Adhyaya 13
Srishti KhandaAdhyaya 13413 Verses

Adhyaya 13

Kroṣṭu–Yādava Lineages, the Syamantaka Jewel, Krishna’s Birth Context, and the Māyāmoha Account

第十三章为一组复合的《往世书》叙述:先确立自克罗什图(Kroṣṭu)而下的世系,终至萨特瓦塔/弗利什尼(Sātvata/Vṛṣṇi)—安达迦(Andhaka)—夜陀婆(Yādava)诸族,并反复申明王权正统系于祭祀(yajña)、布施(dāna)与护持婆罗门。谱系之中,以奉行仪轨与慷慨施与彰显君王的清净功德。 继而嵌入“善曼塔迦宝”(Syamantaka)故事群:普拉塞那(Prasena)、萨特拉吉特(Satrājit)、阎婆梵(Jāmbavān)与戈文达/克里希纳(Govinda/Kṛṣṇa),强调克里希纳洗雪嫌疑、守持法(dharma)与自制不逾。随后章义扩展至化身神学:毗湿奴为何示生人间,以婆利古(Bhṛgu)之诅咒与天神、阿修罗之宇宙争战为背景。 末段“迷惑者摩耶摩诃”(Māyāmoha)说明:迷惑性的教说乃出于神圣权宜,用以解除达提耶(Daitya)之势;宗派偏离亦被置于哈利(Hari)摄持的天意与护佑之中。

Shlokas

Verse 1

पुलस्त्य उवाच । क्रोष्टोः शृणु त्वं राजेंद्र वंशमुत्तमपूरुषम् । यस्यान्ववाये संभूतो विष्णुर्वृष्णिकुलोद्वहः

普拉斯提亚说道:大王啊,请聆听克罗什图的高贵世系——卓越之人的传承;在其相续之中诞生了毗湿奴,弗利什尼族最殊胜的光饰。

Verse 2

क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महायशाः । तस्य पुत्रोभवत्स्वातिः कुशंकुस्तत्सुतोभवत्

克罗什图(Kroṣṭu)生一子名弗利吉尼梵(Vṛjinīvān),以大名声著称。其子为斯瓦提(Svāti),斯瓦提之子为库尚库(Kuśaṅku)。

Verse 3

कुशंकोरभवत्पुत्रो नाम्ना चित्ररथोस्य तु । शशबिंदुरिति ख्यातश्चक्रवर्ती बभूव ह

库尚科罗(Kuśaṅkora)之子名奇特拉拉塔(Citraratha)降生;据说他以“舍沙宾度”(Śaśabindu)之名闻名,成为转轮圣王(chakravartin)。

Verse 4

अत्रानुवंशश्लोकोयं गीतस्तस्य पुराभवत् । शशबिंदोस्तु पुत्राणां शतानामभवच्छतम्

此处昔日曾歌咏一偈述其世系:舍沙宾度(Śaśabindu)有百子——确然圆满,正是一百。

Verse 5

धीमतां चारुरूपाणां भूरिद्रविणतेजसाम् । तेषां शतप्रधानानां पृथुसाह्वा महाबलाः

他们聪慧俊美,具足丰饶财宝与光辉。在诸子之中,有一百位成为最卓越的领袖;其间有大力者,名为“普利图”(Pṛthu)。

Verse 6

पृथुश्रवाः पृथुयशाः पृथुतेजाः पृथूद्भवः । पृथुकीर्तिः पृथुमतो राजानः शशबिंदवः

有诸王名为:普利图施罗瓦(Pṛthuśravā)、普利图耶沙(Pṛthuyaśā)、普利图提迦(Pṛthutejā)、普利图乌德婆伐(Pṛthūdbhava)、普利图吉尔蒂(Pṛthukīrti)与普利图摩多(Pṛthumato);皆为舍沙宾度(Śaśabindu)一系之君。

Verse 7

शंसंति च पुराणज्ञाः पृथुश्रवसमुत्तमम् । ततश्चास्याभवन्पुत्राः उशना शत्रुतापनः

诸《普拉那》通晓者赞颂至善的普利图施罗婆斯(Pṛthuśravas)。其后他得二子:乌舍那(Uśanā)与沙特鲁塔帕那(Śatrutāpana)。

Verse 8

पुत्रश्चोशनसस्तस्य शिनेयुर्नामसत्तमः । आसीत्शिनेयोः पुत्रो यः स रुक्मकवचो मतः

乌舍那(Uśanā)之子,为名德俱胜者,名曰施涅由(Śineyu);而施涅由所生之子,被认为是鲁克玛迦瓦恰(Rukmakavaca)。

Verse 9

निहत्य रुक्मकवचो युद्धे युद्धविशारदः । धन्विनो विविधैर्बाणैरवाप्य पृथिवीमिमाम्

他以弓发诸般箭矢,于战阵中诛灭鲁克玛迦瓦恰(Rukmakavaca)——那位久经沙场、善战之士——于是赢得了这片大地。

Verse 10

अश्वमेधे ऽददाद्राजा ब्राह्मणेभ्यश्च दक्षिणां । जज्ञे तु रुक्मकवचात्परावृत्परवीरहा

在阿湿婆美陀(Aśvamedha,马祭)中,国王向婆罗门施与达克希那(dakṣiṇā,祭礼酬施)。随后,由鲁克玛迦瓦恰(Rukmakavaca)生出帕拉弗利特(Parāvṛt),能诛敌方勇士者。

Verse 11

तत्पुत्रा जज्ञिरे पंच महावीर्यपराक्रमाः । रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः

他有五子诞生,皆具大力与英勇:鲁克梅舒(Rukmeṣu)、普利图鲁克玛(Pṛthurukma)、迦耶摩伽(Jyāmagha)、帕利伽(Parigha)与哈利(Hari)。

Verse 12

परिघं च हरिं चैव विदेहे स्थापयत्पिता । रुक्मेषुरभवद्राजा पृथुरुक्मस्तथाश्रयः

他们的父亲将帕利伽与哈利安置于毗提诃。于鲁克梅苏,普利图鲁克摩登基为王,在那里立下王座与统治之所。

Verse 13

ताभ्यां प्रव्राजितो राज्याज्ज्यामघोवसदाश्रमे । प्रशांतश्चाश्रमस्थस्तु ब्राह्मणेन विबोधितः

被那二人逐出王国后,阇摩伽前往一处阿湿罗摩居住。安住于阿湿罗摩中,他心境澄寂,并受一位婆罗门的教诲。

Verse 14

जगाम धनुरादाय देशमन्यं ध्वजी रथी । नर्मदातट एकाकी केवलं वृत्तिकर्शितः

他执起弓矢,旗帜飘扬的车战勇士驶向他乡。独自一人于那尔摩陀河岸,他以微薄生计度日,因艰辛而日渐消瘦。

Verse 15

ऋक्षवंतं गिरिं गत्वा मुक्तमन्यैरुपाविशत् । ज्यामघस्याभवद्भार्या शैब्या परिणता सती

她前往梨叉伐特山,在那里居住,任由他人离去而独处。时日既至,贤善的舍毗耶成为阇摩伽之妻。

Verse 16

अपुत्रोप्यभवद्राजा भार्यामन्यामचिंतयन् । तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः

国王虽无子嗣,却起念欲再娶一位王后。他在战阵中得胜,并于彼处获得一位少女。

Verse 17

भार्यामुवाच संत्रासात्स्नुषेयं ते शुचिस्मिते । एवमुक्त्वाब्रवीदेनं कस्य केयं स्नुषेति वै

他因恐惧对妻子说道:“噢,笑容清净者,她是你的儿媳。”说罢又问道:“她究竟是谁的儿媳呢?”

