗陀说道:“哪一位婆罗门最堪受敬奉?而哪一位反而成为不堪受敬者?”
Verse 124
विप्रस्य लक्षणं ब्रूहि याथातथ्यं गुरोरपि । ब्रह्मोवाच । पूज्यः श्रोत्रियको नित्यं सदाचारसमन्वितः
“请如实宣说婆罗门的特征,也请说明上师的特征。”梵天说道:“那通晓吠陀的闻诵者(śrotriya),恒常应受礼敬,具足善行与正当行持……”
Verse 125
सद्वृत्तः कलुषैर्मुक्तस्तीर्थभूतो जनोऽनघः । नारद उवाच । जातः कः श्रोत्रियस्तात सत्कुले वाप्यसत्कुले
具足善行、远离垢染之人,便如同一处圣渡(tīrtha),成为无罪者。那罗陀说道:“慈父啊,究竟谁能成为闻诵者(śrotriya)——生于良族者,抑或即便生于恶族者?”
Verse 126
सदसत्कर्मकर्ता वा कः पूज्यो भुवि बाडवः । ब्रह्मोवाच । सत्श्रोत्रियकुले जातो ह्यक्रियो नैव पूजितः
“噢,巴陀婆(Bāḍava),世间谁应受敬奉——行善者还是作恶者?”梵天说道:“纵然生于闻诵者(śrotriya)之族,若懈怠不行、不能履行应尽之法度与职责,也不应受礼敬。”
Verse 127
असत्क्षेत्रकुले पूज्यो व्यास वैभांडकौ यथा । क्षत्रियाणां कुले जातो विश्वामित्रोस्ति मत्समः
即便在不相称之地或不善之家,也有人堪受礼敬,如同毗耶娑(Vyāsa)与毗婆檀陀迦(Vaibhāṇḍaka)。又虽生于刹帝利(kṣatriya)之族,毗湿瓦密多罗(Viśvāmitra)亦成与我等同。
Verse 128
वेश्यापुत्रो वसिष्ठश्च अन्ये सिद्धा द्विजादयः । तस्मात्सच्छोत्रियादीनां शृणु पुत्रक लक्षणम्
婆悉吒(Vasiṣṭha)乃娼伎之子;同样也有其他成就者——婆罗门等诸种二生者。是故,孩子啊,请听我宣说真正闻诵者(śrotriya)等的特征。
Verse 129
धरायां तीर्थभूतानां सर्वपापहराय च । जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते
在大地上,他们如同圣地朝圣的 tīrtha,能除尽一切罪垢。人应以出生而知为婆罗门(brāhmaṇa);又因诸净化仪轨(saṃskāra),被称为“二次生”(dvija)。
Verse 130
विद्यया याति विप्रत्वं त्रिभिः श्रोत्रियलक्षणम् । विद्यापूतो मंत्रपूतो वेदपूतस्तथैव च
由学识而得婆罗门之位;而 śrotriya 的标志有三:以知识净化,以真言净化,并同样以吠陀净化。
Verse 131
तीर्थस्नानादिभिर्मेध्यो विप्रः पूज्यतमः स्मृतः । नारायणे सदा भक्तः शुद्धांतःकरणस्तथा
以在圣地 tīrtha 沐浴等修持,婆罗门得以清净,被忆念为最堪供敬者——尤当他恒常奉爱那罗延(Nārāyaṇa),并具内心澄明清净之时。
Verse 132
जितेंद्रियो जितक्रोधस्समः सर्वजनेषु च । गुरुदेवातिथेर्भक्तः पित्रोः शुश्रूषणे रतः
能制御诸根,克胜嗔怒,对一切众生平等;敬奉上师、神明与来客,并恒常勤于侍奉父母。
Verse 133
परदारे मनो यस्य कदाचिन्नैव मोदते । पुराणकथको नित्यं धर्माख्यानस्य संततिः
其心从不、在任何时候,贪恋他人之妻者——此人恒为真正的《普罗那》宣说者,常住护持并传承正法圣教之叙述。
Verse 134
अस्यैव दर्शनान्नित्यमश्वमेधादिजं फलम् । संलापे गतिमेत्यस्य भागीरथ्या प्लवस्य च
仅仅瞻仰此(圣地/圣物),便能恒常获得由马祭(Aśvamedha)等大祭祀所生的功德。在此交谈者,也得与婆伽罗提河(Bhāgīrathī,即恒河 Gaṅgā)及普拉瓦(Plava)相关的吉祥境界。
