
Agastya Arghya Rite and the Gaurī & Sārasvata Vows (with Origin Narratives and Merit Statements)
《莲华往世书》PP.1.22先点出七重天界,继而引出关于王权、容貌、长寿与健康的询问。普罗娑底耶叙述一场神话危机:达那婆潜藏于大海,因陀罗命火神阿耆尼与风神婆由将海水蒸干;二神顾念众生将遭大害而拒绝,遂被诅咒而受有身之生。由此引出密多罗与伐楼那所致的“壶生”传统,维悉吒与阿伽斯提耶由此而来;其后阿伽斯提耶饮尽大海,解除诸天之患。 本章随后转为仪轨教诫:规定黎明行阿伽斯提耶阿尔伽供,以白色供具与布施为要,功德层层增长,乃至得七界与毗湿奴之居处。又说以女神为中心的阿难多·特利提耶之礼,含近似“安置”(nyāsa)的礼敬、莲华曼荼罗中安立诸女神、按月供花之法,并严守尊师之戒。继而详述“拉萨迦利亚宁尼”誓愿(摩伽月第三日)的月度禁戒与施赠,最后教授“萨拉斯瓦塔誓愿”,令言辞甘美、智慧增长、得众人爱敬并延年益寿,终以得梵天界之福为归。
Verse 1
भीष्म उवाच । भूर्लोकोथ भुवर्लोकः स्वर्लोकोथ महर्जनः । तपः सत्यं च सप्तैते देवलोकाः प्रकीर्त्तिताः
毗湿摩说道:布尔界(Bhūrloka),继而布瓦尔界(Bhuvarloka)、天界(Svargaloka)与摩诃尔界(Maharloka);又有苦行界(Tapoloka)与真实界(Satyaloka)——此七者被宣称为神圣诸界。
Verse 2
पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेत् । इहलोके शुभं रूपमायुरारोग्यमेव च
然而,主权如何能依次降临于众人?又如何在此世获得端美之形、长寿,以及确然的安康?
Verse 3
लक्ष्मीश्च विपुला ब्रह्मन्कथं स्यात्सुरपूजित । पुलस्त्य उवाच । पुरा हुताशनः सार्द्धं मारुतेन महीतले
“噢婆罗门啊,受诸天敬奉礼拜者,吉祥天女拉克什弥(Lakṣmī)如何才能丰盛?”普罗萨底耶(Pulastya)说道:“往昔,火神阿耆尼(Agni)与风神伐由(Vāyu)一同在大地之上……”
Verse 4
आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम् । निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः
他奉普鲁胡多(Puruhūta,因陀罗)之命,为毁灭诸天之敌,遂将成千上万的达那婆(Dānava)焚为灰烬。
Verse 5
तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः । विरोचनस्तु संह्रादः प्रयातास्ते तदा वसन्
塔罗迦(Tāraka)、莲目者迦摩罗叉(Kamalākṣa)、黑牙者迦罗檀什特罗(Kāladaṁṣṭra)、帕罗婆苏(Parāvasu),以及毗卢遮那(Virocana)与三赫罗陀(Saṁhrāda)——他们当时启程而行,居于彼处。
Verse 6
अंतःसमुद्रमाविश्य सन्निवेशमकुर्वत । अशक्ता इति तेप्यग्निमारुताभ्यामुपेक्षिताः
他们进入大海深处,在其中安置居所;但因被视为无能,亦为火神与风神所忽略。
Verse 7
ततः प्रभृति वै देवान्मानुषान्स भुजंगमान् । संपीड्य च मुनीन्सर्वान्प्रविशंति पुनर्जलम्
自那时起,他们确实侵扰诸天、世人及诸蛇;并且压迫一切牟尼圣者后,又再度潜入水中。
Verse 8
एवं युगसहस्राणि ते वीराः सप्त पंच च । जलदुर्गबलाद्राजन्पीडयंति जगत्त्रयम्
如是,历经千千万万劫,那十二位勇士倚仗水之堡垒与武力之势,折磨三界,王啊。
Verse 9
ततः पुनरथो वह्निमारुतावमराधिपः । आदिदेशाचिरादंबु निधिरेष विशोष्यताम्
于是,诸天之主又命火神与风神:“速速将此大海干涸。”
Verse 10
यस्मादस्मद्द्विषां चैष शरणं वरुणालयः । तस्माद्भवद्भ्यामद्यैव शोषमेष प्रणीयताम्
既然此处乃伐楼那之居所,也成了我等仇敌的庇护;故当由你们二位,就在今日使此地枯竭。
Verse 11
तावूचतुस्ततः शक्रं मयशम्बरसूदनम् । अधर्म एष देवेंद्र सागरस्य विनाशनम्
于是那二位对释迦罗(因陀罗),诛灭摩耶与商婆罗者,说道:“诸天之主啊,此乃非正法(adharma)——毁灭大海之举。”
Verse 12
यस्माज्जीवनिकायस्य महतः संक्षयो भवेत् । तस्मादुपायमन्यं तु समाश्रय पुरंदर
因为若循此举,众生将遭大毁灭;因此,普兰达罗(因陀罗)啊,请依止另一种方法。
Verse 13
यस्य योजनमात्रेपि जीवकोटि शतानि च । निवसंति सुरश्रेष्ठ स कथं नाशमर्हति
诸天中最胜者啊,在那仅一由旬之境内尚有数百俱胝众生居住——如此者怎会应当灭亡?
Verse 14
एवमुक्तः सुरेंद्रस्तु क्रोधसंरक्तलोचनः । उवाचेदं वचो रोषादमरावग्निमारुतौ
因陀罗被如此劝谏,怒目赤红,便在忿怒中对阿摩罗婆、阿耆尼与摩鲁多说出这些话。
Verse 15
न धर्माधर्मसंयोगं प्राप्नुवंत्यमराः क्वचित् । भवंतौ तु विशेषेण महात्मानौ च तिष्ठतः
不死的诸天从不与福德与罪过的交杂相触;而你们二位,尤其是,安住为大心之圣者。
Verse 16
ममाज्ञा न कृता यस्मान्मारुतेन समं त्वया । मुंनिव्रतपरो भूत्वा परिगृह्य कलेवरम्
由于你未奉行我的命令,竟与风神同等,因此你当守持牟尼之戒,摄受一具身形。
Verse 17
धर्मार्थशास्त्ररहितां योनिं प्रति विभावसो । तस्मादेकेन वपुषा मुनिरूपेण मानुषे
因此,毗婆婆苏(阿耆尼)趋向一处缺乏法与义教诲的人胎;于是以一身之形,化作牟尼而入人间。
Verse 18
मारुतेन समं लोके तव जन्म भविष्यति । यदा तु मानुषत्वेपि त्वया गंडूषशोषितः
在世间,你的出生将与风神摩鲁多相系。并且当你即使在人身之中,以一口之水将他枯竭……
Verse 19
भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसि । इतींद्रशापात्पतितौ तत्क्षणात्तौ महीतले
“将来你将化为大海,噢火神;那时你将复得神性。”如是因因陀罗之诅咒,二者当下坠落于大地之上。
Verse 20
अवाप्तवंतौ देहे च कुंभाज्जन्म ततोभवत् । मित्रावरुणयोर्वीर्याद्वसिष्ठश्चात्मजोभवत्
其后他们得具身形,而由一只陶罐发生了出生。凭借密多罗与伐楼那之威力,婆悉吒亦作为其子而诞生。
Verse 21
ततोगस्त्य उग्रतपा बभूव मुनिसत्तमः । अस्माद्भ्रातुः स वै भ्राता वसिष्ठस्यानुजो मुनिः
随后,阿伽斯提耶——诸牟尼中最胜者,具猛烈苦行——应运而生。由此兄弟,确实诞生了那位圣仙:婆悉吒的幼弟。
Verse 22
भीष्म उवाच । कथं च मित्रावरुणौ पितरावस्य तौ स्मृतौ । जन्म कुंभादगस्त्यस्य यथाभूत्तद्वदाधुना
毗湿摩说道:为何人们记念密多罗与伐楼那为他的两位父亲?阿伽斯提耶又如何从陶罐中出生?请你如今如实告知。
Verse 23