Verse 18

राजोवाच । यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति । तस्याः सा तपसोग्रेण कन्यायाः संप्रसूयत

国王说道:“将要从你而生的儿子——她将成为他的妻子。并且由她,凭借炽烈苦行(tapas)的威力,那位少女将诞生子嗣。”

Verse 19

पुत्रं विदर्भं सुभगं शैब्या परिणता सती । राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकौशिकौ

贤德的舍毗耶(Śaibyā)既为人妇,生下福相之子,名为毗达婆(Vidarbha)。而由王女,在他们的儿媳之中,又诞生两位博学之子——克罗他(Kratha)与拘尸迦(Kauśika)。

Verse 20

लोमपादं तृतीयं तु पुत्रं परमधार्मिकम् । पश्चाद्विदर्भो जनयच्छूरं रणविशारदम्

第三个儿子是罗摩波陀(Lomapāda),至为持守正法。其后,毗达婆(Vidarbha)又生一位英雄,善战而久经沙场。

Verse 21

लोमपादात्मजो बभ्रुर्धृतिस्तस्य तु चात्मजः । कौशिकस्यात्मजश्चेदिस्तस्माच्चैद्यनृपाः स्मृताः

罗摩波陀(Lomapāda)之子为巴布卢(Babhrū),其子又为持毅(Dhṛti)。拘尸迦(Kauśika)之子为契提(Cedi);由他而出,世人追念契提耶(Caidya)一系诸王。

Verse 22

क्रथो विदर्भपुत्रो यः कुंतिस्तस्यात्मजोभवत् । कुंतेर्धृष्टस्ततो जज्ञे धृष्टात्सृष्टः प्रतापवान्

克拉塔为毗达婆之子,生子名昆提。由昆提出生陀利什塔;由陀利什塔又生勇武的斯利什塔。

Verse 23

सृष्टस्य पुत्रो धर्मात्मा निवृत्तिः परवीरहा । निवृत्तिपुत्रो दाशार्हो नाम्ना स तु विदूरथः

斯利什塔之子为持法的尼弗利提,能诛灭敌方勇士。尼弗利提之子为达沙尔诃族人,名曰毗杜罗他。

Verse 24

दाशार्हपुत्रो भीमस्तु भीमाज्जीमूत उच्यते । जीमूतपुत्रो विकृतिस्तस्यभीमरथः सुतः

达沙尔诃之子为毗摩;由毗摩生出名为吉穆塔者。吉穆塔之子为毗克利提,其子为毗摩罗他。

Verse 25

अथ भीमरथस्यापि पुत्रो नवरथः किल । तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः

又说毗摩罗他亦有一子,名那伐罗他。由他生出达沙罗他,而舍拘尼为其子。

Verse 26

तस्मात्करंभस्तस्माच्च देवरातो बभूव ह । देवक्षत्रोभवद्राजा देवरातान्महायशाः

由他生出迦蓝婆;复由其而真有天赐者提婆罗多出现。由提婆罗多生出国王提婆刹多,声名显赫。

Verse 27

देवगर्भसमो जज्ञे देवक्षत्रस्य नंदनः । मधुर्नाममहातेजा मधोः कुरुवशः स्मृतः

天德刹多罗(Devakṣatra)诞下一子,与天胎(Devagarbha)等同。其名摩杜尔(Madhur),光辉炽盛;被追忆为出自由摩杜(Madhu)所传的俱卢(Kuru)族系。

Verse 28

आसीत्कुरुवशात्पुत्रः पुरुहोत्रः प्रतापवान् । अंशुर्जज्ञेथ वैदर्भ्यां द्रवंत्यां पुरुहोत्रतः

由俱卢瓦沙(Kuruvaśā)生出一位英勇之子,名普鲁霍特罗(Puruhoṭra)。又由普鲁霍特罗与毗陀婆(Vidarbha)公主德拉梵蒂(Dravantī)生下阿姆舒(Aṁśu)。

Verse 29

वेत्रकी त्वभवद्भार्या अंशोस्तस्यां व्यजायत । सात्वतः सत्वसंपन्नः सात्वतान्कीर्तिवर्द्धनः

韦特拉姬(Vetrakī)成为阿姆舒(Aṁśu)之妻;由她诞生萨特瓦塔(Sātvata)——具足清净之性(sattva),并增益萨特瓦塔族系之声名。

Verse 30

इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः । प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः

了知这位大魂者阇摩伽(Jyāmagha)的创造与世系之叙述后,睿智的苏摩王(Soma)得证合一(解脱),并以“具足子嗣者”之名为人所称。

Verse 31

सात्वतान्सत्वसंपन्ना कौसल्या सुषुवे सुतान् । तेषां सर्गाश्च चत्वारो विस्तरेणैव तान्शृणु

具足清净与善德的憍萨利耶(Kausalyā),在萨特瓦塔(Sātvata)族中诞下诸子。其中有四支世系——今当详听其说。

Verse 32

भजमानस्य सृंजय्यां भाजनामा सुतोभवत् । सृंजयस्य सुतायां तु भाजकास्तु ततोभवन्

在Sṛṃjayī之胎中,Bhajamāna得一子,名为Bhājana。又由Sṛṃjaya之女,后世遂生出Bhājaka一族。

Verse 33

तस्य भाजस्य भार्ये द्वे सुषुवाते सुतान्बहून् । नेमिं चकृकणं चैव वृष्णिं परपुरंजयं

彼Bhāja有二妃,生众多子:Nemi、Cakṛkaṇa、Vṛṣṇi,以及Parapuraṃjaya——征服敌城者。

Verse 34

ते भाजकाः स्मृता यस्माद्भजमानाद्वि जज्ञिरे । देवावृधः पृथुर्नाम मधूनां मित्रवर्द्धनः

他们被称为Bhājakas,因为他们由Bhajamāna而生为双生。其一为Devāvṛdha;其二名Pṛthu,能增长Madhu族中友谊者。

Verse 35

अपुत्रस्त्वभवद्राजा चचार परमं तपः । पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन्

国王无子,遂修行至高苦行,心怀渴愿:“愿我得一子,具足一切德行。”

Verse 36

संयोज्य कृष्णमेवाथ पर्णाशाया जलं स्पृशन् । सा तोयस्पर्शनात्तस्य सांनिध्यं निम्नगा ह्यगात्

随后,使其与Kṛṣṇa相合,她卧于一叶之上,触及清水。仅因触水之缘,那下行之河流便真实地得近于他,亲承其神圣临在。

Verse 37

कल्याणं चरतस्तस्य शुशोच निम्नगाततः । चिंतयाथ परीतात्मा जगामाथ विनिश्चयम्

他行走寻求吉祥之时,在河流低洼的水道旁悲叹;继而心为忧思所覆,终于作出坚定的决断。

Verse 38

भूत्वा गच्छाम्यहं नारी यस्यामेवं विधः सुतः । जायेत तस्मादद्याहं भवाम्यस्य सुतप्रदा

“我将前去化为女子,使这般的儿子在我身中诞生;因此从今日起,我要成为赐他一子的施与者。”

Verse 39

अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः । ज्ञापयामास राजानं तामियेष नृपस्ततः

于是她化作少女,具足至极光辉之身;她告知国王,随后国王便前来亲近她。

Verse 40

अथसानवमेमासिसुषुवेसरितांवरा । पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधात्परम्

随后至第九月,诸河之最胜者诞下一子——巴卜鲁(Babhru),具足一切德行,甚至胜过德瓦弗里达(Devāvṛdha)。

Verse 41

अत्र वंशे पुराणज्ञा ब्रुवंतीति परिश्रुतम् । गुणान्देवावृधस्याथ कीर्त्तयंतो महात्मनः

在此族系中,众所周知:通晓《往世书》者皆如是宣说——当他们称颂大心者德瓦弗里达(Devāvṛdha)的德行之时。

Verse 42

बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । षष्टिः शतं च पुत्राणां सहस्राणि च सप्ततिः

巴布鲁在人间最为卓越;在诸天之中亦与天神德瓦弗里达相等。他有一百六十个儿子,又另有七万之众。

Verse 43

एतेमृतत्वं संप्राप्ता बभ्रोर्देवावृधादपि । यज्ञदानतपोधीमान्ब्रह्मण्यस्सुदृढव्रतः

这些人也因巴布鲁——增益诸天者——而得不死之果。他勤修祭祀(yajña)、布施(dāna)与苦行(tapas);具大智慧,敬奉婆罗门并归依梵(Brahman),誓愿坚固。

Verse 44

रूपवांश्च महातेजा भोजोतोमृतकावतीम् । शरकान्तस्य दुहिता सुषुवे चतुरः सुतान्

那位婆阇(Bhoja)容貌端严、光辉炽盛;他由舍罗坎塔之女阿蜜利塔迦伐蒂(Amṛtakāvatī)而生下四子。

Verse 45

कुकुरं भजमानं च श्यामं कंबलबर्हिषम् । कुकुरस्यात्मजो वृष्टिर्वृष्टेस्तु तनयो धृतिः

他也礼敬库库拉(Kukura)——肤色幽暗,披覆毯衣,坐于库沙草座。库库拉之子为弗里什蒂(Vṛṣṭi),弗里什蒂之子为德里提(Dhṛti)。

Verse 46

कपोतरोमा तस्यापि तित्तिरिस्तस्य चात्मजः । तस्यासीद्बहुपुत्रस्तु विद्वान्पुत्रो नरिः किल

由他又生出鸽毛者卡波塔罗摩(Kapotaromā),其子为提蒂里(Tittiri)。提蒂里有许多儿子;其中据说有一位博学之子,名为那利(Nari)。

Verse 47

ख्यायते तस्य नामान्यच्चंदनोदकदुंदुभिः । अस्यासीदभिजित्पुत्रस्ततो जातः पुनर्वसुः

他的诸名以吉祥之鼓声宣扬,并以檀香芬芳之水而颂。其有一子名阿毗吉特;由彼而生普那尔瓦苏。

Verse 48

अपुत्रोह्यभिजित्पूर्वमृषिभिः प्रेरितो मुदा । अश्वमेधंतुपुत्रार्थमाजुहावनरोत्तमः

昔时阿毗吉特无子,诸仙欢喜劝勉;彼为人中至善者,为求得子嗣而举行阿湿婆梅陀大祭。

Verse 49

तस्य मध्ये विचरतः सभामध्यात्समुत्थितः । अन्धस्तु विद्वान्धर्मज्ञो यज्ञदाता पुनर्वसुः