Verse 135
व्रतैश्च विविधैः पूतो नित्यस्नानद्विजार्चनैः । मित्रामित्रे दयालुः स्यात्समः सर्वजनेषु च
以种种誓戒而得清净,凭每日沐浴并礼敬二次生者(婆罗门等 dvija),应当对友与敌皆怀慈悲,于一切众人之前保持平等之心。
Verse 136
परस्वं न हरेद्यस्तु तृणमप्यटवीगतम् । कामक्रोधादिनिर्मुक्त इंद्रियैरजितः पुमान्
不取他人之物——纵在林中所得一茎草亦不取——远离欲、怒等烦恼,且不为诸境所胜、诸根不被征服之人,方是真正自制之士。
Verse 137
परदारान्न गृह्णाति मनसापि गृहागतान् । नारद उवाच । गायत्र्या लक्षणं किं वा प्रत्येकाक्षरजं गुणम्
他不染取他人之妻——即便在心念中也不——纵使她来到其家中亦然。那罗陀(Nārada)说道:“那么,伽耶特丽(Gāyatrī)的标志为何?或其每一音节所生之德又是什么?”
Verse 138
कुक्षिचरणगोत्राणां तस्या ब्रूहि सुनिश्चयम् । ब्रह्मोवाच । छंदो गायत्री गायत्र्याः सविता देवता ध्रुवम्
请你确切说明她的正当归类——关于其“腹”、其“足”与其族系。梵天(Brahmā)说道:“其韵律(chandas)即伽耶特丽;而伽耶特丽之本尊,确然是萨维特利(Savitṛ),毫无疑问。”
Verse 139
शुक्लवर्णात्वग्निमुखा विश्वामित्र ऋषिस्तथा । ब्रह्मणश्शिरआरूढा शिखा विष्णु हृदि स्थिता
其色洁白,面如火焰,以毗湿瓦密多罗为圣仙见者;此如顶髻之焰,安住于梵天之首,而又建立于毗湿奴之心。
Verse 140
उपनयने नियोगः स्यात्सांख्यायन सगोत्रजा । त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षि संस्थिता
于受戒入学(upanayana)之时,应依仪轨而作任命,萨姆迦耶那啊,当取同一氏族(gotra)者。她当被称为“三界之足(所依)”,安住于大地之胎。
Verse 141
चतुर्विंशतिस्थाने च पादादौ मस्तकांतके । चतुर्विंशत्यक्षरं न्यस्य ब्रह्मलोकं स विंदति
将二十四音节安置于二十四处——自足端为始,至头顶为终——便得至梵天之界,梵天世界(Brahmaloka)。
Verse 142
प्रत्यर्णदेवतां ज्ञात्वा विष्णुसायुज्यमाप्नुयात् । अपरं च प्रवक्ष्यामि गायत्र्या लक्षणं ध्रुवं
了知每一音节所主之神祇,便可得与毗湿奴合一。今我将进一步宣说伽雅特丽(Gāyatrī)确然之相。
Verse 143
सप्तपंच तथा ब्रह्म यजुरष्टादशाक्षरम् । ज्वलनादिहकारांतं जले स्थित्वा शतं जपेत्
当立于水中,诵念百遍十八音节之夜柔(Yajur)真言——以“jvalana”为始,以“ha-kāra”为终——并诵“saptapañca”及梵(Brahma)真言。
Verse 144
उपपातककोट्या तु तथातिपातकैरपि । ब्रह्महत्यादिभिः पापैर्मुक्ता यांति ममालयं
即使那些已从罪业中解脱者——无量的轻罪与极重罪,乃至如婆罗门杀(brahmahatyā,杀害婆罗门)等罪——也将前往我的圣住处。
Verse 145
ओंअग्नेर्वाक्पुंसि यजुर्वेदेन जुष्टात्सोमं पिब स्वाहा । विष्णुमंत्रं महामंत्रं तथा माहेश्वरस्य च
“唵。噢阿耆尼——(为)言语与生命之气——由《夜柔吠陀》所加持:饮此苏摩;娑嚩诃。并当运用毗湿奴真言、大真言,以及同样的摩醯湿伐罗(湿婆)真言。”
Verse 146