पुलस्त्य उवाच । पुरा पुराणपुरुषः कदाचिद्गंधमादने । भूत्वा धर्मसुतो विष्णुश्चचार विपुलं तपः
普罗诃斯提耶说道:久远以前,原初之人曾一度来到甘达摩达那;化为法神之子,毗湿奴修行广大苦行。
Verse 24
तपसा चास्य भीतेन विघ्नार्थे प्रेषितावुभौ । शक्रेण माधवानंगावप्सरोगणसंयुतौ
因其苦行之力,帝释天(释迦)心生畏惧,便差遣二者——摩陀婆与阿难伽——并率众天女阿普萨罗,以作障碍。
Verse 25
यदा च गीतवाद्येन भावहावादिना हरिः । न काममाधवाभ्यां च मोहं नेतुमशक्यत
当以歌唱与乐器之音,并以情态与婀娜之姿相诱之时,哈利仍不能被伽摩与摩陀婆引入迷惑。
Verse 26
तदा काममधुस्त्रीणां विषादमभजद्गणः । संक्षोभायत तस्तेषामूरुदेशान्नराग्रजः
于是那一群人因那些如爱欲甘露般甜美的女子而陷入忧惘;而人中之最亦心神骚动,尤为她们丰阔的大腿所撩拨。
Verse 27
नारीमुत्पादयामास त्रैलोक्यस्यापि मोहिनीम् । संमोहितास्तया देवास्तौ तु चैव सुरावुभौ
他化现出一位女子——即使三界也能迷惑的妖娆幻魅。诸天神被她所惑,连那两位天界之众亦尽皆沉迷。
Verse 28
अप्सराणां समक्षं हि देवानामब्रवीद्धरिः । उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति
就在阿普萨拉斯与诸天面前,哈利宣告道:“此女名为乌尔瓦希(Urvaśī),必将在世间获得盛名。”
Verse 29
ततः कामयमानेन मित्रेणाहूयतोर्वशी । प्रोक्ता मां रमयस्वेति बाढमित्यब्रवीच्च सा
随后,欲火炽盛的那位友人召来乌尔瓦希,说道:“请使我欢悦。”她答曰:“如你所愿。”
Verse 30
गच्छंती तु ततः सूर्यलोकमिंदीवरेक्षणा । वरुणेन वृता पश्चाद्वचनं तमभाषत
随后,那位莲华眼的女子从彼处前往太阳之界;其后在伐楼那环侍之中,她对他说了这些话。
Verse 31
मित्रेणाहं वृता पूर्वं मम सूर्यः पतिः प्रभो । उवाच वरुणश्चित्तं मयि संन्यस्य गम्यताम्
从前我曾被密多罗所拣选;我的夫君是太阳主宰。伐楼那说:“将你的心意托付于我,然后离去。”
Verse 32
गतायां बाढमित्युक्त्वा मित्रः शापमदादथ । अद्यैव मानुषे लोके गच्छ सोमसुतात्मजम्
她离去之后,密多罗说道:“就这样吧。”随即降下诅咒:“就在今日,去往人间——成为苏摩之子。”
Verse 33
भजस्वेति यतो मिथ्या धर्म एष त्वया कृतः । जलकुंभे ततो वीर्यं मित्रेण वरुणेन च
“因为你宣称‘当敬拜(我)’,你所立的这‘法(dharma)’乃是虚妄。因此,密多罗与伐楼那把你的精液置入水罐之中。”
Verse 34
प्रक्षिप्तमथ संजातौ द्वावेव मुनिसत्तमौ । निमिर्नाम नृपः स्त्रीभिः पुरा द्यूतमदीव्यत
随后,由所投入之物生出两位最上等的圣仙。往昔有一位名叫尼弥的国王,常与女子掷骰赌博。
Verse 35
तदंतरेभ्याजगाम वसिष्ठो ब्रह्मसंभवः । तस्य पूजामकुर्वाणं शशाप स मुनिर्नृपम्
其间,婆悉吒——由梵天所生——来到。见国王未以应有之礼敬奉,他便以圣仙之力诅咒那位君王。
Verse 36
विदेहस्त्वं भवस्वेति शप्तस्तेनाप्यसौ मुनिः । अन्योन्यशापादुभयोर्विशरीरे तु तेजसी
“汝当成无身者(videha)。”他如是说;那位牟尼也因此被他诅咒。由于彼此相咒,二者的灵力光辉皆离于形体,成无身之势。
Verse 37
जग्मतुश्शापनाशाय ब्रह्माणं जगतः पतिम् । अथ ब्रह्मसमादेशाल्लोचनेष्ववसन्निमिः
为求解除诅咒,二人前往梵天(Brahmā)——世间之主。随后依梵天之命,尼弥(Nimi)沉入眼中而住。
Verse 38
निमेषाः स्युश्चलोकानां तद्विश्रामाय पार्थिव । वसिष्ठोप्यभवत्तस्मिञ्जलकुंभे च पूर्ववत्
“大王啊,诸世界以眨眼为片刻安息。瓦西什塔(Vasiṣṭha)亦复如前,再次于那水罐之中现起。”
Verse 39
ततो जातश्चतुर्बाहुः साक्षसूत्रकमंडलुः । अगस्त्य इति शांतात्मा बभूव ऋषिसत्तमः
于是诞生一位四臂者,佩圣线并持净水钵(kamandalu)。其心寂静,遂成诸仙之最胜,名曰阿迦斯底耶(Agastya)。
Verse 40
मलयस्यैकदेशे तु वैखानस विधानतः । सभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुष्करम्
在摩罗耶(Malaya)山的一隅,依毗迦那娑(Vaikhānasa)之仪轨,他与妻同住,周围环侍婆罗门圣贤,修行极其艰苦的苦行(tapas)。
Verse 41
ततः कालेन महता तारकादिनिपीडितम् । जगद्वीक्ष्यसकोपेन पीतवान्वरुणालयम्
此后经久时日,他见世间为塔罗迦等所逼迫,怒意炽然,遂饮尽伐楼那之居处——大海。
Verse 42
ततोस्य वरदास्सर्वे बभूवुः शंकरादयः । ब्रह्माविष्णुश्च भगवान्वरदानाय जग्मतुः
于是众神——商羯罗等——皆为他成了赐福者;而圣尊梵天与毗湿奴亦前往,为赐予恩愿而行。
Verse 43
वरं वृणीश्व भद्रं ते यश्चाभीष्टोत्र वै मुने । अगस्त्य उवाच । यावद्ब्रह्मसहस्राणां पंचविंशतिकोटयः
“当择一愿;愿吉祥归汝——此处凡汝所欲,圣仙啊。”阿迦斯底耶曰:“直至二十五俱胝之千千梵天……”
Verse 44
वैमानिको भविष्यामि दक्षिणांबरवर्त्मनि । मद्विमानोदयात्कुर्याद्यः कश्चित्पूजनं मम
我将成为行于南天之路的天界飞行者。凡在我之毗摩那显现升起之时礼拜供养我者,必得其果报。
Verse 45
स सप्तलोकाधिपतिः पर्यायेण भविष्यति । यस्त्वाश्रमं पुष्करे तु मन्नाम्ना परिकीर्तयेत्
依次第,他将成为七界之主——凡在补湿迦罗以我之名宣称或建立精舍(阿湿罗摩)者。
Verse 46
स चैव पुण्यतां यातु वर एष वृतो मया । श्राद्धं येऽत्र करिष्यंति पिंडपूर्वं तु भक्तितः
愿此事本身成为功德——这是我所选择的恩赐:凡在此地以虔敬行施罗陀(śrāddha)者,先献供团食(piṇḍa),必得其所求之灵性利益。
Verse 47
तेषां पितृगणास्सर्वे मया सह दिवि स्थिताः । एतत्कालं वसिष्यंति एष एव वरो मम
一切祖灵众(Pitṛ)都与我同住天界;他们将于此同一时限中安住——这便是我唯一的恩赐。
Verse 48
एवमस्त्विति तेप्युक्त्वा जग्मुर्देवा यथागतम् । तस्मादर्घः प्रदातव्यो ह्यगस्त्याय सदा बुधैः
诸神亦言“如是”,遂如来时一般离去而返。因此,智者应常向阿伽斯提耶(Agastya)奉献阿尔伽(argha),即恭敬的净水供献。
Verse 49
भीष्म उवाच । कथमर्घप्रदानं च कर्तव्यं तस्य वै मुनेः । विधानं यदगस्त्यस्य पूजने तद्वदस्व मे