当他在众人之间行走时,自会众中央起一人:名安陀者,博学明达,通晓法(dharma),施行祭祀之供养者——即普那尔瓦苏。

Verse 50

तस्यासीत्पुत्रमिथुनं वसोश्चारिजितः किल । आहुकश्चाहुकी चैव ख्याता मतिमतां वर

据说瓦苏有一对儿女:确有阿利吉塔;并且还有著名的阿呼迦与阿呼姬,噫,智者中之最胜者。

Verse 51

इमांश्चोदाहरंत्यत्र श्लोकांश्चातिरसात्मकान् । सोपासंगानुकर्षाणां तनुत्राणां वरूथिनाम्

此处亦诵这些情味深长之偈,论及那些因执著与缠缚而被牵引随行者,并作为遮覆与护身甲胄之众。

Verse 52

रथानां मेघघोषाणां सहस्राणि दशैव तु । नासत्यवादिनो भोजा नायज्ञा नासहस्रदाः

确有一万乘战车,轰鸣如云雷;而婆阇族不说虚妄,不怠慢祭祀,亦不吝于千千施舍。

Verse 53

नाशुचिर्नाप्यविद्वांसो न भोजादधिकोभवत् । आहुकां तमनुप्राप्त इत्येषोन्वय उच्यते

他既不污秽,亦非无知,也并不凌驾于婆阇之上;既已抵达阿胡迦,此即所称该语之正当语序关联(anvaya)。

Verse 54

आहुकश्चाप्यवंतीषु स्वसारं चाहुकीं ददौ । आहुकस्यैव दुहिता पुत्रौ द्वौ समसूयत

而阿胡迦在阿槃提之地,将自己的妹妹阿胡姬许配出嫁;阿胡迦之女又诞下两位儿子。

Verse 55

देवकं चोग्रसेनं च देवगर्भसमावुभौ । देवकस्य सुताश्चैव जज्ञिरे त्रिदशोपमाः

又有提婆迦与乌格罗塞那,二者皆由提婆伽婆诞生;而提婆迦确实生下诸子,神采堪比天神。

Verse 56

देववानुपदेवश्च सुदेवो देवरक्षितः । तेषां स्वसारः सप्तैव वसुदेवाय ता ददौ

有提婆梵、优波提婆、苏提婆与提婆罗叉多;他们的七位亲姐妹,由婆苏提婆许配给他们(为妻)。

Verse 57

देवकी श्रुतदेवा च यशोदा च श्रुतिश्रवा । श्रीदेवा चोपदेवा च सुरूपा चेति सप्तमी

德瓦姬(Devakī)、施鲁塔德维(Śrutadevī)、耶输达(Yaśodā)与施鲁提施拉瓦(Śrutiśravā);又有室利德维(Śrīdevī)、乌帕德维(Upadevī)与苏鲁帕(Surūpā)——此为七位圣女,属第七组。

Verse 58

नवोग्रसेनस्य सुताः कंसस्तेषां च पूर्वजः । न्यग्रोधस्तु सुनामा च कंकः शंकुः सुभूश्च यः

那伐·乌格罗塞那(Nava-Ugrasena)之子为:迦萨(Kaṃsa),为诸子之长;又有尼耶格罗陀(Nyagrodha)、苏那玛(Sunāmā)、迦迦(Kaṃka)、商库(Śaṃku)与苏布胡(Subhū)。

Verse 59

अन्यस्तु राष्ट्रपालश्च बद्धमुष्टिः समुष्टिकः । तेषां स्वसारः पंचासन्कंसा कंसवती तथा

另有罗湿特拉帕拉(Rāṣṭrapāla);(又有)巴达穆什提(Baddhamuṣṭi)与萨穆什提迦(Samuṣṭika)。他们有五位姊妹——迦萨(Kaṃsā)以及迦萨瓦蒂(Kaṃsavatī)。

Verse 60

सुरभी राष्ट्रपाली च कंका चेति वरांगनाः । उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः

苏拉毗(Surabhī)、罗湿特拉帕利(Rāṣṭrapālī)与迦迦(Kaṃkā)——皆为上妙淑女。乌格罗塞那(Ugrasena)亦与其子嗣一道,被述为出自库库(Kuku)之族。

Verse 61

भजमानस्य पुत्रोभूद्रथिमुख्यो विदूरथः । राजाधिदेवः शूरश्च विदूरथसुतोभवत्

巴阇摩那(Bhajamāna)生一子名毗度罗他(Vidūratha),为车战勇士之最。毗度罗他之子为罗阇阿提提婆(Rājādhideva),亦名修罗(Śūra)。

Verse 62

राजाधिदेवस्य सुतौ जज्ञाते वीरसंमतौ । क्षत्रव्रतेतिनिरतौ शोणाश्वः श्वेतवाहनः

罗阇阿提提婆诞生了两位儿子,皆被称许为英勇之士,笃守刹帝利之誓:首那阿湿婆与室韦多伐诃那。

Verse 63

शोणाश्वस्य सुताः पंच शूरा रणविशारदाः । शमी च राजशर्मा च निमूर्त्तः शत्रुजिच्छुचिः

首那阿湿婆有五位儿子,皆为勇士,精于战阵:舍弥、罗阇舍摩、尼牟尔多、沙特鲁吉特与舒吉。

Verse 64

शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः । प्रतिक्षत्रसुतो भोजो हृदीकस्तस्य चात्मजः । हृदीकस्याभवन्पुत्रा दश भीमपराक्रमाः

舍弥之子为波罗提迦刹多罗;而波罗提迦刹多罗亦有其子。由波罗提迦刹多罗生出婆阇,其子为赫利底迦。赫利底迦有十子,个个勇力骇人。

Verse 65

कृतवर्माग्रजस्तेषां शतधन्वा च सत्तमः । देवार्हश्च सुभानुश्च भीषणश्च महाबलः

其中有克利多伐尔摩之兄长室多檀婆——卓越之人——又有提婆尔诃、苏婆奴与毗沙那,皆具大力。

Verse 66

अजातश्च विजातश्च करकश्च करंधमः । देवार्हस्य सुतो विद्वान्जज्ञे कंबलबर्हिषः

由甘婆罗婆尔希什所生,提婆尔诃有四子:阿阇多、毗阇多、迦罗迦与迦兰陀摩,皆为贤慧之子。

Verse 67

असमौजास्ततस्तस्य समौजाश्च सुतावुभौ । अजातपुत्रस्य सुतौ प्रजायेते समौजसौ

由他诞生了阿萨摩乌迦斯(Asamaujas);又诞生了两位儿子,皆名萨摩乌迦斯(Samaujas)。因此,即便是阿阇多子(Ajātaputra),也得以出现两位名为萨摩乌迦斯的儿子。

Verse 68

समौजः पुत्रा विख्यातास्त्रयः परमधार्मिकाः । सुदंशश्च सुवंशश्च कृष्ण इत्यनुनामतः

萨摩乌迦斯(Samaujas)有三位著名的儿子,至为守持正法:名为苏丹沙(Sudaṃśa)、苏梵沙(Suvaṃśa)与克里希纳(Kṛṣṇa)。

Verse 69

अंधकानामिमं वंशं यः कीर्तयति नित्यशः । आत्मनो विपुलं वंशं प्रजामाप्नोत्ययं ततः

凡每日诵念安陀迦族(Andhaka)此一世系者,随后必得子孙繁盛,自身家族兴隆昌茂。

Verse 70

गांधारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः । गांधारी जनयामास सुनित्रं मित्रवत्सलम्

甘达梨(Gāndhārī)与摩陀梨(Mādrī)成为克罗什图(Kroṣṭu)的两位妻子。甘达梨生下苏尼特罗(Sunitra),其人友爱亲善。

Verse 71

माद्री युधाजितं पुत्रं ततो वै देवमीढुषं । अनमित्रं शिनिं चैव पंचात्र कृतलक्षणाः

摩陀梨(Mādrī)生下名为尤达吉特(Yudhājit)的儿子;其后又生天乳者(Devamīḍhuṣa),并且还有阿那密特罗(Anamitra)与尸尼(Śini)——共五子,皆具吉祥相。

Verse 72

अनमित्रसुतो निघ्नो निघ्नस्यापि च द्वौ सुतौ । प्रसेनश्च महावीर्यः शक्तिसेनश्च तावुभौ

