
The Glory of the Vāsudeva Hymn: Boons, Japa across the Yugas, and Ascent to Vaikuṇṭha
国王聆听了能灭罪的古老赞歌后,即使身处艰难也得以净化,光辉焕发。随后,哈利——毗湿奴(瓦苏德瓦、凯沙瓦、穆拉里)——携神众显现;诸圣贤与诸天神齐集,吟诵吠陀赞颂。毗湿奴赐予恩愿,国王以谦卑、归依与虔敬作答,并首先为王后毗吉瓦拉(Vijvalā)祈求福祉。 哈利阐明“瓦苏德瓦”圣名具有决定性的灭罪之力,能摧毁重罪,并赐其在主之境界中享受安乐。章节又系统说明此赞歌的修持:依四时代规定持名所需时日(克利多时代立刻成就;特雷塔一月;德瓦帕拉六月;迦利一年),并列出每日持诵规则,以及在祭祖(śrāddha)、供水(tarpaṇa)、火供(homa)、祭祀与危难护持中的应用。以因陀罗脱离梵杀罪(brahmahatyā)及那伽等众生得成就(siddhi)为例,证明其灵验;最终国王与王后在天界乐声与庆赞中趋向哈利,章末题记亦将此章安置于维那(Vena)叙事、古鲁圣地(Guru-tīrtha)与奇亚瓦那(Cyavana)传说之中。
Verse 1
विष्णुरुवाच । स्तोत्रं पवित्रं परमं पुराणं पापापहं पुण्यमयं शिवं च । धन्यं सुसूक्तं परमं सुजाप्यं निशम्य राजा स सुखी बभूव
毗湿奴说道:国王聆听了那赞颂之歌——至净至上,具往世书之权威,能除罪垢,满含福德,吉祥圆满——便心生大喜。此颂福泽殊胜,辞句善美,乃最宜反复持诵之真言赞歌。
Verse 2
गतासु तृष्णा क्षुधया समेता देवोपमो भूमिपतिर्बभूव । भार्या च तस्यापि विभाति रूपैर्युक्तावुभौ पापविबंधमाप्तौ
虽受饥渴所逼,那位大地之主却光辉灿然,如天神一般;他的王后亦以容色而熠熠生辉。二人相依相合,却同陷于罪业所结之缚。
Verse 3
देवः सुदेवैः परिवारितोसौ विप्रैः सुसिद्धैर्हरिभक्तियुक्तैः । आगत्य भूपं गतकल्मषं तं श्रीशंखचक्राब्जगदासिधर्ता
那位圣主——执持吉祥之螺、轮、莲、杵与剑——在诸善神与成就的婆罗门、皆具对哈利(Hari)之虔敬者的簇拥下而来,走近那已离罪垢的国王。
Verse 4
श्रीनारदो भार्गव व्यास पुण्या समागतस्तत्र मृकंडसूनुः । वाल्मीकि नामा मुनिर्विष्णुभक्तः समागतो ब्रह्मसुतो वसिष्ठः
彼处,尊者那罗陀(Nārada)到来,与婆伽婆(Bhārgava)及毗耶娑(Vyāsa)同至;德行具足的摩利迦陀之子亦来。又有毗湿奴的奉爱圣仙瓦尔弥基(Vālmīki)前来,及梵天意生之子瓦西什塔(Vasiṣṭha)亦至。
Verse 5
गर्गो महात्मा हरिभक्तियुक्तो जाबालिरैभ्यावथ कश्यपश्च । आजग्मुरेते हरिणा समेता विष्णुप्रिया भागवतां वरिष्ठाः
大圣者伽尔伽,具足对哈利的虔敬之心;又有阇婆利、赖毗耶与迦叶——这些为毗湿奴所钟爱的最上奉主者——同来此处,随哈利而至。
Verse 6
पुण्याः सुधन्या गतकल्मषास्ते हरेः सुपादांबुजभक्तियुक्ताः । श्रीवासुदेवं परिवार्य तस्थुः स्तुवंति भूपं विविधप्रकारैः
那些具福德、真有大幸者——离垢无罪,安住于对哈利殊胜莲足的信奉——环绕着圣瓦苏提婆而立,以种种方式赞颂国王。
Verse 7