毗湿摩(Bhīṣma)说道:“圣者啊,应当如何为那位牟尼行阿尔伽(arghya)供献?请为我宣说礼敬阿伽斯提耶(Agastya)的仪轨法则。”
Verse 50
पुलस्त्य उवाच । प्रत्यूष समये विद्वान्कुर्यादस्योदये निशि । स्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्यांबरो गृही
普罗阿斯提耶(Pulastya)说道:在黎明之时,智者应于夜中其升起之际沐浴;并以白芝麻沐浴后,居家者亦当佩白花鬘、着白衣。
Verse 51
स्थापयेदव्रणं कुंभं माल्यवस्त्रविभूषितम् । पंचरत्नसमायुक्तं घृतपात्रेणसंयुतम्
应安置一只无瑕的净水罐,以花鬘与布帛庄严,具足五宝,并配以盛酥油之器。
Verse 52
अंगुष्ठमात्रं पुरुषं तथैव सुवर्णमध्यायतबाहुदंडम् । चतुर्भुजं कुंभमुखे निधाय धान्यानि सप्ताचलसंयुतानि
同样,应塑作一尊拇指大小之“人”,中部为金,臂长而伸;将此四臂之像安置于水罐口,并置谷粒,象征七山相随。
Verse 53
सकांस्यपात्राक्षतशुक्लयुक्तं मंत्रेण दद्याद्द्विजपुंगवाय । उत्क्षिप्य कुंभोपरिदीर्घबाहुमनन्यचेता यमदिङ्मुखस्थम्
当以真言,施与上等婆罗门一只青铜器,内盛未脱壳之米与白色供品。继而举长臂于罐上,心念专一不散,面向阎摩之方——南方。
Verse 54
श्वेतां च दद्याद्यदिशक्तिरस्ति रौप्यैः खुरैर्हेममुखीं सवत्सां । धेनुं नरः क्षीरवतीं प्रणम्य स्रग्वस्त्रघंटाभराणां द्विजाय
若其力所能及,当施与一头白牛并其犊,银蹄金面,乳汁丰盈;先恭敬顶礼,再将此以花鬘、布帛与铃铛庄严之乳牛布施于婆罗门。
Verse 55
आसप्तरात्रादुदये नृपास्य दातव्यमेतत्सकलं नरेण । यावत्समास्सप्तदशाथ वा स्युरथोर्द्ध्वमप्यत्र वदंति केचित्
自日出起至七夜之间,男子当将这一切尽数奉献于王。此义务延续十七年;亦有人说,甚至更久。
Verse 56
काशपुष्पप्रतीकाश अग्निमारुतसंभव । मित्रावरुणयोः पुत्र कुंभयोने नमोस्तु ते
向你顶礼:光辉如迦沙草之花,由火与风而生;弥多罗与伐楼那之子,噢阿伽斯提耶,出自陶罐者,愿受我敬礼。
Verse 57
प्रत्यब्दं च फलत्यागमेवं कुर्वन्नसीदति । होमं कृत्वा ततः पश्चाद्वर्तयेन्मानवः फलम्
并且年年如此舍弃(行为之)果报,人便不堕于苦。先行火供(homa),其后人应受用那被允许的果实。
Verse 58
अनेनविधिना यस्तु पुमानर्घं निवेदयेत् अर्घ्य । इमं लोकमवाप्नोति रूपारोग्यफलप्रदम्
凡人依此仪轨奉献阿尔吉亚(arghya)者,即于此世获得容貌端严与远离疾病之果报。
Verse 59
द्वितीयेन भुवर्लोकं स्वर्लोकं च ततः परम् । सप्तैव लोकानाप्नोति सप्तार्घान्यः प्रयच्छति
奉献第二次阿尔吉亚(arghya),便得至布瓦尔界(Bhuvar-loka)、天界(Svarga-loka)及其更上之境;确然,奉献七次阿尔吉亚者,能达七重世界。
Verse 60
इति पठति शृणोति यो हि सम्यक्चरितमगस्त्यसमर्चनं च पश्येत् । मतिमपि च ददाति सोपि विष्णोर्भवनगतः परिपूज्यतेमरौघैः
凡能如法诵读此文、聆听此文,或正观阿伽斯提耶礼拜之事迹者——乃至仅以心领神会而随喜者——亦得往生毗湿奴之居处,并在彼处为诸天众神恭敬礼赞。
Verse 61
भीष्म उवाच । सौभाग्यारोग्यफलदममित्रक्षयकारकम् । भुक्तिमुक्तिप्रदं यच्च तन्मे ब्रूहि महामते
毗湿摩说道:大圣者啊,请告诉我那能赐予吉祥与健康之果、摧灭怨敌,并同时施与世间受用与解脱(莫克沙)之法。
Verse 62
पुलस्त्य उवाच । यदुमाया पुरा देव उवाचांधकसूदनः । कथासु संप्रवृत्तासु धर्म्यासु ललितासु च
普拉斯提亚说道:往昔,主宰——安达迦苏陀那(诛灭安达迦者)——在他们的谈论已然展开之时,对雅度玛雅开示;其话语以正法为旨,文辞亦柔美雅致。
Verse 63
तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम् । गौर्युवाच । दत्तः शापो हि सावित्र्या मह्यं लक्ष्म्यै सुरेश्वर
“如今我将宣说那能赐予世间受用与解脱之果的法门。” 乔丽(高丽)说道:“诸天之主啊,萨维特丽确已降下诅咒——加于我与拉克什米。”
Verse 64
यथा लक्ष्मीप्रधानत्वमहं यामि तथा वद । शंकर उवाच । शुणुष्वावहिता देवि तथैवान्यत्स्वयंकृतम्
“请告诉我,如何才能获得在拉克什米(福德与繁荣)中的至上地位。” 商羯罗说道:“女神啊,专心聆听;我也将如实叙述由我亲自所作的另一事。”
Verse 65
नराणामथ नारीणामाराधनमनुत्तमम् । नभस्ये वाथ वैशाखे पुण्ये मार्गशिरस्यथ
无论男子或女子,最无上的礼拜,应在纳婆西亚月(婆陀罗钵陀),或在毗舍佉月,并且也在神圣的摩伽尸罗月中修行。
Verse 66
शुक्लपक्षे तृतीयायां स्नातः स गौरसर्षपैः । गोरोचनं सगोमूत्रं गोदुग्धं च घृतं तथा
在明半月的第三日(tithi),以黄芥子沐浴之后,也当备取牛黄颜料(gorocanā),并配以牛尿、牛乳与酥油。
Verse 67
दधिचंदनसंमिश्रं ललाटे तिलकं न्यसेत् । सौभाग्यारोग्यकृद्यस्मात्सदा च ललिताप्रियम्
当以酸乳与檀香调和,点作额上圣印(tilaka);因为它赐予吉祥与健康,且恒为女神拉丽塔(Lalitā)所喜。
Verse 68
प्रतिपक्षं तृतीयायां पुमान्वापि सुवासिनी । धारयेद्रक्तवस्त्राणि कुसुमानि सितानि च
在暗半月的第三日(tithi),无论男子或已婚妇人,都应穿红衣,并佩戴(或持)白花。
Verse 69
विधवा शुक्लवस्त्रं वै त्वेकमेव हि धारयेत् । कुमारी शुक्ल सूक्ष्मे च परिदध्यात्तु वाससी
寡妇确应只穿一件白衣;而处女则应穿两件衣裳——洁白且质地细柔。
Verse 70
देवीं च पंचगव्येन ततः क्षीरेण केवलं । स्नापयेन्मधुना तद्वत्पुष्पगंधोदकेन तु
当先以五牛圣品(pañcagavya)为女神沐浴,其后唯以纯乳;同样也以蜂蜜为浴,并以花香之水为浴。
Verse 71
पूजयेच्छुक्लपुष्पैस्तु फलैर्नानाविधैरपि । धान्यलाजादिलवणगुडक्षीरघृतान्वितैः
应以白花供奉,并以种种果品供养,兼以谷物、炒米等、盐、红糖、牛乳与酥油同献,以成礼敬。
Verse 72
शुक्लाक्षततिलैरर्चा कार्या देवि सदा त्वया । पादयोरर्चनं कुर्यात्प्रतिपक्षं वरानने
女神啊,你应常以白色整粒米与芝麻行供养礼。容颜端丽者,当每半月于圣足前作礼拜供奉。
Verse 73