阿那密多罗生尼格那;尼格那又有二子:大勇的普罗塞那与释迦提塞那,此二人也。

Verse 73

स्यमंतकं प्रसेनस्य मणिरत्नमनुत्तमं । पृथिव्यां मणिरत्नानां राजेति समुदाहृतम्

普罗塞那的无上宝珠“娑曼多迦”,在世间被称颂为诸宝之“王”。

Verse 74

हृदि कृत्वा सुबहुशो मणिं तं स व्यराजत । मणिरत्नं ययाचेथ राजार्थं शौरिरुत्तमम्

他屡屡将那宝珠贴于胸前,光辉灿然。随后为成就王事,向最尊胜的娑乌利族圣者(主毗湿奴/奎师那)求取那至上宝珠。

Verse 75

गोविंदश्च न तं लेभे शक्तोपि न जहार सः । कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः

即便是戈文达也未得此宝;虽有能力,他亦不强取。某时,佩戴此珠的普罗塞那出外狩猎。

Verse 76

बिले शब्दं स शुश्राव कृतं सत्त्वेन केनचित् । ततः प्रविश्य स बिलं प्रसेनो ह्यृक्षमासदत्

在洞中他听见某种生灵所发之声;于是入洞而行,普罗塞那便遇见一头熊。

Verse 77

ऋक्षः प्रसेनं च तथा ऋक्षं चापि प्रसेनजित् । आसाद्य युयुधाते तौ परस्परजयेच्छया

Ṛkṣa遇见了普拉塞那,普拉塞那吉特也与Ṛkṣa相逢;二者迎面相对,遂相互搏斗,各自渴望战胜对方。

Verse 78

हत्वा ऋक्षः प्रसेनं च ततस्तं मणिमाददात् । प्रसेनं तु हतं श्रुत्वा गोविंदः परिशंकितः

熊(Ṛkṣa)杀死普拉塞那后,便取走了那颗宝珠。可当戈文达听闻普拉塞那被杀,心中生起疑惧与忧虑。

Verse 79

सत्राजित्रा तु तद्भ्रात्रा यादवैश्च तथापरैः । गोविंदेन हतो नूनं प्रसेनो मणिकारणात्

然而娑特罗阇特与其兄弟,并诸雅陀婆等人,却认定普拉塞那必是因那宝珠而被戈文达所杀。

Verse 80

प्रसेनस्तु गतोरण्यं मणिरत्नेन भूषितः । तं दृष्ट्वा निजघानाथ न त्यजन्तं स्यमंतकम्

普拉塞那佩戴着宝石珍珠,进入森林。主宰者(狮王)见到他,便将其击倒,因为他不肯舍弃善曼多迦宝珠。

Verse 81

जघानैवाप्रदानेन शत्रुभूतं च केशवः । इति प्रवादस्सर्वत्र ख्यातस्सत्राजिता कृतः

因他不肯归还,传言说凯沙瓦确实将他诛杀,视其为敌。于是此语遍传四方,娑特罗阇特也因此而为人所知。

Verse 82

अथ दीर्घेण कालेन मृगयां निर्गतः पुनः । यदृच्छया च गोविंदो बिलाभ्याशमथागमत्

过了很久,他又出去狩猎;偶然间,戈文达走近了一处洞穴的入口。

Verse 83

ततश्शब्दं यथापूर्वं स चक्रे ऋक्षराड्बली । शब्दं श्रुत्वा तु गोविंदः खङ्गपाणिः प्रविश्य च

于是,那强大的熊王又发出了先前同样的声音。戈文达听见后,手执宝剑,便走了进去。

Verse 84

अपश्यज्जांबवंतं च ऋक्षराजं महाबलं । ततस्तूर्णं हृषीकेशस्तमृक्षमतिरंहसा

他看见了阇姆婆梵,那位大力的熊王。于是赫利湿计沙以极快的速度猛然冲向那只熊。

Verse 85

जांबवंतं स जग्राह क्रोधसंरक्तलोचनः । दृष्ट्वा चैनं तथा विष्णुं कर्मभिर्वैष्णवीं तनुं

他怒目赤红,擒住了阇姆婆梵;而当他看出对方正是毗湿奴本身——以其行迹显现为毗湿奴信奉者之圣形——便依礼而行。

Verse 86

तुष्टाव ऋक्षराजोपि विष्णुसूक्तेन सत्वरं । ततस्तु भगवांस्तुष्टो वरेण समरोचयत्

于是熊王也立刻以赞颂毗湿奴的圣颂称赞主;而至福的薄伽梵心生欢喜,便赐予他一项恩愿。

Verse 87

जाम्बवानुवाच । इष्टं चक्रप्रहारेण त्वत्तो मे मरणं शुभम् । कन्या चेयं मम सुता भर्त्तारं त्वामवाप्नुयात्

阇摩婆梵说道:“愿我死于你手,受神轮一击,成为我所珍爱而吉祥的终结。愿这位少女——我的女儿——得你为夫。”

Verse 88

योयं मणिः प्रसेनात्तु हत्वा चैवाप्तवानहम् । स त्वया गृह्यतां नाथ मणिरेषोऽत्र वर्त्तते

“这颗宝珠——我杀了普罗塞那后确实得到了它。主啊,请你收下;这宝珠就在此处(在我这里)。”

Verse 89

इत्युक्तो जांबवंतं वै हत्वा चक्रेण केशवः । कृतकार्यो महाबाहुः कन्यां चैवाददौ तदा

听罢此言,凯沙瓦以神轮击倒阇摩婆梵。大臂之主既已成就所求,当时也将那少女一并迎取。

Verse 90

ततः सत्राजिते चैतन्मणिरत्नं स वै ददौ । यल्लब्धमृक्षराजाच्च सर्वयादवसन्निधौ

随后,在众雅陀婆众人面前,他确实将那宝石之珠交给了萨特罗阇特——正是从熊王那里得来的那一颗。

Verse 91

तेन मिथ्याप्रवादेन संतप्तोयं जनार्दनः । ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन्

因那虚妄的诽谤所灼,阇那尔达那心中忧苦。于是众雅陀婆都对婆苏提婆开口说道。

Verse 92

अस्माकं मनसि ह्यासीत्प्रसेनस्तु त्वया हतः । एकैकस्यास्तु सुंदर्यो दश सत्राजितः सुताः

在我们心中,确实曾以为普拉塞那被你所杀;并且我们也相信,萨特拉吉特那十位美丽的女儿将被赐予——每人各得其一。

Verse 93

सत्योत्पन्नास्सुतास्तस्य शतमेकं च विश्रुताः । विख्याताश्च महावीर्या भंगकारश्च पूर्वजः

由他生出一百零一位儿子,皆以“由萨提亚所生”而闻名。他们声名远播、勇力非凡;其中,梵伽迦罗为长子。

Verse 94

सत्या व्रतवती स्वप्ना भंगकारस्य पूर्वजा । सुषुवुस्ताः कुमारांश्च शिनीवालः प्रतापवान्

萨提亚、弗拉塔瓦蒂与斯瓦普那——梵伽迦罗先出生的女儿——都生下了儿子;而尸尼瓦罗以勇武著称。

Verse 95

अभंगो युयुधानश्च शिनिस्तस्यात्मजोभवत् । तस्माद्युगंधरः पुत्राश्शतं तस्य प्रकीर्तिताः

阿梵伽与优优陀那作为尸尼之子而生。由他传出瑜伽恩陀罗;并且据说他有一百位儿子皆享盛名。

Verse 96

अनमित्राह्वयो यो वै विख्यातो वृष्णिवंशजः । अनमित्रात्शिनिर्जज्ञे कनिष्ठो वृष्णिनंदनः

从阿那密多——以弗利什尼族裔而著名者——生出尸尼,他是最幼的儿子,亦为弗利什尼之欢喜。

Verse 97

अनमित्राच्च संजज्ञे वृष्णिवीरो युधाजितः । अन्यौ च तनयौ वीरा वृषभश्चित्र एव च

由阿那蜜特罗(Anamitrā)诞生了弗利什尼族的英雄尤达吉特(Yudhājit);又生出两位勇武之子——弗利沙婆(Vṛṣabha)与吉多罗(Citra)。

Verse 98

ऋषभः काशिराजस्य सुतां भार्यामनिंदितां । जयंतश्च जयंतीं च शुभां भार्यामविंदत

梨沙婆(Ṛṣabha)迎娶迦尸(Kāśī)国王之女为无瑕之妻;而阇延多(Jayanta)则得吉祥之妻阇延提(Jayantī)。

Verse 99

जयंतस्य जयंत्यां वै पुत्रः समभवत्ततः । सदा यज्वातिधीरश्च श्रुतवानतिथिप्रियः

于是,阇延多与阇延提确实得一子;他恒常奉行祭祀(yajña),智慧超群,通达圣典之学,并喜敬奉来客。

Verse 100

अक्रूरः सुषुवे तस्मात्सुदक्षो भूरिदक्षिणः । रत्नकन्या च शैब्या च अक्रूरस्तामवाप्तवान्

由他诞生阿拘罗(Akrūra);由阿拘罗(又生)苏达克沙(Sudakṣa),以厚施广惠而闻名。宝女(Ratnakanyā)以及舍毗耶(Śaibyā)——阿拘罗迎得她(舍毗耶)为妻。

