Adhyaya 86
Bhumi KhandaAdhyaya 8696 Verses

Adhyaya 86

The Sin of Breaking Households: Citrā’s Past Karma and the Remedy of Hari’s Name and Meditation

昆阇罗向优阇婆罗讲述了奇特罗(Citrā)在婆罗那西的前世:她虽富有,却心向非正法,诋毁他人,充当媒介破坏婚姻,被明言为“gṛhabhaṅga”(毁家破户者)。其恶业导致社会失序、暴力与死亡;死后又在阎摩的惩罚与如“劳罗婆”(Raurava)等地狱中受报,显出业果成熟之严峻。 然而亦有善流:另一次,她恭敬款待一位出家成就者(悉达),为其洗足、设座、供食与水。仅此一善行,令她得生为天妙天女(Divyādevī),成为帝婆陀娑王之女;但余业未尽,仍招致守寡与忧苦。 随后章节转入解脱之教:以对哈利(Hari)的观想、持名(japa)、火供(homa)与誓戒净化,尤以毗湿奴/克里希纳之名号为最胜。并说二种禅观——无相与有相——以灯火喻之:灯焰燃尽业力之“油”,使罪垢渐灭。

Shlokas

Verse 1

कुंजल उवाच । तस्यास्तु चेष्टितं वत्स दिव्या देव्या वदाम्यहम् । पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु

孔迦罗说道:“亲爱的孩子,我将述说那位神圣女神的行持。请听我如实讲述她在前世所作的一切。”

Verse 2

अस्ति वाराणसी पुण्या नगरी पापनाशिनी । तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः

有一座圣城名为婆罗那西,能灭除罪业。在那城中住着一位大智的圣者,名叫苏毗罗。

Verse 3

वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः । तस्य भार्या महाप्राज्ञ चित्रा नाम सुविश्रुता

他生于吠舍种姓,财宝与谷粮丰盈。其妻名为质多罗,聪慧非凡,声名远播。

Verse 4

कुलाचारं परित्यज्य अनाचारेण वर्तते । न मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते

她舍弃家族的正当礼法,以非正行而度日。她实不敬重其夫,只随己意任性而行。

Verse 5

धर्मपुण्यविहीना तु पापमेव समाचरेत् । भर्तारं कुत्सते नित्यं नित्यं च कलहप्रिया

凡缺失达摩与福德者,往往只行罪业;他常常贬辱其配偶,并恒常乐于争斗与不和。

Verse 6

नित्यं परगृहे वासो भ्रमते सा गृहे गृहे । परच्छिद्रं समापश्येत्सदा दुष्टा च प्राणिषु

她常住他人之家,挨家游走;总是窥伺他人的过失,对一切众生恒怀恶意。

Verse 7

साधुनिंदापरा दुष्टा सदा हास्यकरा च सा । अनाचारां महापापां ज्ञात्वा वीरेण निंदिता

她邪恶成性,专以诋毁贤善为乐,亦常成笑柄。勇士知其不守正行、罪业深重,便加以谴责。

Verse 8

स तां त्यक्त्वा महाप्राज्ञ उपयेमे महामतिः । अन्य वैश्यस्य वै कन्यां तया सह प्रवर्तते

他舍弃了她;那位大智大慧之人迎娶了另一位商人的女儿,并与她同住共度人生。

Verse 9

धर्माचारेण पुण्यात्मा सत्यधर्ममतिः सदा । निरस्ता तेन सा चित्रा प्रचंडा भ्रमते महीम्

凭其如法的行持,那位具福德之人——恒以真实与法为念——将她驱逐;于是那奇异而凶烈者便在大地上流浪。

Verse 10

दुष्टानां संगतिं प्राप्ता नराणां पापिनां सदा । दूतीकर्म चकाराथ सा तेषां पापनिश्चया

她落入恶人罪徒之群,心志既定于罪业,便开始充当他们的传信使者与媒介。

Verse 11

गृहभंगं चकाराथ साधूनां पापकारिणी । साध्वीं नारीं समाहूय पापवाक्यैः सुलोभयेत्

随后,那罪恶的女子着手破坏善人的家室;她召来一位贞洁的妇人,以邪恶之言加以诱惑。

Verse 12

धर्मभंगं चकाराथ वाक्यैः प्रत्ययकारकैः । साधूनां सा स्त्रियं चित्रा अन्यस्मै प्रतिपादयेत्