देवाश्च सर्वे हुतभुङ्मुखाश्च ब्रह्मा हरिश्चापि सुदिव्यदेव्यः । गायंति दिव्यं मधुरं मनोहरं गंधर्वराजादिसुगायनाश्च
诸天神众,连同火面之神阿耆尼,以及梵天与哈利(毗湿奴),并至上神圣的女神们——又有乾闼婆王等善歌者——齐唱天界妙歌,甘美而摄心。
Verse 8
सुवेद युक्तैः परमार्थसंमितैः स्तवैः सुपुण्यैर्मुनयः स्तुवंति । दृष्ट्वा पतिं भूपतिमेव देवो हरिर्बभाषे वचनं मनोहरम्
诸牟尼以至净赞颂而称扬——依凭吠陀,契合最高真义。见到那位大主、地上之王,天神哈利便说出悦耳动人的言辞。
Verse 9
वरं यथेष्टं वरयस्व भूपते ददाम्यहं ते परितोषितो यतः । हरेस्तु वाक्यं स निशम्य राजा दृष्ट्वा मुरारिं वदमानमग्रे
“国王啊,随你所愿选择恩赐;我必赐予你,因为我已欢喜。”国王听闻哈利之言,见穆拉里在前开口,便恭敬专注地聆听。
Verse 10
नीलोत्पलाभं मुरघातिनं प्रभुं तं शंखचक्रासिगदाप्रधारिणम् । श्रियासमेतं परमेश्वरं तं रत्नोज्ज्वलं कंकणहारभूषितम्
我瞻仰那位主宰——色如青莲、诛灭魔罗(Mura)者——手持海螺、神轮、宝剑与金刚杵;与吉祥天女室利(Lakṣmī)同在的至上神,珠宝辉映,腕钏项链庄严。
Verse 11
रविप्रभं देवगणैः सुसेवितं महार्घहाराभरणैः सुभूषितम् । सुदिव्यगंधैर्वरलेपनैर्हरिं सुभक्तिभावैरवनीं गतो नृपः
其光辉如日,诸天众神恭敬侍奉;以无价花鬘与宝饰庄严,又以殊胜天香与妙膏涂抹。那位国王因对哈利(Hari)的清净信爱之心,而离开大地而去。
Verse 12
दंडप्रणामैः सततं नमाम जयेति वाचाथ महानृपस्तदा । दासोस्मि भृत्योस्मि पुरः स ते सदा भक्तिं न जाने न च भावमुत्तमम्
于是大王说道:“我常以五体投地向你礼拜,并呼喊‘胜利!’我乃你的仆人、你的侍从,恒常立于你前。我不知真正的奉爱(bhakti),也不具最上之内在敬慕之情。”
Verse 13
जायान्वितं मामिह चागतं हरे प्रपाहि वै त्वां शरणं प्रपन्नम् । धन्यास्तु ते माधव मानवा द्विजाः सदैव ते ध्यानमनोविलीनाः
噢哈利(Hari),我与妻子一同来到此处。请护佑我——我确已归依于你。噢摩陀婆(Mādhava),有福的是世人,尤其是两次出生者(婆罗门等),他们的心恒常沉入对你的禅观之中。
Verse 14
समुच्चरंतो भव माधवेति प्रयांति वैकुंठमितः सुनिर्मलाः । तवैव पादांबुजनिर्गतं पयः पुण्यं तथा ये शिरसा वहंति
清净无垢的众生高声称念:“噢摩陀婆(Mādhava),愿你作我归依!”便从此处离去而得至毗昆塔(Vaikuṇṭha)。同样,凡以头顶承载从你莲足流出的圣水者,亦得福德圆满。
Verse 15
समस्ततीर्थोद्भव तोय आप्लुतास्ते मानवा यांति हरेः सुधाम
凡沐浴于汇出一切圣地(tīrtha)之水者,皆得往诣哈利(Hari)至上的居处。
Verse 16
नास्ति योगो न मे भक्तिर्ज्ञानं नास्ति न मे क्रिया । कस्य पुण्यस्य संगेन वरं मह्यं प्रयच्छसि
我无瑜伽,无奉爱(bhakti);无知识,亦无仪轨之行。凭依何等功德之因缘,你赐我此恩?