Verse 101

पुत्रानुत्पादयामास एकादशमहाबलान् । उपलंभं सदालंभमुत्कलं चार्य्यशैशवं

他生下十一位大力之子——乌波楞婆(Upalambha)、萨达楞婆(Sadālambha)、乌特迦罗(Utkala)与阿利耶舍伊沙婆(Aryaśaiśava)(皆在其中)。

Verse 102

सुधीरं च सदायक्षं शत्रुघ्नं वारिमेजयं । धर्मदृष्टिं च धर्मं च सृष्टिमौलिं तथैव च

并且有苏提罗(Sudhīra)、萨达雅叉(Sadāyakṣa)、沙特鲁格那(Śatrughna)、瓦利梅阇耶(Vārimejaya)、达摩见(Dharmadṛṣṭi)、达摩(Dharma),以及同样的创生冠(Sṛṣṭimauli)。

Verse 103

सर्वे च प्रतिहर्तारो रत्नानां जज्ञिरे च ते । अक्रूराच्छूरसेनायां सुतौ द्वौ कुलनंदनौ

并且,那些将要追回宝珠的人也都出生了。由阿克鲁罗(Akrūra)在舒罗塞那(Śūrasena)之地,诞生了两位儿子——宗族之欢。

Verse 104

देववानुपदेवश्च जज्ञाते देवसंमतौ । अश्विन्यां त्रिचतुः पुत्राः पृथुर्विपृथुरेव च

天赐者(Devavān)与近天者(Upadeva)诞生了——二者皆为诸天所嘉许。在阿湿毗尼(Aśvinī)宿下,生了三或四位儿子:普利图(Pṛthu)以及毗普利图(Vipṛthu)。

Verse 105

अश्वग्रीवो श्वबाहुश्च सुपार्श्वक गवेषणौ । रिष्टनेमिः सुवर्चा च सुधर्मा मृदुरेव च

有阿湿瓦格利瓦(Aśvagrīva)、湿瓦婆呼(Śvabāhu)、苏帕尔湿瓦迦(Supārśvaka)与伽维沙那(Gaveṣaṇa);又有里什塔内弥(Riṣṭanemi)、苏瓦尔叉(Suvarcā)、苏达尔摩(Sudharmā)与弥度(Mṛdu)。

Verse 106

अभूमिर्बहुभूमिश्च श्रविष्ठा श्रवणे स्त्रियौ । इमां मिथ्याभिशप्तिं यो वेद कृष्णस्य बुद्धिमान्

有阿部弥(Abhūmi)与多部弥(Bahubhūmi),以及两位女子——室罗毗什塔(Śraviṣṭhā)与室罗瓦那(Śravaṇā)。凡以智慧洞悉这与黑天克里希纳(Kṛṣṇa)相关的虚妄诅咒(及其真实旨意)者,方为真正明达之人。

Verse 107

न स मिथ्याभिशापेन अभिगम्यश्च केनचित् । एक्ष्वाकी सुषुवे पुत्रं शूरमद्भुतमीढुषम्

任何人都不能凭借虚妄的诅咒接近他。随后,伊克什瓦姬(Ekṣvākī)诞下一子——英勇非凡,奇妙殊胜,堪受赞颂。

Verse 108

मीढुषा जज्ञिरे शूरा भोजायां पुरुषा दश । वसुदेवो महाबाहुः पूर्वमानकदुंदुभिः

由弥度沙(Mīḍhuṣa)在菩阇(Bhojā)诞生了十位勇武之子。其中臂力无双的瓦苏提婆(Vasudeva),昔日名为阿那迦敦杜毗(Ānakadundubhi)。

Verse 109

देवभागस्तथा जज्ञे तथा देवश्रवाः पुनः । अनावृष्टिं कुनिश्चैव नंदिश्चैव सकृद्यशाः

又诞生了天福者德瓦婆伽(Devabhāga),并再有天闻者德瓦施罗婆(Devaśravā)。同样诞生了阿那弗里什提(Anāvṛṣṭi)、库尼(Kuni)、难提(Nandi)与萨克里德雅沙斯(Sakṛdyaśas)。

Verse 110

श्यामः शमीकः सप्ताख्यः पंच चास्य वरांगनाः । श्रुतकीर्तिः पृथा चैव श्रुतदेवी श्रुतश्रवाः

名为商摩(Śyāma)、舍弥迦(Śamīka)与萨普塔迦(Saptākhya)。并且他有五位高贵的女子:闻名者室鲁塔吉尔蒂(Śrutakīrti)、普利塔(Pṛthā)、室鲁塔提毗(Śrutadevī)与室鲁塔施罗婆(Śrutaśravā)。

Verse 111

राजाधिदेवी च तथा पंचैता वीरमातरः । वृद्धस्य श्रुतदेवी तु कारूषं सुषुवे नृपम्

以及罗阇阿提提毗(Rājādhidevī)亦在其中——这五位皆为英雄之母。又,室鲁塔提毗(Śrutadevī)为弗里陀(Vṛddha)之妻,诞下名为迦卢沙(Kārūṣa)的国王。

Verse 112

कैकेयाच्छ्रुतकीर्तेस्तु जज्ञे संतर्दनो नृपः । श्रुतश्रवसि चैद्यस्य सुनीथः समपद्यत

由凯凯耶族的室鲁塔吉尔蒂诞生了国王桑塔尔达那;而由室鲁塔室罗婆斯——柴地耶——诞生了苏尼塔。

Verse 113

राजाधिदेव्याः संभूतो धर्माद्भयविवर्जितः । शूरः सख्येन बद्धोसौ कुंतिभोजे पृथां ददौ

他由罗阇阿提提毗所生,奉法而无惧。那位舒罗因友谊之约,将普利塔交予昆提菩阇。

Verse 114

एवं कुंती समाख्या च वसुदेवस्वसा पृथा । कुंतिभोजोददात्तां तु पांडोर्भार्यामनिंदिताम्

于是,普利塔——亦名昆提,婆苏提婆之妹——被昆提菩阇许配给般度,成为他无瑕的妻子。

Verse 115

पाण्ड्वर्थेसूत देवी सा देवपुत्रान्महारथान् । धर्माद्युधिष्ठिरो जज्ञे वाताज्जज्ञे वृकोदरः

为般度之故,那位女神诞下天子般的儿子——伟大的战车勇士:由法神生出坚战(尤提士提罗),由风神生出大腹者(毗摩)。

Verse 116

इंद्राद्धनंजयश्चैव शक्रतुल्यपराक्रमः । योऽसौ त्रिपुरुषाज्जातस्त्रिभिरंशैर्महारथः

又由因陀罗诞生了檀那阇耶,其英勇与释迦(帝释)等同。那位大车战士出自三身之主(Tri-Puruṣa),具足三分神力。

Verse 117

देवकार्यकरश्चैव सर्वदानवसूदनः । अवध्याश्चापि शक्रस्य दानवा येन घातिताः

他确实成就诸天(deva)之所愿,亦为一切达那婆(Dānava)之诛灭者;连对释迦(Śakra,即因陀罗)都不可伤的达那婆,也被他所斩。

Verse 118

स्थापितस्स तु शक्रेण लब्धवर्चास्त्रिविष्टपे । माद्रवत्यां तु जनितावश्विनाविति नः श्रुतम्

然而他被释迦(Śakra,因陀罗)安置于三十三天(Triviṣṭapa),重获光辉。又据我们所闻,阿湿毗尼双神(Aśvin)生于摩陀罗伐底(Mādravatī)。

Verse 119

नकुलः सहदेवश्च रूपसत्वगुणान्वितौ । रोहिणी पौरवी नाम भार्या चानकदुंदुभेः

那拘罗(Nakula)与娑诃提婆(Sahadeva)具足容貌与萨埵(sattva)之德。罗希尼(Rohiṇī)——亦名波罗维(Pauravī)——为阿那迦敦都毗(Ānakadundubhi)之妻。

Verse 120

लेभे चेष्टं सुतं रामं सारणं च रणप्रियम् । दुर्धरं दमनं चैव पिंडारकमहाहनुं

她得到了心愿之子:切什塔(Ceṣṭa)、罗摩(Rāma),以及好战的萨罗那(Sāraṇa);又有难制的杜尔陀罗(Durdhara)、达摩那(Damana),并有颚伟如山的诛敌者频陀罗迦(Piṇḍāraka)。

Verse 121

अथ मायात्वमावास्या देवकी या भविष्यति । तस्यां जज्ञे महाबाहुः पूर्वं तु स प्रजापतिः

随后,他取玛雅(Māyā)之相,进入尚将出生的提婆吉(Devakī);在她体内诞生了那位大臂者——他在往昔曾为生主(Prajāpati)。

Verse 122

अनुजाताभवत्कृष्णा सुभद्रा भद्रभाषिणी । विजयो रोचमानस्तु वर्धमानश्च देवलः

在他们之后,诞生了黑肤之女克里希娜(Kṛṣṇā)、吉言善语的苏婆陀罗(Subhadrā),以及诸子:毗阇耶(Vijaya)、罗遮摩那(Rocamāna)、伐陀摩那(Vardhamāna)与提婆罗(Devala)。