वरदायै नमः पादौ तथा गुल्फौ श्रियै नमः । अशोकायै नमो जंघे पार्वत्यै जानुनी तथा
于双足礼敬施愿者瓦拉达;于踝间礼敬吉祥之室利。于小腿礼敬除忧之阿首迦;于双膝亦礼敬帕尔瓦蒂。
Verse 74
ऊरू मांगल्यकारिण्यै वामदेव्यै तथा कटिम् । पद्मोदरायै जठरं नमः कंठे श्रियै नमः
礼敬双股为赐祥者;礼敬腰际为婆摩提毗;礼敬腹部为莲腹女。复礼敬咽喉为室利,具光辉与福裕。
Verse 75
करौ सौभाग्यदायिन्यै बाहू च सुमुखश्रियै । मुखं दर्पविनाशिन्यै स्मरदायै स्मितं पुनः
他供奉其双手为赐福之源;供奉其双臂以增益端颜之美;供奉其面容以摧破傲慢;又供奉其微笑以唤醒爱恋。
Verse 76
गौर्यै नमस्तथानासामुत्पलायै च लोचने । तुष्ट्यै ललाटमलकं कात्यायन्यै नमः शिरः
礼敬:以高丽(Gaurī)为鼻;以优钵罗(Utpalā)为双眼;以知足(Tuṣṭi)为额与发绺;并礼敬迦底耶耶尼(Kātyāyanī)为首。
Verse 77
नमो गोर्य्यै नमः पुष्ट्यै नमः कांत्यै नमः श्रियै । रंभायै ललितायै च वामदेव्यै नमो नमः
礼敬高丽(Gaurī),礼敬丰饶(Puṣṭi),礼敬光辉(Kānti),礼敬吉祥女神室利(Śrī)。礼敬蓝婆(Rambhā)与拉丽塔(Lalitā);再三礼敬婆摩提毗(Vāmadevī)。
Verse 78
एवं संपूज्य विधिवदग्रतः पद्ममालिखेत् । पत्रैः षोडशभिर्युक्तं क्रमेणैव सकर्णिकम्
如是依仪轨恭敬供养已,当于供处之前绘一莲华,次第具足十六瓣,并具中央莲房。
Verse 79
पूर्वेण विन्यसेद्गौरीमपर्णां च ततः परम् । भवानीं दक्षिणे तद्वद्रुद्राणीं च ततः परम्
于东方安置高丽(Gaurī),继而安置阿帕尔那(Aparṇā)。同样于南方安置婆婆尼(Bhavānī),继而安置鲁陀罗尼(Rudrāṇī)。
Verse 80
विन्यसेत्पश्चिमे भागे सौम्यां मदनवासिनीम् । वायव्ये पाटलामुग्रामुत्तरेण तथा उमाम्
于西方安置娑弥耶(Saumyā)与住于爱神者(Madanavāsinī);于西北安置钵吒罗(Pāṭalā)与乌伽罗(Ugrā);并同样于北方安置乌玛(Umā)。
Verse 81
साध्यां पथ्यां तथा सौम्यां मंगलां कुमदां सतीम् । भद्रां च मध्ये संस्थाप्य ललितां कर्णिकोपरि
将萨德雅、帕提雅、苏弥雅、曼伽罗、库摩达、萨蒂以及吉祥的婆陀罗安置于中央,又把拉利塔安立在莲花的花托中心(种杯)之上。
Verse 82
कुसुमैरक्षताद्भिर्वा नमस्कारेण विन्यसेत् । गीतमंगलघोषं च कारयित्वा सुवासिनीम्
应以花与完整的米粒(阿克沙塔)来安置供奉,或以顶礼致敬而安置;并令一位福相的已婚妇女唱诵吉祥之歌、宣告瑞兆,然后继续行仪。
Verse 83
पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः । सिंदूरं स्नानचूर्णं च तासां शिरसि पातयेत्
应以红衣、红花鬘与红色涂香来礼敬她们;并将朱砂(辛杜罗)与沐浴香粉撒置于她们的头顶。
Verse 84
सिंदूरं कुंकुमं स्नानमतीवेष्टं यतस्ततः । तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम्
以朱砂、藏红花粉(昆库玛)、仪式沐浴,以及从四方奉上的丰厚衣布等供品,也应殷勤礼敬上师——传授教法的导师。
Verse 85
न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः । जप्यैश्च पूजयेद्गौरीमुत्पलैरसितैः सदा
凡不敬奉上师之处,一切所作皆成无果。故当常以持诵(japa)并以深蓝莲花供养高丽(Gaurī)。
Verse 86
बंधुजीवैः प्रिये पूज्या कार्तिके मासि यत्नतः । जातीपुष्पैर्मार्गशिरे पौषे पीतैः कुरंटकैः
亲爱的,在迦尔提迦月应当殷勤礼敬女神,以班度吉瓦花供养;在摩伽湿罗月以茉莉(jāti)花供养;在波沙月以黄色的库兰塔卡花供养。
Verse 87
कुंदैः कुमुदपुष्पैश्च देवीं माघेपि पूजयेत् । सिंदुवारेण जात्या वा फाल्गुनेप्यर्चयेन्नरः
在摩伽月,应以昆达花与库穆达花礼敬天女(Devī);在颇伽那月,行者亦当以辛度瓦罗(vitex)或以茉莉(jāti)花供奉礼拜。
Verse 88
चैत्रे तु मल्लिकाशोकैर्वैशाखे गंधपाटलैः । ज्येष्ठे कमलमंदारैराषाढे च जलांबुजैः
在制多罗月,以茉莉(mallikā)与阿输迦花供养礼拜;在毗舍佉月,以芬芳的波吒罗花供养;在阇耶湿吒月,以莲花与曼陀罗花供养;在阿沙荼月,以水生莲华供养。
Verse 89
मंदारैरथ मालत्या श्रावणे पूजयेत्सदा । गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्
在室罗伐那月,应常以曼陀罗花与摩罗底花行礼拜;并以牛尿、牛粪、乳、酪(dahi)、酥油与以库沙草净化的圣水作为清净供品。
Verse 90
बिल्वपत्रार्ककुसुमांबुज गोशृंगवारि च । पंचगव्यं च बिल्वं च प्राशयेत्क्रमशः सदा
应当常依次令其受用:毕尔瓦叶、阿尔迦花、莲华、由牛角倾注之水、五牛圣物(pañcagavya),以及毕尔瓦(果或制品)以供食用。
Verse 91
एतद्भाद्रपदादौ तु प्राशनं समुदाहृतम् । प्रतिपक्षं च मिथुनं तृतीयायां वरानने
此所规定的初食礼(prāśana)宣说应在婆陀罗钵陀月(Bhādrapada)之初举行。又,容颜姝丽者,于相对的半月期中,应在第三月日(tṛtīyā)为一对夫妇行此仪轨。
Verse 92
भोजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः । पुंसः पीतांबरे दद्यात्स्त्रियाः कौशेयवाससी
供养其食毕,当以虔敬礼拜,奉献衣服、花鬘与涂香。男子当施黄衣;女子当施绢丝之服。
Verse 93
निष्पाव जीरलवणमिक्षुदंड गुडान्वितम् । स्त्रियै दद्यात्फलं पुंसः सुवर्णोत्पलसंयुतम्
当施与女子以礼物:尼湿婆瓦豆(niṣpāva)、孜然、盐、甘蔗茎与粗糖(jaggery)相和。施与男子者,当以果品并配以金莲花。
Verse 94
यथा न देवि देवस्त्वां संपरित्यज्य गच्छति । तथा मामुद्धराशेष दुःखसंसारसागरात्
女神啊,正如主宰不舍弃你而离去,愿你亦如是将我彻底救拔,脱离这充满忧苦的轮回大海。
Verse 95
कुमुदा विमला नंदा भवानी वसुधा शिवा । ललिता कमला गौरी सती रम्भाथ पार्वती
“(她名为)库穆达(Kumudā)、毗摩罗(Vimalā)、难陀(Nandā)、婆伐尼(Bhavānī)、婆苏陀(Vasudhā)、湿婆(Śivā);又名拉利塔(Lalitā)、迦摩罗(Kamalā)、高丽(Gaurī)、萨蒂(Satī)、兰婆(Rambhā)与帕尔瓦蒂(Pārvatī)。”
Verse 96
नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत् । व्रतांते शयनं दद्यात्सुवर्णकमलान्वितम्