Verse 17
हरिरुवाच । वासुदेवाभिधानं यन्महापातकनाशनम् । भवता विज्वलात्पुण्याच्छ्रुतं राजन्विकल्मषः
哈利说道:“大王啊,你以清净之心从光明而具功德之源听闻:唯‘婆苏提婆’(Vāsudeva)之名,能灭除重罪。”
Verse 18
तेन त्वं मुक्तिभागी च संजातो नात्र संशयः । मम लोके प्रभुंक्ष्व त्वं दिव्यान्भोगान्मनोनुगान्
因此你确已得分于解脱(mokṣa),此无疑也。在我之界,随心所愿,享受诸天妙乐。
Verse 19
राजोवाच । यदिदेववरोदेयोममदीनस्यवैत्वया । विज्वलायप्रयच्छत्वंप्रथमंवरमुत्तमम्
国王说道:“若你确要赐福于我这无依之人,愿你先赐予毗阇婆罗(Vijvalā)最先、最上、最殊胜之恩。”
Verse 20
हरिरुवाच । विज्वलस्य पिता पुण्यः कुंजलो ज्ञानमंडितः । वासुदेवमहास्तोत्रं नित्यं पठति भूपते
诃利说道:“大王啊,毗阇瓦罗之父——福德清净、以智慧为饰的昆阇罗——日日诵持赞颂婆苏提婆的大圣赞。”
Verse 21
पुत्रैः प्रियासमेतोऽसौ मम गेहं प्रयास्यति । एतत्तु जपते स्तोत्रं सदा दास्याम्यहं फलम्
他将携诸子与爱妻来到我的居所。凡恒常诵念此赞者,我必时时赐与其功德之果。
Verse 22
एवमुक्ते शुभे वाक्ये राजा केशवमब्रवीत् । इदं स्तोत्रं महापुण्यं सफलं कुरु केशव
当那吉祥之语说毕,国王对计舍婆说道:“计舍婆啊,愿你令此大福德之赞得以结成果报。”
Verse 23
हरिरुवाच । कृते युगे महाराज यदा स्तोष्यंति मानवाः । तदा मोक्षं प्रयास्यंति तत्क्षणान्नात्र संशयः
诃利说道:“大王啊,于克利多纪,当世人圆满知足之时,就在那一刹那得证解脱;对此毫无疑惑。”
Verse 24
त्रेतायां मासमात्रेण षड्भिर्मासैस्तु द्वापरे । वर्षेणैकेन च कलौ ये जपंति च मानवाः
在特雷多纪,人们以持咒(japa)仅一月便能成就;在堕婆罗纪需六个月;而在迦利纪则需一年——此乃修持持咒之人所达。
Verse 25
स्वर्गं प्रयांति राजेंद्र वैष्णवं गतिदायकम् । त्रिकालमेककालं वा स्नातो जपति ब्राह्मणः
大王中之王啊,他们将至天界——赐予至上归趣的毗湿奴之境——当婆罗门沐浴后,每日三次行持念诵(japa),或即便每日一次亦然。
Verse 26
यं यं तु वांछते कामं स स तस्य भविष्यति । क्षत्रियो जयमाप्नोति धनधान्यैरलंकृतः
凡人所希求的任何愿望——一一都将为他成就。刹帝利将得胜利,并以财富与丰足谷粮而庄严。
Verse 27
वैश्यो भविष्यति श्रीमान्सुखी शूद्रो भविष्यति । अंत्यजं श्रावयेद्योयं पापान्मुक्तो भविष्यति
吠舍将得富足吉祥;首陀罗将得安乐。凡使贱民听闻此(教诲/诵读)者,亦将从罪业中解脱。
Verse 28
श्रावको नरकं घोरं कदाचिन्नैव पश्यति । मम स्तोत्रप्रसादाच्च सर्वसिद्धो भविष्यति
信奉者永不在任何时候见到可怖的地狱;凭借我此赞颂之恩,他将获得圆满成就。
Verse 29
ब्राह्मणैर्भोज्यमानैश्च श्राद्धकाले पठिष्यति । पितरो वैष्णवं लोकं तृप्ता यास्यंति भूपते
大王啊,若在施行祭祖供养(śrāddha)之时、供食婆罗门之际诵读此文,则诸祖先心满意足,将往生毗湿奴之界。
Verse 30
तर्पणांते जपं कुर्याद्ब्राह्मणो वाथ क्षत्रियः । पिबंति चामृतं तस्य पितरो हृष्टमानसाः
在施行塔尔帕那(tarpaṇa)供奉礼毕时,婆罗门——同样刹帝利——应当行持持咒(japa);其祖先心怀欢喜,仿佛从此功德中饮得甘露(amṛta)。
Verse 31
होमेषु यज्ञमध्ये च भावाज्जपति मानवः । तत्र विघ्ना न जायंते सर्वसिद्धिर्भविष्यति
若有人以真诚之心(bhāva)在火供(homa)与祭祀(yajña)之中持咒(japa),则彼处不生障碍,圆满成就必定随之而来。
Verse 32