देवीसूर्यगणेशानां तथा क्रतुभुजां सुत । यस्य कस्य कुले जातो गुणवानेव तैर्गुणैः
噢享受祭祀供分者之子,无论生于何族何家,皆因那些同样的德性而成真善——即女神、太阳与伽内沙所具之德。
Verse 147
साक्षाद्ब्रह्ममयो विप्रः पूजनीयः प्रयत्नतः । दानं दद्याच्च विधिवत्सदा पर्वणि पर्वणि
婆罗门实为梵之体性,应当竭力恭敬供养;并且应当常依正法如仪布施,于每一圣日、每一斋期皆然。
Verse 148
अक्षयं लभते दाता जन्मकोटिशतान्प्रति । स्वाध्यायनिरतो विप्रो यः पठेत्पाठयेत्परान्
施者于百俱胝之生中得不坏不减之果报。那专注于自诵研习(svādhyāya)的婆罗门——或自诵此文,或令他人诵读——亦同得此功德。
Verse 149
धर्मं च श्रावयेल्लोके सदाचारं श्रुतिं स्मृतिं । पुराणसंहितां नूनं तथैव धर्मसंहितां
应当令世间得闻正法(Dharma):正行、圣闻(Śruti,吠陀)与忆持(Smṛti);并且确然也当宣讲诸《往世书》(Purāṇa)之汇编,以及诸《法论》(Dharmaśāstra)之汇编。
Verse 150
श्रावयित्वा तु लोकेषु श्रावयित्वा द्विजातिषु । उर्व्यां विष्णुसमः सोपि पूजनीयो नरैः सुरैः
然而,若使其在众人中诵读,又使其在二次生者(dvija)中诵读,则此人在世间与毗湿奴(Viṣṇu)等同,堪受人类与诸天的礼敬。
Verse 151
यद्बलं चाक्षयं तस्य तीर्थभूतानघस्य च । समानमर्चनं कृत्वा नरो यात्यच्युतालयं
以同样的方式行供养礼拜者,得至阿周多(Acyuta,毗湿奴)之居处;因为此供养之功德力不可毁坏,归于那无罪者——已成活的圣地(tīrtha)。
Verse 152
कदाचित्क्रियते पापं विप्रः पापैर्न लिप्यते । चांडालस्य गृहे निष्ठौ भास्करज्वलनौ यथा
即便婆罗门有时造罪,也不为罪垢所染;正如太阳与火,即使在旃陀罗(caṇḍāla)之家中,也不受玷污。
Verse 153
याजनाध्यापनाद्यौनात्तथैवासत्प्रतिग्रहात् । विप्राणां न भवेद्दोषो ज्वलनार्कसमा द्विजाः
因主持祭祀(yajña)、教授吠陀、男女交合,亦因受取不当之施与,婆罗门并不因此生过;噢二次生者,他们如同火与太阳。
Verse 154
तान्प्रतिग्रहजान्दोषान्प्राणायाम व्यवस्थिताः । नाशयंतीह पापानि वायुर्मेघमिवांबरे
安住于调息(prāṇāyāma)之法者,能于此时此地灭除因受施而生的过失;其消散罪业,如风驱散长空之云。
Verse 155
गायत्रीं यो जपेन्नित्यं प्राणायामसमन्वितां । प्रत्यक्षरामरैर्युक्तां स्वाङ्गे विन्यस्य तामपि
凡每日诵持伽耶特丽(Gāyatrī),并配合调息(prāṇāyāma)之行,又以安置法(nyāsa)将其安于自身诸肢,并复与“罗摩(Rāma)”之显明音节相应者——
Verse 156
सर्वपापाद्विनिर्मुक्तो जन्मकोटिकृतादपि । ब्रह्मणः पदवीं प्राप्य स गच्छेत्प्रकृतेः परम्
他解脱一切罪垢——纵使积聚于千万生中——得至梵天(Brahmā)之位,继而超越普拉克里蒂(Prakṛti,物质自然)。
Verse 157
प्राणायामयुतां तस्माद्गायत्रीं जप नारद । नारद उवाच । प्राणायामाः कथं ब्रह्मन्प्रत्येकाक्षरदेवताः
因此,纳罗陀(Nārada)啊,当以调息(prāṇāyāma)相伴而诵伽耶特丽。纳罗陀曰:“大梵者啊,调息当如何行?每一音节由何神祇主宰?”