在以那婆娑(Nabhas,即婆陀罗钵陀月)为始的诸月中,应诵曰:“愿主欢喜。”于誓愿圆满之时,当布施一张饰以金莲的卧榻。
Verse 97
मिथुनानि चतुर्विशद्द्वादशाथ समर्चयेत् । अष्टावष्टाथवा भूयश्चतुर्मासेथ वार्चयेत्
应如法礼敬成对的神圣形相:或二十四对,或十二对;或复八对;或于四月安居之期(Cāturmāsya)中礼拜供养。
Verse 98
पूर्वं दत्वाथ गुरवे पश्चादन्यान्समर्चयेत् । उक्तानन्ततृतीयैषा सदानंतफलप्रदा
先将供施奉献于师长(guru),随后再礼敬他人。此即所宣说的“无尽第三日”(Ananta-tṛtīyā)之行法,恒常赐予无尽之果报。
Verse 99
सर्वपापहरा देवी सौभाग्यारोग्यवर्धिनी । न चैनं वित्तशाठ्येन कदाचिदपि लंघयेत्
女神能除尽一切罪垢,增长福德与安康。因此,任何时候都不可因财物之欺诈而违越此行。
Verse 100
नरो वा यदि वा नारी सोपवासव्रतं चरेत् । गर्भिणी सूतिका नक्तं कुमारी वाथ रोगिणी
无论男子或女子,皆应行持伴随斋戒之誓愿。然孕妇、产后妇、处女或病者,应以夜间方食(夜食)来奉行此愿。
Verse 101
यदाऽशुद्धा तदान्येन कारयेत्प्रयता स्वयम् । इमामनंतफलदां यस्तृतीयां समाचरेत्
若彼时她不净,则当自持戒律,令他人代为行之。凡如法修持此第三誓愿者,此誓愿赐予无尽果报,必得其福。
Verse 102
कल्पकोटिशतं साग्रं शिवलोके महीयते । वित्तहीनोपि कुर्वीत यावद्वर्षमुपोषणम्
经百亿劫乃至更久,彼在湿婆之界受尊崇。纵使贫乏无财,亦当发心持斋,长达一年。
Verse 103
पुष्पमंत्रविधाने सोपि तत्फलमाप्नुयात् । नारी वा कुरुते या तु आत्मनः शुभमिच्छती
即便是他,依照花曼陀罗之仪轨行持,亦得同等果报。同样,凡女子为求自身吉祥而修行者,也必获得此利益。
Verse 104
जन्मपौरुषमाप्नोति गौर्यनुग्रहकारितम् । इति पठति शृणोति वा य इत्थं गिरितनयाव्रतमिंद्रलोकसंस्थः
他得尊贵之生与真正的丈夫之德,皆由高丽女神之恩所成。故凡诵读此文,或仅闻其声者——此山女之誓愿——皆得住于因陀罗之界。
Verse 105
मतिमपि च ददाति योपि देवैरमरवधूजनकिन्नरैः स पूज्यः । अन्यामपि प्रवक्ष्यामि तृतीयां पापनाशिनीम्
即便是能施与明智劝诫之人,也堪受诸天、天女与紧那罗众的礼敬。如今我亦将宣说另一种——第三法门——能灭除罪业。
Verse 106
रसकल्याणिनीमेतां पुराकल्पभवा विदुः । माघेमासि तु संप्राप्य तृतीयां शुक्लपक्षतः
人们知此名为“Rasakalyāṇinī”的圣行极其古老,源自前一劫。应于摩伽月(Māgha)白半月(śukla-pakṣa)第三日(tṛtīyā)奉行。
Verse 107
प्रातर्गंधेन पयसा तिलैः स्नानं समाचरेत् । स्नापयेन्मधुना देवीं तथैवेक्षुरसेन तु
清晨应如法以香料、牛乳与芝麻行沐浴。并当以蜂蜜为女神沐浴,亦以甘蔗汁同样沐浴。
Verse 108
गंधोदकेन च पुनः पूजनं कुंकुमेन तु । दक्षिणांगानि संपूज्य ततो वामानि पूजयेत्
复以香水与朱红(kunkuma,藏红花粉)行供奉。先如法礼敬右侧诸肢,然后再礼敬左侧诸肢。
Verse 109
ललितायै पदं देव्यै वामगुल्फौ ततोर्चयेत् । जंघे जानु तथा शांत्यै तथैवोरुं श्रियै नमः
当为拉利塔(Lalitā)礼敬女神之足;继而礼敬其左踝。(再者)为寂静安宁之神格Śānti礼敬其小腿与膝;并同样向其大腿致敬,以奉Śrī(吉祥与富饶)。
Verse 110
मदालसायै च कटिममलायै तथोदरम् । स्तनौ मदनवासिन्यै कुमुदायै च कंधराम्
将腰奉献于Madālasā;将腹奉献于Amalā。将双乳奉献于Madanavāsinī;将颈奉献于Kumudā。
Verse 111
भुजं भुजाग्रं माधव्यै कमलायै सुखस्मिते । भ्रूललाटं च रुद्राण्यै शंकरायै तथालकं
他将臂与前臂分配给摩达毗与迦摩罗(吉祥天女拉克希米);将温柔的微笑赐予苏迦斯弥多;将眉与额归于鲁陀罗尼(帕尔瓦蒂);并同样将发绺归于商羯罗。
Verse 112
मदनायै ललाटं तु मोहनायै पुनर्भ्रुवौ । नेत्रे चंद्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः
他将额头分配给摩达那;又将眉分配给摩诃那;将双眼归于佩戴半月的女神;并再次将面容归于图什提。
Verse 113
उत्कंठिन्यै नमः कंठममृतायै नमस्तनुम् । रंभायै च महाबाहू विशोकायै नमः करौ
礼敬乌特迦ṇ提尼——愿我之咽喉奉献于汝;礼敬阿蜜尔塔——愿我之身奉献于汝;又礼敬兰婆——愿我两臂雄健奉献于汝;礼敬毗绍迦——愿我双手奉献于汝。
Verse 114
हृदयं मन्मथाह्वायै पाटलायै तथोदरं । कटिं सुरतवासिन्यै तथोरू पंकजश्रियै
将心奉献于曼摩他阿呼婆;将腹亦奉献于帕塔拉;将腰奉献于苏罗多婆悉尼;将大腿奉献于莲华吉祥(Paṅkajaśrī)。
Verse 115
जानुजंघे नमो गौर्यै गुल्फौ शांत्यै तथार्चयेत् । धराधरायै पादौ तु विश्वकायै नमः शिरः
当以礼拜归敬高丽(Gaurī),供养其膝与胫;亦当以礼拜归敬寂静女神(Śānti),供养其踝。双足当尊为持地者(Dharādharā),并以俯首礼敬毗湿伐迦耶(Viśvakāyā)。
Verse 116
नमो भवान्यै कामिन्यै वासुदेव्यै जगच्छ्रियै । आनंददायै नंदायै सुभद्रायै नमोनमः
礼敬婆伐尼;礼敬可爱者;礼敬婆苏提毗,世间之光辉;礼敬赐喜乐者;礼敬难陀;礼敬苏跋陀罗——再三顶礼。
Verse 117
एवं संपूज्य विधिवद्द्विजदांपत्यमर्चयेत् । भोजयित्त्वा तथान्नेन मधुरेण विमत्सरः
如是依法恭敬供养之后,当依正仪礼礼拜婆罗门夫妇;并当离嫉妒,以甘美之食供其饱足。
Verse 118
समोदकं वारिकुंभं शुक्लांबरयुगद्वयं । दत्त्वा सुवर्णकमलं गंधमाल्यैरथार्चयेत्
先供奉满盛清水之水罐、一对洁白衣裳与金莲花;随后以香料与花鬘而礼拜供养。
Verse 119
प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम् । अनेन विधिना देवीं मासिमासि सदार्चयेत्
愿此处女神俱牟陀欢喜;行者当受持“盐戒”之誓。依此法门,应当月月不辍礼拜女神。
Verse 120
लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः । नवनीतं तथा चैत्रे वर्ज्यं मधु च माधवे
于摩伽月当避盐;于颇伽那月当避粗糖(jaggery)。同样,于制多罗月当避黄油;于摩陀婆月(毗舍迦)当避蜂蜜。
Verse 121
पानीयं ज्येष्ठमासे तु तथाषाढे च जीरकं । श्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा
在耶耆ṣṭha月应多饮清水;在阿ṣāḍha月宜取孜然。到室罗伐那月当避乳;同样在婆陀罗钵陀月当避酸乳。
Verse 122
घृतमाश्वयुजे तद्वदूर्जे वर्ज्यं च माक्षिकं । धान्याकं मार्गशीर्षे तु पौषे वर्ज्या च शर्करा
在阿湿伐瑜阇月当避酥油;同样在乌尔阇(迦尔提迦)月当避蜂蜜。在摩伽室尔沙月当避“达尼亚迦”(谷物制品);在波乌沙月当避糖。
Verse 123
व्रतांते करकं पूर्णमेतेषां मासिमासि च । दद्याद्विकालवेलायां भक्ष्यपात्रेण संयुतं
在誓愿圆满之时——并且就这些行持每月亦如是——应于适当的仪轨时刻,布施一满水罐(karaka),并连同盛有食供之器一并奉施。
Verse 124
लड्डुकास्सेवकाश्चैव संयावमथ पूरिका । नारिका घृतपूर्णाश्च पिष्टपूर्णा च नंदिकी
拉杜(laddū)与塞瓦迦(sevaka),以及桑亚瓦(saṃyāva)与普里迦(pūrikā);椰香甜点(nārikā)、酥油馅点心、面粉馅糕点,并有南迪吉(nandikī)——(皆为所供所备)。
Verse 125
क्षीरशाकं च दध्यन्नं पिंडशाकं तथैव च । माघादौ क्रमशो दद्यादेतानि करकोपरि
自摩伽月起,应依次奉献:乳煮青蔬、酸乳拌饭,以及团丸状的蔬菜制品;并将这些供品安置于小水罐(karaka)之上。
Verse 126
कुमुदा माधवी रंभा सुभद्रा च शिवा जया । ललिता कमलानंगा मंगला रति लालसा
有库穆达、玛达维、兰芭、苏跋陀罗,以及湿婆女神与阇耶;又有拉利塔、卡玛拉、阿难伽、曼伽拉、罗底与拉拉萨。
Verse 127
क्रमान्माघादिमासेषु प्रीयतामिति कीर्तयेत् । सर्वत्र पंचगव्यं च प्राशनं समुदाहृतं
依次在从摩伽月开始的诸月中,应诵念:“愿主欢喜。”并且在一切情形下,也规定服用 pañcagavya(五牛圣品)。
Verse 128
उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते । कुर्यादेवमिदं नारी रसकल्याणिनी व्रतं
她应当日日持斋;若力不能及,则允许夜食(仅在夜间进食)。如此,女子应奉行名为“Rasakalyāṇinī”的誓戒。
Verse 129
पुनर्माघे च संप्राप्ते शर्करा कलशोपरि । कृत्वा तु कांचनीं गौरीं पंचरत्नसमन्वितां
当摩伽月再度来临时,应在盛满糖的罐上,塑作金色的高丽女神像,并以五种宝石庄严。
Verse 130
स्वकीयांगुष्ठमात्रं च साक्षसूत्रकमंडलुं । चतुर्भुजामिंदुयुतां सितनेत्रपटावृतां
她显现时不过如自身拇指般大小,手持念珠与净水瓶(kamandalu);四臂,月华般明净,洁白的双眼以帛遮覆。
Verse 131
तद्वद्गोमिथुनं चैव सुवर्णस्य सितांबरं । सवस्त्रं भाजनं दद्याद्भवानी प्रीयतामिति
同样,也应布施一对母牛,并供奉缀以黄金的白衣;又施与器皿并配以布帛,口诵:“愿薄伐尼(Bhavānī)欢喜。”
Verse 132
अनेनविधिना यस्तु रसकल्याणिनीव्रतं । कुर्याच्च सर्वपापेभ्यस्तत्क्षणादेव मुच्यते
凡依此仪轨修行“罗娑迦利亚尼尼”(Rasakalyāṇinī)誓愿者,当下即刻解脱一切罪业。
Verse 133
भवानां च सहस्रं तु न दुःखी जायते क्वचित् । अग्निष्टोमसहस्रेण यत्फलं तदवाप्नुयात्
即便你们之中有一千人,也永不在任何时候陷于忧苦;并将获得与举行一千次阿耆尼湿多摩(Agniṣṭoma)祭同等的功德。
Verse 134
नारी वा कुरुते या तु कुमारी वा वरानने । विधवा च वराकी वा सापि तत्फलभागिनी
噢,容颜姣好者:无论是妇人行此,或是处女,乃至寡居而不幸的女子——她亦同得此果报功德。
Verse 135
सौभाग्यारोग्यसंपन्ना गौरीलोके महीयते । इति पठति य इत्थं यः शृणोति प्रसंगात् । सकलकलुषमुक्तः पार्वतीलोकमेति
具足福运与安康者,将在高丽(Gaurī)之界受尊崇。凡如是诵读者,及偶然听闻者,皆离一切垢染,得至帕尔瓦蒂(Pārvatī)之世。
Verse 136
मतिमपि च विधत्ते यो नराणां प्रियार्थं । विबुधपतिजनानां लोकगः स्यादमोघः । तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम्
凡亦为众人所爱之事而施以明智劝诫者——此人行于天神之主之信众诸界,功德不虚不败。如此,我今当宣说另一法:第三种(修持/教诲),能灭诸罪。
Verse 137
नाम्ना च लोकविख्यातामग्र्यानंदकरीमिमां । यदा शुक्लतृतीयायामषाढर्क्षं भवेत्क्वचित्
此一戒行,以其名闻于世,最能赐喜;凡在白分第三日(第三tithi)之时,若某刻适逢阿沙陀(Āṣāḍhā)宿出现——即当修行此法。
Verse 138
ब्रह्मर्क्षं वाथ च मघा हस्तो मूलमथापि वा । दर्भगंधोदकैः स्नानं तदा सम्यक्समाचरेत्
当(月)在梵宿(Brahmārkṣa),或摩伽(Maghā),或诃斯多(Hasta),乃至牟罗(Mūla)之时,应当如法以达婆草(darbha)熏香之水沐浴。
Verse 139
शुक्लमाल्यांबरधरः शुक्लगंधानुलेपनः । भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगंधिभिः
佩白花鬘、着白衣,并以白香涂身者,当以虔敬之心,用芬芳白花礼拜供养婆伐尼(Bhavānī)。
Verse 140
महादेवं च सकलमुपविष्टं महासने । वासुदेव्यै नमः पादौ शंकरायै नमो हरेः
又(她见到)大天(Mahādeva)——威光圆满——端坐于大宝座之上。(遂致敬曰:)“礼敬婆苏提毗(Vāsudevī);礼敬圣足;礼敬商羯罗(Śaṅkarā);礼敬诃利(Hari)。”
Verse 141
जंघेशोकविनाशिन्यै मानदायै नमः प्रभोः । रंभायै पूजयेदूरू शिवाय च पिनाकिने
当礼拜双腿之股为罗婆(Rambhā),亦当供奉执持毗那迦弓的湿婆。并当向主顶礼,称其为摩那达(Mānadā),能灭除双腿之忧苦者。
Verse 142
आनंदिन्यै कटिं देव्याः शूलिनश्शूलपाणये । माधव्यै च तथा नाभिमथ शंभोर्भवाय वै
赐女神之腰于阿难陀尼(Ānandini);赐三叉戟于执戟者湿婆。又赐肚脐于摩达毗(Mādhavī)——实为赐予婆伐(Bhava)、商部(Śambhu)之湿婆。
Verse 143
स्तनौ चानंदकारिण्यै शंकरस्येंदुधारिणे । उत्कंठिन्यै नमः कंठं नीलकंठाय वै हरेः
敬礼于赐喜乐之乳房,亦敬礼于佩月之商羯罗(Śaṅkara)。敬礼于思慕渴望者;并敬礼于咽喉——敬礼于青颈者尼罗迦ṇṭha,实为主宰哈罗(Hara)。
Verse 144
करावुत्पलधारिण्यै रुद्राय जगतः प्रभो । बाहू च परिरंभिण्यै नृत्यप्रीताय वै हरेः
噢宇宙之主鲁陀罗:敬礼于手持莲华者;敬礼于以双臂深情环抱者;亦敬礼于喜悦于哈利(Hari)之舞者的主。
Verse 145