Verse 123

एते सर्वे महात्मान उपदेव्यां प्रजज्ञिरे । अगावहं महात्मानं बृहद्देवी व्यजायत

这些具大德之人皆由优波提婆(Upadevā)所生;而广大神女(Bṛhaddevī)则诞下了我——阿迦婆诃(Agāvaha),具大心者。

Verse 124

बृहद्देव्यां स्वयं जज्ञे मन्दको नाम नामतः । सप्तमं देवकी पुत्रं रेमंतं सषुवे सुतम्

在广大神女(Bṛhaddevī)之中,自然诞生了一位名为曼陀迦(Mandaka)者。德瓦姬(Devakī)又生下她的第七子,名为雷曼陀(Remanta)。

Verse 125

गवेषणं महाभागं संग्रामेष्वपराजितम् । श्रुतदेव्या विहारे तु वने विचरता पुरा

往昔,室卢多提毗(Śrutadevī)为游乐而在林中徜徉时,遇见了显赫的伽维沙那(Gaveṣaṇa)——战阵之中不可战胜者。

Verse 126

वैश्यायां समधाच्छौरिः पुत्रं कौशिकमग्रजम् । श्रुतंधरा तु राज्ञी तु सौरगंधपरिग्रहः

娑乌利(Śauri)由一位吠舍女(Vaiśyā)生得长子,名为拘尸迦(Kauśika)。而王后室卢檀陀罗(Śrutandharā)则为娑乌罗甘陀(Sauragandha)所迎娶。

Verse 127

पुत्रं च कपिलं चैव वसुदेवात्मजो बली । जनानां च विषादोभूत्प्रथमः स धनुर्द्धरः

他亦有一子名迦毗罗,为婆苏提婆之雄健之子。众人之间生起忧愁;他是最初著名的持弓者。

Verse 128

सौभद्रश्चाभवश्चैव महासत्वौ बभूवतुः । देवभागसुतश्चापि प्रस्तावः स बुधः स्मृतः

娑乌跋陀罗与阿婆婆二者皆生为伟大雄强之士。普罗娑多婆亦然——天分(Devabhāga)之子——被追忆为智者(布陀)。

Verse 129

पण्डितं प्रथमं बाहु देवश्रवसमुत्तमम् । इक्ष्वाकुकुलतो यस्य मनस्विन्या यशस्विनी

首先诞生的是学识之士——婆呼,最卓越的提婆室罗婆。其配偶端严显赫、志意高远、以德行闻名,出自伊叉婆拘族系。

Verse 130

निवृत्तशत्रुः शत्रुघ्नः श्रद्धा तस्मादजायत । गंडूषायामपत्यानि कृष्णस्तुष्टः शतं ददौ

由他生出室罗陀(Śraddhā),又有一子名尼弗利多沙特鲁,亦称室多卢伽那,意为“诛敌者”。克里希纳欢喜,赐予甘度沙一百子嗣。

Verse 131

स चंद्रं तु महाभागं वीर्यवंतं महाबलम् । रंतिपालश्च रंतिश्च नंदनस्य सुतावुभौ

又有旃陀罗,福德深厚,精力充盈,力大无比;并有兰提波罗与兰提,二者皆为难陀那之子。

Verse 132

शमीकपुत्राश्चत्वारो विक्रांताः सुमहाबलाः । विरजश्च धनुश्चैव व्योमस्तस्य स सृंजयः

沙弥迦有四子,皆英勇而力大无比:毗罗阇、达努、毗约摩与斯林阇耶。

Verse 133

अनपत्योभवद्व्योमः सृंजयस्य धनंजयः । यो जायमानो भोजत्वं राजर्षित्वमवाप्तवान्

斯林阇耶之子达难阇耶名为毗约摩,且无后嗣;然而他在诞生之时便获得了“婆阇”(Bhoja)之尊位,并成就王仙(rājarṣi)之阶。

Verse 134

कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः । शृणोति वा नरो नित्यं सर्वपापैः प्रमुच्यते

凡恒常称颂黑天(Kṛṣṇa)吉祥示现之诞生,或恒常聆听其事者,皆得解脱一切罪业。

Verse 135

अथ देवो महादेवः पूर्वं कृष्णः प्रजापतिः । विहारार्थं स देवोसौ मानुषेष्वप्यजायत

于是那位神——大自在天(Mahādeva),昔为黑天、众生之主(Prajāpati)——亦为神圣的利拉(līlā)之游乐而降生人间。

Verse 136

देवक्यां वसुदेवेन तपसा पुष्करेक्षणः । चतुर्बाहुस्तु संजातो दिव्यरूपो जनाश्रयः

因婆苏提婆之苦行,莲华眼的主自提婆姬而生:具四臂,现神圣妙相,为众生所归依。

Verse 137

श्रीवत्सलक्षणं देवं दृष्ट्वा देवैः सलक्षणम् । उवाच वसुदेवस्तं रूपं संहर वै प्रभो

见到具圣吉祥纹(Śrīvatsa)之主,诸天亦以各自圣相瞻仰之时,婆苏提婆对祂说道:“世尊啊,请确实收摄并隐去此形相。”

Verse 138

भीतोहं देव कंसस्य ततस्त्वेतद्ब्रवीमि ते । मम पुत्रा हतास्तेन श्रेष्ठाः षड्भीमविक्रमाः

世尊啊,我惧怕甘萨(Kaṃsa);因此我对你直言:我的儿子们——共六位——皆为卓越而勇猛可畏之士,却被他所杀。

Verse 139

वसुदेववचः श्रुत्वा रूपं संहरदच्युतः । अनुज्ञाप्य तु तं शौरिर्नन्दगोपगृहेनयत्

阿周陀(Acyuta)听闻婆苏提婆之言,便收摄并隐去其形相。随后,绍利(Śauri)向祂辞礼后,引祂前往牧牛者难陀之家。

Verse 140

दत्वा तं नंदगोपाय रक्ष्यतामिति चाब्रवीत् । अतस्तुसर्वकल्याणं यादवानां भविष्यति

将祂交付给牧牛者难陀后,他说道:“务必护持此子。”因此,圆满的吉祥将降临于雅度族(Yādava)。

Verse 141

अयं तु गर्भो देवक्या यावत्कंसं हनिष्यति । तावत्पृथिव्यां भविता क्षेमो भारावहः परम्

此在提婆吉(Devakī)胎中的圣子,直至诛灭甘萨(Kaṃsa)之时;在此期间,大地将得至上安宁,并从重担中获得解脱。

Verse 142

ये वै दुष्टास्तु राजानस्तांस्तु सर्वान्हनिष्यति । कौरवाणां रणे भूते सर्वक्षत्रसमागमे

诚然,当俱卢族(考罗婆)之战爆发、诸武士族群尽皆会集之时,他将诛灭一切邪恶之王。

Verse 143

सारथ्यमर्जुनस्यायं स्वयं देवः करिष्यति । निःक्षत्रियां धरां कृत्वा भोक्ष्यते शेषतां गताम्

这位神祇将亲自为阿周那执御;并使大地无有刹帝利之后,将统御那所余之境——仅存的残余。

Verse 144

सर्वं यदुकुलं चैव देवलोकं नयिष्यति । भीष्म उवाच । क एष वसुदेवस्तु देवकी का यशस्विनी

“他将引领整个夜度族系前往诸天之界。”毗湿摩说道:“这位婆苏提婆是谁?那位声名显赫的提婆姬又是谁?”

Verse 145

नंदगोपश्च कश्चैव यशोदा का महाव्रता । या विष्णुं पोषितवती यां स मातेत्यभाषत

那么,难陀·牧主是谁?雅输陀——那位持大誓愿的妇人又是谁?她曾哺育毗湿奴,而他称她为“母亲”。

Verse 146

या गर्भं जनयामास या चैनं समवर्द्धयत् । पुलस्त्य उवाच । पुरुषः कश्यपश्चासावदितिस्तत्प्रिया स्मृता

“那位怀胎成孕者,以及那位抚育他长大者。”普罗诃斯提耶说道:“那人是迦叶波,而阿底提被记为他的爱侣。”

Verse 147

कश्यपो ब्रह्मणोंशस्तु पृथिव्या अदितिस्तथा । नंदो द्रोणस्समाख्यातो यशोदाथ धराभवत्

迦叶波确为梵天之一分;阿底提亦为大地之一分。难陀被称为德罗那之化身,而耶输陀当时成为达罗——大地本身。

Verse 148

अथकामान्महाबाहुर्देवक्याः समपूरयत् । ये तया कांक्षिताः पूर्वमजात्तस्मान्महात्मनः

随后,那位臂力无双者满足了提婆吉的心愿——正是她先前所渴求的诸愿——由那位大魂者而使之得生。

Verse 149

अचिरं स महादेवः प्रविष्टो मानुषीं तनुं । मोहयन्सर्वभूतानि योगाद्योगी समाययौ

不久,那位大天尊入于人身;那位瑜伽行者凭其瑜伽之力而至,使一切众生迷惑。

Verse 150

नष्टे धर्मे तथा यज्ञे विष्णुर्वृष्णिकुले विभुः । कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्