Verse 158
तेषां न्यासं तथांगेषु वद तात यथाक्रमम् । ब्रह्मोवाच । गुददेशेत्वपानस्याद्धृदि प्राणोस्ति देहिनः
“慈父啊,请依次为我宣说,将这些(诸气)以安置法(nyāsa)安于诸肢之次第。”梵天曰:“在肛门之处为下行气阿帕那(Apāna);在具身者之心中住持上行气普拉那(Prāṇa)。”
Verse 159
तस्माद्गुदं समाकुंच्य प्राणेन सह योजयेत् । पूरकेण तदा पुत्र कृत्वा कुंभकमुत्तमं
因此,当收摄肛门,使之与生命之气 prāṇa 相合。然后,孩子,在作吸气(pūraka)之后,应行最殊胜的闭气(kumbhaka)。
Verse 160
प्राणायामत्रयं कृत्वा गायत्रीं संजपेदिद्वजः । अनेनैव जपेद्यस्तु महापातकसंचयः
行毕三重的调息(prāṇāyāma)之后,应当如法诵念伽雅特丽(Gāyatrī)。即使背负累积重罪之人,也能以此方式反复持诵而得清净。
Verse 161
सकृदुच्चारितेनैव क्षयं यात्युपपातकं । प्रतिवर्णस्वरं ज्ञात्वा विन्यस्येद्यः कलेवरे
仅仅诵出一次,诸小罪便得消灭。若能了知每一音节之音与调,依法将其安置于身中(行 nyāsa),亦得此净化之效。
Verse 162
स जनो ब्रह्मतामेति फलं वक्तुं न शक्नुमः । प्रत्यक्षरस्य यद्दैवं शृणु पुत्र वदाम्यहं
如此之人得至梵之境界;其果报之广大,我们难以尽述。但你且听,孩子——我将为你宣说关于显现之音节(明字)之仪轨的神圣威力。
Verse 163
यज्जप्त्वा च पुनर्मातुस्तनं न पिबति द्विजः । आग्नेयं प्रथमं ज्ञेयं वायव्यं तु द्वितीयकम्
持诵此者,二次生者(dvija)不再复饮母乳。其第一种当知为“Agneya”(火性),第二种则为“Vāyavya”(风性)。
Verse 164
तृतीयं सूर्यदैवत्यं चतुर्थं वैयतं तथा । पंचमं यमदैवत्यं वारुणं षष्ठमुच्यते
第三由苏利耶(Sūrya)主宰;第四同样归于天界之神(风神Vāyu)。第五由阎摩(Yama)主宰;第六则称为伐楼那(Varuṇa)之分。
Verse 165
सप्तमं बार्हस्पत्यं तु पार्जन्यं चाष्टमं विदुः । ऐन्द्रं च नवमं ज्ञेयं गांधर्वं दशमं तथा
第七称为婆罗诃斯帕底耶(Bārhaspatya),属布哩哈斯帕提(Bṛhaspati);第八据说为帕尔迦尼耶(Pārjanya),属帕尔迦尼亚(Parjanya)。第九应知为因陀罗分(Aindra),属因陀罗(Indra);第十同样为乾闼婆分(Gāndharva),属乾闼婆众。
Verse 166
पौष्णमेकादशं विद्धि मैत्रं द्वादशकं स्मृतं । त्वाष्ट्रं त्रयोदशं ज्ञेयं वासवं तु चतुर्दशं
当知第十一为普乌什那分(Pauṣṇa);第十二被忆为弥多罗分(Maitra)。第十三应知为特瓦什特拉分(Tvāṣṭra);第十四确为婆娑婆分(Vāsava)。
Verse 167
मारुतं पंचदशकं सौम्यं षोडशकं स्मृतं । आंगिरसं सप्तदशं वैश्वदेवमतः परं
第十五被记为摩卢多分(Māruta);第十六称为苏摩分(Saumya)。第十七为安吉罗娑分(Āṅgirasa);而在其后则是毗湿婆提婆分(Vaiśvadeva)。
Verse 168
आश्विनं चैकोनविंशं प्राजापत्यं तु विंशकं । सर्वदेवमयं ज्ञेयमेकविंशकमक्षरं
名为阿湿毗那(Āśvina)者为十九音节;而生主分(Prajāpatya)为二十音节。然而二十一音节之式,应知其内含摄一切诸神。
Verse 169