देव्या मुखं विलासिन्यै वृषभाय पुनर्विभोः । स्मितं च स्मरणीयायै विश्ववक्त्राय वै विभोः
女神之面容赐予那位嬉游者;复次,噢主啊,公牛赐予大能者。其令人追忆之微笑赐予值得忆念者;而实然,噢主啊,宇宙之面容赐予遍在之主。
Verse 146
नेत्रे मंदारवासिन्यै विश्वधाम्ने त्रिशूलिनः । भ्रुवौ नृत्यप्रियायै च शंभोर्वै पाशशूलिने
双眼奉献给居于曼陀罗(Mandāra)之圣母;亦奉献给执三叉戟、为宇宙之所依的主。双眉奉献给喜舞者——实为奉献给持绳索与长矛的商婆(Śambhu)。
Verse 147
देव्या ललाटमिंद्राण्यै वृषवाहाय वै विभोः । स्वाहायै मकुटं देव्या विभो गंगाधराय वै
女神额上的圣印(tilaka)奉与因陀罗尼(Indrāṇī);亦奉与那乘牛之大能主。女神之冠奉与娑婆诃(Svāhā);亦同样奉与大能的恒河持者(Gaṅgādhara)。
Verse 148
विश्वकायौ विश्वभुजौ विश्वपादमुखौ शिवौ । प्रसन्नवरदौ वंदे पार्वतीपरमेश्वरौ
我礼敬帕尔瓦蒂与至上自在天(Parameśvara)——吉祥的湿婆:其身即宇宙,其臂即宇宙,其足与其面亦皆宇宙;慈悦而施赐,赐予诸愿。
Verse 149
एवं संपूज्य विधिवदग्रतः शिवयोः पुनः । पद्मोत्पलानि रजसा नानावर्णेन कारयेत्
如是依法圆满礼拜之后,再于湿婆与(帕尔瓦蒂)之前,当以多色彩粉塑作莲华与优钵罗(utpala,睡莲)之供养。
Verse 150
शंखचक्रे सकटके स्वस्तिकं शुभकारकम् । यावंतः पांसवस्तत्र रजसः पतिता भुवि
在绘有海螺与法轮(śaṅkha、cakra)之车上,有吉祥而增福的卍(svastika)。凡其处落于大地之尘粒有多少——
Verse 151
तावद्वर्षसहस्राणि शिवलोके महीयते । चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः
如是经无数千年,此人于湿婆之界受尊崇。应随力供奉四器酥油,并以黄金相伴。
Verse 152
दत्वा द्विजाय करकमुदकेन समन्वितम् । प्रतिपक्षं चतुर्मासं यावदेतान्निवेदयेत्
先施与婆罗门一只盛满清水的水罐,随后应依教令,于四个月期内每半月持续奉献这些供品。
Verse 153
ततस्तु चतुरो मासान्पूर्ववत्करकोपरि । चत्वारि घृतपात्राणि तिलपात्राण्यंनंतरं
其后四个月,仍如先前,在置于水罐之上的仪器上安放四钵酥油,继而再置芝麻之钵。
Verse 154
गंधोदकं पुष्पवारि चंदनं कुङ्कुमोदकं । अपक्वं दधिदुग्धं च गोशृंगोदकमेव च
当用香水、花水、檀香水与藏红花水;亦用未熟之鲜凝乳与乳汁,并同用取自牛角之水。
Verse 155
अब्दोदकं तथा वारिकुष्ठचूर्णान्वितं पुनः । उशीरसलिलं चैव यवचूर्णोदकं पुनः
亦当用雨水;并再用浸润芳香之水:和入库湿陀(kuṣṭha)粉之水;亦用以乌施罗(uśīra)熏香之水;复用和入大麦粉之水。
Verse 156
तिलोदकं च संप्राश्यस्वपेन्मार्गशिरादिषु । मासेषु पक्षद्वितयं प्राशनं समुदाहृतम्
饮用掺芝麻之水(tilodaka)后,应在从摩伽施罗沙(Mārgaśīrṣa)起的诸月安寝;于这些月份中,规定在两个半月期内饮用此水。
Verse 157
सर्वत्रशुक्लपुष्पाणिप्रशस्तानिसदार्चने । दानकाले च सर्वत्र मंत्रमेतमुदीरयेत्
在一切处所,白花最宜用于日常礼拜而受称赞;并且在布施之时,也应在各处诵念此咒。
Verse 158
गौरी मे प्रीयतां नित्यमघनाशाय मंगला । सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये
愿高丽(Gaurī)恒常悦纳于我;愿吉祥者摩伽罗(Maṅgalā)灭除我罪。愿拉利塔(Lalitā)赐我福运;愿婆伐尼(Bhavānī)成就一切悉地。
Verse 159
संवत्सरांते लवणं गुडकुंकुमसंयुतम् । चंदनेनयुतं कुंभं सहस्वर्णांबुजेन च
于岁终之时,应供献与糖块(jaggery)与藏红花相和之盐;并供一水罐,以檀香调制,且同献一朵金莲。
Verse 160
उमायाः प्रीतये हैमं तद्विदिक्षुफलैर्युतम् । सास्तरावरणां शय्यां सविश्रामां निवेदयेत्
为令乌玛(Umā)欢喜,应奉献一张金榻,配以该地之果品与甘蔗,具足床褥与帷覆,安置为安憩之所。
Verse 161
सपत्नीकाय विप्राय गौरी मे प्रीयतामिति । आत्मानंदकरीं नाम प्राप्नुयात्संपदं नरः
若有人携妻向婆罗门布施,并说道:“愿高丽(Gaurī)欢喜于我”,便能获得名为“阿特曼安达迦丽”(Ātmānandakarī,赐内在喜乐者)的福泽与昌盛。
Verse 162
आयुरानंदसंपन्नो न क्वचिच्छोकमाप्नुयात् । नारी वा कुरुते या तु कुमारी विधवा तथा
具足长寿与喜乐者,永不堕入忧悲。凡行此法的女子亦然——无论未嫁的处女,或守寡的寡妇。
Verse 163
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता । प्रतिपक्षमुपोष्यैवं मंत्रार्चनविधानतः
她亦得同样之果,蒙女神恩泽所眷爱;如是于每半月斋戒之日守斋,并依仪轨奉行真言供奉。
Verse 164
रुद्राणां लोकमाप्नोति पुनरावृत्तिदुर्लभम् । इमां यः शृणुयान्नित्यं श्रावयेद्वापि भक्तितः
凡日日聆听此事,或以虔敬令他人诵读者,得至诸鲁陀罗之界——从彼处再回返轮回,实为难得。
Verse 165
शक्रलोकं स गत्वा तु पूज्यते कल्पसंस्थितः । शंकर उवाच । एवंविधा भवति चेन्नारी व्रतपरायणा
既往释迦罗(因陀罗)之天界,便在彼处受敬奉,历一整劫。商羯罗言:若有女子如此——坚固守持、专心于誓戒——其果报亦复如是。
Verse 166
सावित्री तु वराकी सा तस्याः शापस्तु कीदृशः । न काचिद्गणना चास्ति यतस्त्रैलोक्यसुंदरी
然而萨维特丽——可怜的女子——她究竟发出了怎样的诅咒?此咒不可衡量,因为她正是三界之美的化身。
Verse 167
सा पूर्वस्यापि वन्द्या च लक्ष्मीर्विष्णुप्रतिग्रहात् । मया पूर्वं तवार्थाय दक्षयज्ञस्तु नाशितः
她即使在往昔之世亦当受敬,因为拉克什米因被毗湿奴所纳受而成其尊贵。先前为你之故,我确已毁灭达克沙的祭祀。
Verse 168
लक्ष्म्यर्थं विष्णुना चापि वारिधिर्मथितः पुरा । आज्ञाकरौ भवत्योश्च मा कुरुष्व भयं क्वचित्
往昔,为了拉克什米,毗湿奴亦曾搅动大海。你们二人当顺从祂的命令——切莫在任何时候生惧。
Verse 169
सावित्र्या मानना कार्या कुपितायाः प्रसादनम् । मया च विष्णुना चैव ब्रह्मणा मानमीप्सुना
当以应有之敬礼奉于萨维特丽;若她嗔怒,当设法安抚——由我、由毗湿奴,亦由求取尊荣的梵天共同为之。
Verse 170