当正法与祭祀之业衰微之时,全能的毗湿奴降生于弗利什尼族系,为重建法之秩序,并灭除阿修罗。

Verse 151

रुक्मिणी सत्यभामा च सत्या नाग्निजिती तथा । सुमित्रा च तथा शैब्या गांधारी लक्ष्मणा तथा

如克弥尼、萨蒂雅婆摩、萨蒂雅与那伽尼吉蒂;又有苏弥特罗与舍毗耶;并且还有犍陀利与拉克什玛那。

Verse 152

सुभीमा च तथा माद्री कौशल्या विजया तथा । एवमादीनि देवीनां सहस्राणि च षोडश

苏毗摩(Subhīmā)、摩德丽(Mādrī)、拘沙利耶(Kauśalyā)以及毗阇耶(Vijayā)等——如是等等,诸天女(Devī)共有一万六千位。

Verse 153

रुक्मिणी जनयामास पुत्रान्शृणु विशारदान् । चारुदेष्णं रणेशूरं प्रद्युम्नञ्च महाबलम्

鲁克米妮(Rukmiṇī)生下诸子——请听,智者——即:恰鲁德什那(Cārudeṣṇa)、英勇的罗内舒罗(Raṇeśūra),以及大力的普拉丢摩那(Pradyumna)。

Verse 154

सुचारुं चारुभद्रञ्च सदश्वं ह्रस्वमेव च । सप्तमञ्चारुगुप्तञ्च चारुभद्रञ्च चारुकं

又有苏恰鲁(Sucāru)、恰鲁跋陀罗(Cārubhadra)、萨达什瓦(Sadaśva)与赫拉斯瓦(Hrasva);并有萨普塔摩(Saptama)、恰鲁古普塔(Cārugupta)、(复又)恰鲁跋陀罗(Cārubhadra)与恰鲁迦(Cāruka)。

Verse 155

चारुहासं कनिष्ठञ्च कन्याञ्चारुमतीं तथा । जज्ञिरे सत्यभामाया भानुर्भीमरथः क्षणः

萨蒂娅婆摩(Satyabhāmā)所生者:恰鲁哈萨(Cāruhāsa),最幼之子;并有一女名恰鲁摩蒂(Cārumatī);又生婆努(Bhānu)、毗摩罗他(Bhīmaratha)与刹那(Kṣaṇa)。

Verse 156

रोहितो दीप्तिमांश्चैव ताम्रबंधो जलंधमः । चतस्रो जज्ञिरे तेषां स्वसारश्च यवीयसीः

罗希多(Rohita)、迪普提曼(Dīptimān)、塔摩罗班陀(Tāmrabandha)与阇兰陀摩(Jalaṃdhama)出生;并且他们又有四位姊妹,同时还有一位更年幼的妹妹。

Verse 157

जांबवत्याः सुतो जज्ञे सांबश्चैवातिशोभनः । सौरशास्त्रस्य कर्त्ता वै प्रतिमा मंदिरस्य च

阇姆婆伐蒂生下一子——萨姆巴,容貌殊胜;他确曾撰成《娑罗教典》(Saura-śāstra),并造作日神之圣像与其神庙。

Verse 158

मूलस्थाने निवेशश्च कृतस्तेन महात्मना । तुष्टेन देवदेवेन कुष्ठरोगो विनाशितः

那位大德在神圣的根本之地建立居处;诸天之主欢喜之下,灭除了麻风之疾。

Verse 159

सुमित्रं चारुमित्रं च मित्रविंदा व्यजायत । मित्रबाहुः सुनीथश्च नाग्नजित्यां बभूवतुः

密多罗温达生下苏密多罗与恰鲁密多罗;而那伽尼吉蒂则生出密多罗婆呼与苏尼他。

Verse 160

एवमादीनि पुत्राणांसहस्राणि निशामय । अशीतिश्च सहस्राणां वासुदेवसुतास्तथा

当听闻如是等千千子嗣;同样地,婆苏提婆亦有八万之子。

Verse 161

प्रद्युम्नस्य च दायादो वैदर्भ्यां बुद्धिसत्तमः । अनिरुद्धो रणे योद्धा जज्ञेस्य मृगकेतनः

毗达尔毗生下阿尼卢陀,为普拉丢姆那之嗣——智识最胜,战阵之勇士——其旗帜之徽为鹿。

Verse 162

काम्या सुपार्श्वतनया सांबाल्लेभे तरस्विनम् । सत्त्वप्रकृतयो देवाः पराः पंच प्रकीर्तिताः

苏帕尔什瓦之女迦弥耶,得到了精力充沛的塔拉斯温为夫。由此宣说:有五位至上诸神,其本性为萨特瓦(清净)。

Verse 163

तिस्रः कोट्यः प्रवीराणां यादवानां महात्मनां । षष्टिः शतसहस्राणि वीर्यवंतो महाबलाः

有三俱胝(crore)英勇而大心的夜陀婆,又另有六十个十万之数——皆为勇武之士,力大无穷。

Verse 164

देवांशाः सर्व एवेह उत्पन्नास्ते महौजसः । दैवासुरे हता ये वा असुरास्तु महाबलाः

在此所生者,皆确为诸天(Deva)之分身,光辉炽盛;亦有那些力大无比的阿修罗,曾在天与阿修罗之战中被诛灭者。

Verse 165

इहोत्पन्ना मनुष्येषु बाधंते सर्वमानवान् । तेषामुद्धरणार्थाय उत्पन्ना यादवे कुले

他们在此生于人间,扰害一切众人;为救度并解脱他们,(她)降生于夜陀婆族中。

Verse 166

कुलानां शतमेकं च यादवानां महात्मनाम् । विष्णुस्तेषां प्रणेता च प्रभुत्वे च व्यवस्थितः

在大心的夜陀婆中,共有一百零一个宗族;毗湿奴为其引导与统领,稳固安住于对他们的主权之位。

Verse 167

निदेशस्थायिनस्तस्य ऋद्ध्यंते सर्वयादवाः । भीष्म उवाच । सप्तर्षयः कुबेरश्च यक्षो मणिधरस्तथा

凡安住于其命令、恭顺不违的诸耶陀婆皆得兴盛。毗湿摩曰:“七圣仙、俱毗罗,以及夜叉摩尼持罗等……”

Verse 168

सात्यकिर्नारदश्चैव शिवो धन्वंतरिस्तथा । आदिदेवस्तथाविष्णुरेभिस्तु सह दैवतैः

萨底耶迦、那罗陀、湿婆与檀梵多利——并与原初之主毗湿奴——同这些神祇一齐显现。

Verse 169

किमर्थं सहसंभूताः सुरसम्भूतयः क्षितौ । भविष्याः कति वा चास्य प्रादुर्भावा महात्मनः

这些天生神圣的存在为何忽然在大地上出现?那位大心者未来还将有多少次示现?

Verse 170

सर्वक्षेत्रेषु सर्वेषु किमर्थमिह जायते । यदर्थमिह संभूतो विष्णुर्वृष्ण्यंधके कुले

在一切圣地之中,为何要在此处出生?又为何毗湿奴在此显现——于弗利什尼与安陀迦的族系之中?

Verse 171

पुनःपुनर्मनुष्येषु तन्मे त्वं ब्रूहि पृच्छतः । पुलस्त्य उवाच । शृणु भूप प्रवक्ष्यामि रहस्यातिरहस्यकम् । यथा दिव्यतनुर्विष्णुर्मानुषेष्विह जायते

“一次又一次在人间——请你告诉我,我正如此发问。”普罗萨底耶曰:“听吧,国王;我将宣说至秘之秘:毗湿奴以其神圣之身,如何在此于人类之中降生。”

Verse 172

युगांते तु परावृत्ते काले प्रशिथिले प्रभुः । देवासुरमनुष्येषु जायते हरिरीश्वरः

然而在一劫将尽之时,时轮回转、秩序松弛,主宰——哈利(Hari),至上统御者——便在天神、阿修罗与人类之中示现降生。

Verse 173

हिरण्यकशिपुर्दैत्यस्त्रैलोक्यस्य प्रशासिता । बलिनाधिष्ठिते चैव पुनर्लोकत्रये क्रमात्

魔族(Daitya)希兰尼亚迦希布(Hiraṇyakaśipu)成为三界的统治者;而当巴利(Bali)亦执掌王权时,统御便又依次在三界之中轮转传递。

Verse 174

सख्यमासीत्परमकं देवानामसुरैः सह । युगाख्या दश संपूर्णा आसीदव्याकुलं जगत्

天神与阿修罗之间曾有至深的友谊;整整十个瑜伽(yuga)之久,世界安宁无扰。

Verse 175

निदेशस्थायिनश्चापि तयोर्देवासुरा स्वयं । बद्धो बलिर्विमर्दोयं सुसंवृत्तः सुदारुणः

甚至诸天与阿修罗自身,也依从那二者的号令而参与其中;巴利被缚,而这场碾压般的冲突遂告发生——极其惨烈,尤为可怖。

Verse 176

देवानामसुराणां च घोरः क्षयकरो महान् । कर्तुं धर्मव्यवस्थां च जायते मानुषेष्विह

对天神与阿修罗而言,一位强大而可怖、能致毁灭者在此于人间兴起,为的是确立正当的法(dharma)之秩序。

Verse 177

भृगोः शापनिमित्तं तु देवासुरकृते तदा । भीष्म उवाच । कथं देवासुरकृते हरिर्देहमवाप्तवान्

当时因婆利古(Bhṛgu)诅咒之缘起,牵涉诸天(deva)与阿修罗(asura)之事——毗湿摩(Bhīṣma)说道:“诃利(Hari)为何为诸天与阿修罗之故而得受形体?”