रौद्रं द्वाविंशकं ज्ञेयं ब्राह्मं ज्ञेयमतः परं । वैष्णवं तु चतुर्विंशमेता अक्षरदेवताः
当知第二十二(组)属鲁陀罗;其后当知为梵天;第二十四则为毗湿奴派(Vaiṣṇava)。这些是诸音节(字母)的主宰神。
Verse 170
जपकाले तु संचिंत्य तासु सायुज्यतां व्रजेत् । ज्ञात्वा तु देवतास्तस्य वाङ्मयं विदितं भवेत्
于持诵(japa)之时,观想彼诸神,即得与之合一。既知彼咒之本尊,其神圣言语之形便得真实明了。
Verse 171
सर्वपापविनिर्मुक्तो ब्रह्मणः पदवीं व्रजेत् । गायत्रीं विन्यसेत्पूर्वं शरीरे चात्मनो बुधः
脱离一切罪垢者,将趋入梵天之境。智者当先于自身之身与我中安置伽雅特丽(Gāyatrī)。
Verse 172
चतुर्विंशति स्थानेषु आपादमस्तकेषु च । तत्कारं विन्यसेद्योगी पदांगुष्ठे विचक्षणः
于二十四处位,从足至顶髻,明辨之瑜伽行者当安置彼音节;尤当定置于大脚趾。
Verse 173
सकारं गुल्फदेशे तु विकारं जंघयोर्न्यसेत् । तुकारं जानुमध्ये च वकारं चोरुदेशतः
当于踝部安置音节“sa”,于小腿安置“vi”,于膝中安置“tu”,并于大腿处安置“va”。
Verse 174
रेकारं गुह्यदेशे तु णिकारं वृषणे न्यसेत् । यंकारं कटिदेशे तु भकारं नाभिमण्डले
应将音节“ra”安置于隐秘之处,将音节“ṇa”置于睾丸之上;将音节“ya”安置于髋部区域,并将音节“bha”安置于脐轮之环。
Verse 175
गोकारं जठरे न्यस्य देकारं स्तनयोर्न्यसेत् । वकारं हृदये न्यस्य स्यकारं करदेशतः
将音节“go”安置于腹中,将音节“de”置于双乳之上;将音节“va”安置于心间,并将音节“sya”安置于双手之处。
Verse 176
धीकारं वदने न्यस्य मकारं तालुके न्यसेत् । हिकारं नासिकाग्रे च धिकारं चक्षुषोर्न्यसेत्
将音节“dhī”安置于口中,将音节“ma”置于上腭;又将音节“hi”安置于鼻尖,并将音节“dhi”安置于双眼之上。
Verse 177
योकारं तु भ्रुवोर्मध्ये योकारं च ललाटके । नःकारं तु मुखे पूर्वे प्रकारं दक्षिणे मुखे
音节“yo”应安置于两眉之间,又将“yo”安置于额上;音节“naḥ”安置于面向东方之面,音节“pra”安置于面向南方之面。
Verse 178
चोकारं पश्चिमे न्यस्य दकारं चोत्तरे न्यसेत् । यात्कारं मूर्ध्नि विन्यस्य सर्वव्यापी व्यवस्थितः
将音节“co”安置于西方,将音节“da”安置于北方;继而把音节“yāt”安置于头顶之冠——由此观想主为遍一切处者,安住于万方。
Verse 179
एतान्विन्यस्य धर्मात्मा ब्रह्मविष्णुशिवात्मकः । महायोगी महाज्ञानी परं निर्वाणकं व्रजेत्
如法安置诸法之后,具正法之心者——其体性即梵天、毗湿奴与湿婆——成为大瑜伽行者与大智者,便能证得至上的涅槃境界。
Verse 180
संध्याकाले पुनर्न्यासं शृणु त्वं तद्यथार्थतः । ओंभूरिति हृदये न्यस्य ओंभुवश्शिरसि न्यसेत्
在沙恩迪亚(暮昏)之时,当如实聆听再行安置真言之法(punar-nyāsa)。先将“唵 bhūḥ”安置于心间,再将“唵 bhuvaḥ”安置于头顶。
Verse 181
ओंस्वः शिखायै तत्सवितुर्वरेण्यमिति कलेवरे । ओंभर्गो देवस्य धीमहीति नेत्रयोः