गमिष्ये ब्रह्मसदनं त्वं च तिष्ठ वरानने । एवमुक्त्वा गतो रुद्रो गौरी तत्र व्यवस्थिता
“我将前往梵天之居;你且留在此处,丽颜者。”言毕,鲁陀罗离去,而高丽便安住于彼。
Verse 171
कृतं युगं समग्रं च यज्ञे तस्मिन्हुताशनः । वहंस्तु हव्यं देवानां प्रीणयानो जगत्त्रयम्
在那场祭祀中,火神护塔沙那(阿耆尼)将供献之物奉送诸天,使三界欢悦;圆满的克利多时代(Kṛta Yuga)遂得昌盛。
Verse 172
भोजनं द्विजमुख्येषु भोगान्विद्याधरे गणे । कामावाप्तिं मनुष्येषु सर्वमेव ददौ प्रभुः
主赐予最尊贵的二生者以饮食,赐予毗陀耶陀罗众以享乐,又赐予人类以所愿圆满——诚然,祂施与一切。
Verse 173
रुद्रेणोक्तस्तदा विष्णुर्धर्मांस्ते त्वं प्रकीर्त्तय । गौरीधर्मान्सरस्वत्या व्रतं यत्परिकीर्तितम्
其时,毗湿奴受鲁陀罗所言,答曰:“当宣说那些法——即高丽女神之仪轨,以及已述及的萨拉斯瓦蒂之誓愿。”
Verse 174
इत्येवमुक्ते रुद्रेण विष्णुः प्रोवाच सादरम् । नाहं धर्मं ख्यापयिष्ये स्वकीयं शंकराधुना
鲁陀罗如是言毕,毗湿奴恭敬答道:“如今,哦商羯罗,我不将宣说我自身之法。”
Verse 175
भवानाख्यातु माहात्म्यं मदीयं सुरसत्तम । त्वया वै कथितं पूर्वं कृते वै पापसंक्षयः
哦诸天之最胜者,请宣说我之神圣伟大。诚然,你先前已曾讲述;而如是宣说,必能灭除罪垢。
Verse 176
भविष्यति न संदेहो भवान्पूतो भविष्यति । भीष्म उवाच । मधुरा गीर्भवेत्केन व्रतेन मुनिसत्तम
“必将如此——毫无疑问:你将得以清净。”毗湿摩说道:“最胜牟尼啊,凭何种誓戒使言语变得甘美?”
Verse 177
तथैव जनसौभाग्यं मतिर्विद्यासु कौशलम् । अभेदश्चापि दांपत्ये संगो बंधुजनेन च
同样地,能得众人爱戴,心智敏锐,学业精进,夫妻和合,并与亲族亲近相依。
Verse 178
आयुश्च विपुलं पुंसां तन्मे कथय सत्तम । पुलस्त्य उवाच । सम्यक्पृष्टं त्वया राजन्शृणु सारस्वतं व्रतम्
“请告诉我,至善之人啊,众生以何法得长寿。”普罗罗斯提耶说道:“王啊,你问得好。且听萨拉斯瓦塔誓戒。”
Verse 179
यस्य संकीर्तनादेव देवी तुष्येत्सरस्वती । यावद्भक्तः स्तवं कुर्यादेतद्व्रतमनुत्तमम्
仅凭虔诚称诵,女神萨拉斯瓦蒂便心生欢喜;只要信徒持续诵读赞歌,此誓戒便被视为无上。
Verse 180
प्राग्वासरादौ संपूज्य दिव्यं स्तवं समारभेत् । अथवा रविवारेण ग्रहताराबलेन च
应在清晨先行礼拜供奉,然后开始诵读神圣赞歌;或也可择星期日,依诸行星与星宿之吉力而行。
Verse 181
पायसं भोजयेद्विप्रान्कुर्याद्ब्राह्मणवाचनम् । शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः
应以甜乳饭(pāyasa)供养婆罗门,请婆罗门诵读圣典,并依自身能力布施白衣及黄金。
Verse 182
गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः । यथा न देवि भगवान्ब्रह्मा लोकपितामहः
应以虔敬礼拜伽耶特丽(Gāyatrī),供奉白色花鬘与白色涂香——正如,女神啊,吉祥的梵天(Brahmā),诸世之祖父与父者,所行一般。
Verse 183
त्वां परित्यज्य तिष्ठेच्च तथा भव वरप्रदा । वेदशास्त्राणि धर्माणि नृत्यगीतादिकं च यत्
若有人舍离于你而仍能安住不动,则愿你成为赐福者。诸《吠陀》、诸《论典》(śāstra)、一切法义之行,以及舞蹈、歌咏等诸艺——愿皆得成就与圆满。
Verse 184
न विहीनं त्वया देवि तथा मे संतु सिद्धयः । लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिर्जया मतिः
女神啊,愿我永不离你而缺失;愿我的诸成就圆满无缺——赐我富足、慧智、坚固的依持、滋养、吉祥之恩、满足、胜利与正见。
Verse 185
एताभिः पाहि चाष्टाभिमूर्तिभिर्मां सरस्वति । एवं संपूज्य गायत्रीं वीणाकमलधारिणीम्
萨拉斯瓦蒂(Sarasvatī)啊,愿你以自身八种形相护佑我。如此如法供奉伽耶特丽——执持维那琴与莲华者——(当依仪轨而行)。
Verse 186
शुक्लपुष्पाक्षतैर्भक्त्या सकमंडलु पुस्तकाम् । मौनव्रतेन भुंजीत सायंप्रातश्च धर्मवित्
通达法(dharma)者应以虔敬供奉白花与不碎米(akṣata),并陈设净水壶(kamandalu)与圣典;守持默誓,于晨与暮各进食一次。
Verse 187
पंचम्यां प्रतिपक्षं च गां च विप्राय शोभनाम् । तथैव तंडुलप्रस्थं घृतपात्रेण संयुतम्
于第五月日(Pañcamī),亦当施与贤善婆罗门一头端美之牛,并同施一普拉斯塔(prastha)之米,兼以酥油(ghee)之器。
Verse 188
क्षीरं दद्याद्धिरण्यं च गायत्री प्रीयतामिति । संध्यायां च तथा मौनमेतत्कुर्वन्समाचरेत्
当施乳与金,并祈曰:“愿伽耶特丽(Gāyatrī)欢喜。”于三昧耶(sandhyā,晨昏礼拜)之时亦当守默;如是修行,方为如法而行。
Verse 189
न रात्र्यां भोजनं कुर्याद्यावन्मासास्त्रयोदश । समाप्ते तु व्रते दद्याद्भोजनं शुक्लतंडुलैः
凡十三个月,不可夜食。誓愿圆满之时,当以白米所制之食供施。
Verse 190
दिव्यां वितानं घंटां च सितनेत्रपटान्विताम् । चंदनं वस्त्रयुग्मं च दध्यन्नं सुरसं पुनः
又当施以华美宝盖与铃铎,并饰以白色帷幕;复以檀香、成对衣服,以及滋味殊胜之酸乳饭(curd-rice)。
Verse 191
अथोपदेष्टारमपि भक्त्या संपूजयेद्गुरुम् । वित्तशाठ्येनरहितो वस्त्रमाल्यानुलेपनैः
随后,应以虔敬恭敬供养授教之师——于财物不欺不诈——奉上衣服、花鬘与芬芳涂香。
Verse 192
अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम् । सौभाग्यमतियुक्तस्तु सूक्ष्मकंठश्च जायते
凡依此仪轨修行萨拉斯瓦塔誓愿者,必具吉祥福运与敏锐智慧,并得生而音声清雅悦耳。
Verse 193
सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते । नारी वा कुरुते या तु सापि तत्फलभागिनी
蒙萨拉斯瓦蒂女神之恩,行者在梵天界(Brahmaloka)受尊崇;若由女子修行,她亦同得此果报功德。
Verse 194
ब्रह्मलोके वसेद्राजन्यावत्कल्पायुत त्रयम् । सारस्वतं व्रतं यस्तु शृणुयादपि वा पठेत्
大王啊,凡聆听——乃至诵读——萨拉斯瓦塔誓愿之事迹者,将于梵天之界居住三万(成群)劫之久。