Verse 178

दैवासुरं यथावृत्तं तन्मे कथय सुव्रत । पुलस्त्य उवाच । तेषां जयनिमित्तं वै संग्रामा स्युः सुदारुणाः

“善持誓戒者啊,请如实为我讲述诸天与魔众(daitya)相争之经过。”普罗悉底耶(Pulastya)答道:“为求两方各自得胜,他们之间将有极其惨烈可怖的战斗。”

Verse 179

अवतारा दशद्वौ च शुद्धा मन्वंतरे स्मृताः । नामधेयं समासेन शृणु तेषां विवक्षितम्

于每一摩奴劫(Manvantara)中,皆忆念十二种清净的降世(avatāra)。请简要聆听将要宣说的那些名号。

Verse 180

प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः । तृतीयस्तु वराहश्च चतुर्थोऽमृतमंथनः

第一为那罗辛哈(Narasiṁha);第二为婆摩那(Vāmana)。第三为婆罗诃(Varāha),第四则是搅乳海而生甘露(amṛta)之大搅拌。

Verse 181

संग्रामः पंचमश्चैव सुघोरस्तारकामयः । षष्ठो ह्याडीबकाख्यश्च सप्तमस्त्रैपुरस्तथा

“第五名为桑伽罗摩(Saṅgrāma)之战,亦有极其可怖的塔罗迦摩耶(Tārakāmaya)。第六称阿底婆迦(Āḍībaka),第七则为三城(Tripura)之战。”

Verse 182

अष्टमश्चांधकवधो नवमो वृत्रघातनः । ध्वजश्च दशमस्तेषां हालाहलस्ततः परं

第八段是诛灭安达迦(Andhaka);第九段是击杀弗利陀罗(Vṛtra)。他们之中第十段讲述旗幡之事;其后便是哈拉哈拉(Hālāhala)之篇。

Verse 183

प्रथितो द्वादशस्तेषां घोरः कोलाहलस्तथा । हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः

其中第十二篇以可怖的“科罗阿哈拉”(Kolāhala)著称;在那一段中,阿修罗希兰尼亚迦希布(Hiraṇyakaśipu)被那罗辛哈(Narasiṃha)所诛。

Verse 184

वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे पुरा । हिरण्याक्षो हतो द्वंद्वे प्रतिवादे तु दैवतैः

往昔,三界被遍行(并复归)之时,婆利(Bali)为婆摩那(Vāmana)所缚;而希兰尼亚叉(Hiraṇyākṣa)在交战中被诛——他既与天神对抗,便为诸天所灭。

Verse 185

दंष्ट्रया तु वराहेण समुद्रस्थो द्विधा कृतः । प्रह्लादो निर्जितो युद्धे इंद्रेणामृतमंथने

然而,野猪化身伐罗诃(Varāha)以其獠牙,将那沉在海中的者劈为两半;而在搅拌甘露(amṛta)之时,普罗诃罗陀(Prahlāda)在战斗中为因陀罗(Indra)所败。

Verse 186

विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः । इंद्रेणैव च विक्रम्य निहतस्तारकामये

毗卢遮那(Virocana),普罗诃罗陀(Prahlāda)之后裔,常怀弑因陀罗(Indra)之念;然而因陀罗亲自显现更胜的威力,在塔拉迦(Tārakā)之战中将他诛灭。

Verse 187

अशक्नुवत्सु देवेषु त्रिपुरं सोढुमासुरम् । मोहयित्वाऽमृते पीते गोरूपेणासुरारिणा

当诸天无法抵御阿修罗的三城(Tripura)时,阿修罗之敌化作母牛,使其迷惑,于是甘露(amṛta)得以被饮用。

Verse 188

नासन्जीवयितुं शक्या भूयो भूयोमृतासुराः । निहता दानवाः सर्वे त्रैलोक्ये त्र्यंबकेण तु

那些阿修罗一再被杀,已无法复生。确实,三界之中,三目主(Tryambaka,湿婆)诛灭了一切达那婆(dānava)。

Verse 189

असुराश्च पिशाचाश्च दानवाश्चांधके वधे । हता देवमनुष्यैस्ते पितृभिश्चैव सर्वशः

在诛杀安陀迦(Andhaka)之时,阿修罗、毗舍遮(piśāca)与达那婆(dānava)尽皆毁灭;他们四面受击,被诸天、人类以及祖灵(Pitṛ)所杀。

Verse 190

संपृक्तो दानवैर्वृत्रो घोरे कोलाहले हतः । तदा विष्णुसहायेन महेंद्रेण निपातितः

弗栗陀罗(Vṛtra)与达那婆纠缠在一起,在可怖的喧嚣中被杀;随后在毗湿奴的助力下,摩诃因陀罗(Mahendra)将其击倒。

Verse 191

हतस्ततो महेंद्रेण मायाछन्नस्तु योगवित् । वज्रेण क्षणमाविश्य विप्रचित्तिः सहानुगः

随后他被摩诃因陀罗(因陀罗)击倒。然而那位通晓瑜伽者为幻力(māyā)所遮蔽,刹那间遁入金刚杵(vajra)之中;毗钵罗质底(Vipracitti)与其随从亦因此得以延续。

Verse 192

दैत्याश्च दानवाश्चैव संयुताः कृत्स्नशस्तु ते । एते दैवाऽसुरावृत्ताः संग्रामाद्वा दशैव तु

诸代提耶与达那婆亦尽皆齐集。此等天神与阿修罗之事,起于战阵,实为十倍之相。

Verse 193

देवासुरक्षयकराः प्रजानां च हिताय वै । हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ

为众生之福祉,且为摧灭天神与阿修罗之因缘,希兰尼亚迦湿布王统治一阿部陀(千万)年。

Verse 194

द्विसप्ततिं तथान्यानि नियुतान्यधिकानि तु । अशीति च सहस्राणि त्रैलोक्यैश्वर्यवानभूत्

他得三界自在之权,历七十二并更增若干尼由多(万),又及八万(年)。

Verse 195

पर्यायेण तु राजाभूद्बलिर्वर्षार्बुदं पुनः । षष्ठिं चैव सहस्राणि नियुतानि च विंशतिं

依次第而后,婆利复为王一阿部陀(千万)年,另有六万并二十尼由多。

Verse 196

बलिराज्याधिकारे तु यावत्कालश्च कीर्तितः । तावत्कालं तु प्रह्लादो निर्वृतो ह्यसुरैः सह

凡婆利掌国执权之期既如所说,彼时同等之久,普罗诃罗陀与诸阿修罗同住而安然自得。

Verse 197

जयार्थमेते विज्ञेया असुराणां महौजसः । त्रैलोक्यमिदमव्यग्रं महेंद्रेणानुपाल्यते

当知这些威力宏大的阿修罗为胜利之故而来;而此三界安然无扰,皆由摩诃因陀罗(因陀罗)护持。

Verse 198

असम्पन्नमिदं सर्वं यावद्वर्षायुतं पुनः । पर्यायेणैव सम्प्राप्ते त्रैलोक्यं पाकशासने

这一切又长久未成,历经一万年;及至轮次到来之时,三界归于罚恶者帕迦沙娑那(因陀罗)统摄。

Verse 199

ततोऽसुरान्परित्यज्य यज्ञो देवानगच्छत । यज्ञे देवानथ गते दितिजाः काव्यमब्रुवन्

于是祭祀之神(阎若,Yajña)舍离阿修罗而趋向诸天;当祭祀归于诸天之时,底提之子便对迦毗耶(舒克罗)说道。

Verse 200

दैत्या ऊचुः । हृतं मघवता राज्यं त्यक्त्वा यज्ञः सुरान्गतः । स्थातुं न शुक्नुमो ह्यत्र प्रविशामो रसातलम्

代提耶众说道:“摩伽梵(因陀罗)夺取了我们的国度;祭祀(阎若)弃我而归诸天。我们已不能久留于此;让我们进入罗娑多罗(地下界)。”