当将“唵 svaḥ”安置于顶髻(śikhā);将“tat savitur vareṇyam”安置于全身;并将“唵 bhargo devasya dhīmahi”安置于双目。
Verse 182
ओंधियो यो नः प्रचोदयादिति करयोर्न्यसेत् । ओंआपो ज्योती रसोमृतं ब्रह्म भूर्भुवःस्वरोम् । इत्युदकस्पर्शमात्रेण पापात्पूतो व्रजेद्धरिं
诵“dhiyo yo naḥ pracodayāt——愿彼启迪我等慧识”,当将真言安置于双手。继而诵:“唵——诸水、光明、精髓、不死甘露、梵;bhūr-bhuvaḥ-svaḥ——唵。”仅以触水之功,即得离罪清净,而趋向诃利(毗湿奴)。
Verse 183
ओंभूः ओंभुवः ओंस्वः ओंमहः ओंजनः ओंतपः ओंसत्यम् । ओंतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ओंआपो ज्योती रसोमृतं ब्रह्म भूर्भुवःस्वरोम् । इति सव्याहृति सप्रणवां द्वादश ओंकारां संध्याकाले कुंभकेन वारत्रयं जप्त्वा । सूर्योपस्थाने सावित्रीं चतुर्विंशत्यक्षरां जप्त्वा । महाविद्याधिको भवति ब्रह्मत्वं लभते
“唵:bhūḥ、bhuvaḥ、svaḥ;唵:mahaḥ、janaḥ、tapaḥ、satyam。唵:tat savitur vareṇyaṃ,bhargo devasya dhīmahi,dhiyo yo naḥ pracodayāt。唵:āpaḥ、jyotiḥ、rasaḥ、amṛtam、brahma;bhūr-bhuvaḥ-svaḥ——唵。”如是,于沙恩迪亚时,将诸vyāhṛti与praṇava(唵)相连,成十二重“唵”之法,行持闭息(kumbhaka)而三遍诵之;复于礼敬太阳时,诵二十四音节之萨维特丽(Sāvitrī)。由此得具大明(大智)之资格,并证得梵性(证悟梵)。
Verse 184
षट्कुक्षिलक्षणां पुत्र गायत्रीं शृणु यत्नतः । यां ज्ञात्वा तु परं ब्रह्मस्थानं गच्छति वै द्विजः
孩子啊,当专心聆听具六分之相的伽雅特丽;真正了知此咒者,二次生者得至梵(Brahman)之至上住处。
Verse 185
ओंतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
唵。我们观想神圣萨维特利(Savitṛ)可敬可爱的光辉;愿他启迪并推动我们的心智。
Verse 186
अथ गायत्री पंचशीर्षलक्षणम् । ओंभूः ओंभुवः ओंस्वः ओंमहः ओंजनः ओंतपः ओंसत्यम् । ओंतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
今说具“五首”之相的伽雅特丽。应与圣音同诵:唵—Bhūḥ,唵—Bhuvaḥ,唵—Svaḥ,唵—Mahaḥ,唵—Janaḥ,唵—Tapaḥ,唵—Satyam。唵—我们观想神圣萨维特利可敬可爱的光辉;愿他推动并照明我们的理解。
Verse 187
सव्याहृतिं तु गायत्रीं पुनर्न्यासं तु कारयेत् । सर्वपापविनिर्मुक्तो विष्णुसायुज्यतां व्रजेत्
应与诸“vyāhṛti”同作伽雅特丽之再安置(punar-nyāsa)。离一切罪垢者,得与毗湿奴(Viṣṇu)合一(sāyujya)。
Verse 188
ओंभूः पादाभ्याम् ओंभुवः जानुभ्याम् ओंस्वः कट्याम् ओंमहः नाभौ ओंजनः हृदये न्यसेत् ओंतपः करयोः ओंसत्यं ललाटे । ओंतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । इति शिखायाम्