विषमे दुर्गसंस्थाने हिंस्रव्याघ्रस्य संकटे । चौराणां संकटे प्राप्ते तत्र स्तोत्रमुदीरयेत्
在险恶之地、难以到达的堡垒或所在之处,遭逢凶猛之虎的危难,或遇盗贼之患时——当于彼时诵念此赞颂之偈。
Verse 33
तत्र शांतिर्महाराज भविष्यति न संशयः । अन्येष्वेव सुभव्येषु राजद्वारे गते नरे
于彼处,伟大之王啊,安宁必定现前,毫无疑虑;当那人来到王门之前,亦复如是,于其他吉祥之境亦然。
Verse 34
वासुदेवाभिधानस्य अयुतं जपते नरः । ब्रह्मचर्येण संस्नातः क्रोधलोभविवर्जितः
若有人将圣名“婆苏提婆”(Vāsudeva)持诵一万遍——以梵行(brahmacarya)之戒律自净,远离嗔怒与贪欲——便得广大功德。
Verse 35
तिलतंडुलकैर्होमं दशांशमाज्यमिश्रितम् । वासुदेवं प्रपूज्यैव दद्यात्प्रयतमानसः
应以芝麻与米粒行火供(护摩),并掺入十分之一量的酥油;既恭敬礼拜婆苏提婆(Vāsudeva)之后,当以调伏专注之心施与所规定的供品或布施。
Verse 36
श्लोकं प्रति ततो देयं होमं ध्यानेन मानवैः । तेषां सुभृत्यवन्नित्यं पार्श्वं नैव त्यजाम्यहम्
因此,人们应当对每一偈都在禅念中奉献护摩。我从不离弃他们身旁,恒常如忠诚的侍从一般守护左右。
Verse 37
कलौ युगे सुसंप्राप्ते स्तोत्रे दास्यं प्रयास्यति । वेदभंगप्रसंगेन यस्य कस्य न दीयते
当迦梨时代完全到来时,真正的赞颂圣歌将陷于卑屈受役;并且借口“破坏吠陀”,它不会随便传授给任何人。
Verse 38
सर्वकामसमृद्धार्थः स चैव हि भविष्यति । एवं हि सफलं स्तोत्रं मया भूप कृतं शृणु
他确将成为诸愿成就、所求昌盛之人。大王啊,请听:这便是我所作之赞歌,确实能结殊胜之果。
Verse 39
ब्रह्मणा निर्मितं तेन जप्तं रुद्रेण वै पुरा । ब्रह्महत्याविनिर्मुक्त इंद्रो मुक्तश्च किल्बिषात्
此咒由梵天(Brahmā)所造,往昔由鲁陀罗(Rudra)所诵;凭此(真言),因陀罗(Indra)确实脱离了杀婆罗门之罪,并从其过咎中得解脱。
Verse 40
देवाश्च ऋषयो गुह्याः सिद्धविद्याधरामराः । नागैस्तु पूजितं स्तोत्रमापुः सिद्धिं मनीप्सिताम्
诸天与圣仙、隐秘的古希亚迦、成就者悉达、持明者毗陀耶陀罗及诸不死者——如同那伽所行般礼敬此圣赞——皆得所愿之灵性成就(悉地)。
Verse 41
पुण्यो धन्यः स वै दाता पुत्रवान्हि भविष्यति । जपिष्यति मम स्तोत्रं नात्र कार्या विचारणा
那位施主实为有福具德、功德圆满;他必得子嗣。他将诵念我的圣赞——对此无需疑虑与思量。
Verse 42
आगच्छ त्वं स्त्रिया सार्धं मम स्थानं नृपोत्तम । हस्तावलंबनं दत्तं हरिणा तस्य भूपतेः
“来吧,至上的君王,与汝妻同来我之住处。哈利赐予那位国王以其手之扶持——即神圣的援助与护佑。”
Verse 43
नेदुर्दुंदुभयस्तत्र गंधर्वा ललितं जगुः । ननृतुश्चाप्सरः श्रेष्ठाः पुष्पवृष्टिं प्रचक्रिरे
彼处战鼓(敦杜毗)轰鸣回响;乾闼婆柔美歌唱;最胜的阿普萨罗起舞,并降下花雨。
Verse 44
देवाश्च ऋषयः सर्वे वेदस्तोत्रैः स्तुवंति ते । ततो दयितया सार्द्धं जगाम नृपतिर्हरिम्
诸天与众圣仙皆以吠陀赞颂歌咏他;随后国王偕其爱妃前往哈利(毗湿奴)之前。
Verse 45
तं स्तूयमानं सुरसिद्धसंघैः स विज्वलः पश्यति हृष्टमानसः । समागतस्तिष्ठति यत्र वै पिता माता च वेगेन महाप्रभावः
他光焰炽盛,欢喜满心,凝望那位正被诸天与悉达众齐声赞颂者。随即,他大有威力的父母疾速而来,站立在他所在之处。
Verse 99
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे नवनवतितमोऽध्यायः
至此,《圣莲花往世书》之《地部》(Bhūmikhaṇḍa)中,维那传说、名为“师圣渡”(Guru-tīrtha)的圣地,以及周耶婆那事迹之第九十九章圆满结束。