“唵—Bhūḥ”安置于双足;“唵—Bhuvaḥ”于双膝;“唵—Svaḥ”于髋部;“唵—Mahaḥ”于脐;“唵—Janaḥ”于心;“唵—Tapaḥ”于双手;“唵—Satyam”于额。继而诵曰:“唵——我们观想神圣萨维特利可敬可爱的光辉;愿他启迪并推动我们的心智。”如是安置于顶髻(śikhā)。
Verse 189
एवं विप्रो न जानाति स एव ब्राह्मणाधमः । न तस्य क्षीयते पाप्मा भवेद्भूरिप्रतिग्रहः
若婆罗门不以此法了知,实为婆罗门中最下者;其罪不减,反成贪受过多供施之人。
Verse 190
इमां यो वेत्ति गायत्रीं सर्वबीजसमन्विताम् । स वेत्ति चतुरो वेदान्योगज्ञानं जपत्रयम्
凡真实了知此具足一切种子真言精髓之伽耶特利者,即了知四吠陀、瑜伽之智,以及持诵(japa)的三重修持。
Verse 191
य एनां नैव जानाति स शूद्रात्परतः स्मृतः । तस्यापूतस्य विप्रस्य न देयं पितृपार्वणम्
若全然不知此者,被记为比首陀罗更下;对那不净之婆罗门,不应在祖灵节(Pitṛ-pārvaṇa)施与祖先供献。
Verse 192
न स्नानफलदः कश्चित्सर्वं च निष्फलं भवेत् । विद्या वित्तं तथा जन्म द्विजत्वं कारणं यतः
无人能成就沐浴仪轨之果;反而一切皆成徒然——学识、财富,乃至出身——因为仅有“再生者”(二次生)之名并非真实因由。
Verse 193
निष्फलं सकलं तस्य मेध्यं पुष्पं यथाऽशुचौ । चतुर्वेदाश्च गायत्री पुरा वै तुलिता मया
于彼而言,一切皆成无果,如圣花置于不净而失其灵验。往昔我曾衡量四吠陀与伽耶特利(以明其相对功德)。
Verse 194
चतुर्वेदात्परा गुर्वी गायत्री मोक्षदा स्मृता । दशभिर्जन्मजनितं शतेन च पुरा कृतम्
尊贵的伽雅特丽(Gāyatrī)被忆念为赐予解脱(mokṣa)者,甚至被认为超越四部吠陀。由十次生而起的罪业得以消除,连久远以前——逾百(年或生)所作之罪亦能净除。
Verse 195
त्रियुगं तु सहस्रेण गायत्री हंति किल्बिषम् । गायत्रीमक्षमालायां सायं प्रातश्च यो जपेत्
将伽雅特丽(Gāyatrī)诵念一千遍,三劫(yuga)所积之罪便被摧灭。凡于念珠(mālā)上,于黄昏与清晨诵持伽雅特丽者,即得净化。
Verse 196
चतुर्णामपि वेदानां फलं प्राप्नोत्यसंशयम् । त्रिसंध्यं यो जपेन्नित्यं गायत्रीं हायनं द्विजः
毫无疑问,二次生者(dvija)若一年之中恒常于每日三次沙恩迪亚(Sandhyā)时诵持伽雅特丽,便能获得四部吠陀的一切果报。
Verse 197
तस्य पापं क्षयं याति जन्मकोटिसमुद्भवम् । गायत्र्युच्चारमात्रेण पापकूटात्पुनाति च
对那人而言,累积于千万生中的罪业皆趋于灭尽;仅凭伽雅特丽的一声诵出,亦能从罪山罪堆之中得以净化。
Verse 198
स्वर्गापवर्गमाप्नोति जप्त्वा नित्यं द्विजोत्तमः । वासुदेवस्य मंत्राणि जपेद्यस्तु दिनेदिने
婆罗门中之最胜者啊!二次生者若日日恒常诵念婆苏提婆(Vāsudeva)之诸真言,便能同得天界之乐与解脱(apavarga)。
Verse 199
प्रणमेच्च हरेः पादौ स गच्छेदपवर्गिताम् । वासुदेवस्य स्तोत्राणि मुखे चापि कथोत्तमा
当礼拜哈利之足,如是便得解脱;并当以口常诵婆苏提婆之赞颂,以及最殊胜的圣传妙语。
Verse 200
पंकस्य लवमात्रं तु तस्य देहे न तिष्ठति । वेदशास्त्रावगाहेन त्रिस्रोतः स्नानजं फलम्
其身不留丝毫污秽;以沉潜于吠陀与诸论典(śāstra)之中,所得功德等同于在三流圣地(Trisrota)沐浴。