随后,她以能取信于人的劝诱之语造成了对法(dharma)的破坏;那奇异的女子竟将善人之妻交付于他人。

Verse 13

एवं गृहशतं भग्नं चित्रया पापनिश्चयात् । संग्रामं सा महादुष्टाऽकारयत्पतिपुत्रकैः

如是,由于奇特罗(Citrā)决意作恶,百家被毁;那极恶之女又使其夫与诸子投入战斗。

Verse 14

मनांसि चालयेत्पापा पुरुषाणां स्त्रियः प्रति । अकारयच्च संग्रामं यमग्रामविवर्धनम्

那罪女使男子之心为他妇而动摇,又挑起争战——由此增长阎摩(Yama)之境,即死亡之域。

Verse 15

एवं गृहशतं भंक्त्वा पश्चात्सा निधनं गता । शासिता यमराजेन बहुदंडैः सुनंदन

如是,毁坏百家之后,她终至死亡。其后,亲爱的孩子啊,她被阎摩王(Yamarāja)以多种刑罚惩治。

Verse 16

अभोजयत्सुनरकान्रौरवांस्तरणेः सुतः । पाचिता रौरवे चित्रा चित्राः पीडाः प्रदर्शिताः

塔拉那(太阳)之子令他们经历名为“劳罗婆”(Raurava)的可怖地狱;在劳罗婆中他们被灼烧,并显现出种种骇人的刑苦。

Verse 17

यादृशं क्रियते कर्म तादृशं परिभुज्यते । तया गृहशतं भग्नं चित्रया पापनिश्चयात्

人如何造作其业,便如何受其果报。由于吉特拉(Citrā)执意趋向罪恶,她毁坏了一百户人家。

Verse 18

तत्तत्कर्मविपाकोऽयं तया भुक्तो द्विजोत्तम । यस्माद्गृहशतं भग्नं तस्माद्दुःखं प्रभुंजति

婆罗门中的至善者啊,这正是她所受的业报成熟:因为毁坏了一百家宅,所以她如今承受苦痛。

Verse 19

विवाहसमये प्राप्ते दैवं च पाकतां गतम् । प्राप्ते विवाहसमये भर्ता मृत्युं प्रयाति च

当婚期到来之时,命运亦已成熟;及至婚礼之时,丈夫确实走向死亡。

Verse 20

यथा गृहशतं भग्नं तथा वरशतं मृतम् । स्वयंवरे तदा वत्स विवाहे चैकविंशतिः

正如一百户人家被摧毁,同样一百位求婚者也被夺命。亲爱的孩子啊,当时在自择婚(svayaṃvara)以及婚礼之中,共有二十一人死亡。

Verse 21

दिव्या देव्या मया ख्यातं यथा मे पृच्छितं त्वया । एतत्ते सर्वमाख्यातं तस्याः पूर्वविचेष्टितम्

噢神圣的女神,我已依你所问如实说明。关于她往昔的作为与行止,这一切都已向你完整叙述。

Verse 22

उज्ज्वल उवाच । दिव्या देव्यास्त्वया ख्यातं यत्पूर्वं पूर्वचेष्टितम् । तथा पापं कृतं घोरं गृहभंगाख्यमेव च

乌吉瓦拉说:“神圣的夫人,你已讲述了从前所作之事——你往昔的行为;也讲到了那可怖的罪业,名为‘破坏家室’(gṛhabhaṅga)。”

Verse 23

प्लक्षद्वीपस्य भूपस्य दिवोदासस्य वै सुता । केन पुण्यप्रभावेण तया प्राप्तं महाकुलम्

她确是普拉克沙洲(Plakṣadvīpa)之王提沃达萨(Divodāsa)的女儿。凭借何等福德(puṇya)的力量,她得以获得如此尊贵显赫的家族?

Verse 24

एतन्मे संशयं तात तदेतत्प्रब्रवीतु मे । एवं पापसमाचारा कथं जाता नृपात्मजा

这便是我的疑惑,尊者啊,请为我开示:王女为何会生起如此罪恶的行径?

Verse 25

कुंजल उवाच । चित्रायाश्चेष्टितं पुण्यं तत्सर्वं प्रवदाम्यहम् । श्रूयतामुज्ज्वल सुत चित्रया यत्कृतं पुरा

昆阇罗(Kuṃjala)说:我将把奇特罗(Citrā)所行的福业善行尽数宣说。乌吉瓦拉之子啊,请听她在往昔所作之事。

Verse 26

भ्रममाणो महाप्राज्ञः कश्चित्सिद्धः समागतः । कुचैलो वस्त्रहीनश्च संन्यासी स च दंडधृक्

他四处云游时,一位成就的悉地者(Siddha)、大智者来到。衣衫褴褛,几近无衣;他是出家遁世的僧行者,手持锡杖。

Verse 27

कौपीनेन समायुक्तः पाणिपात्रो दिगंबरः । गृहद्वारं समाश्रित्य चित्रायाः परिसंश्रितः

他仅系一条兜裆布(kaupīna),以双手为乞食之钵,此外赤裸;他依止在屋门口,站在Citrā近旁。

Verse 28

स मौनी सर्वमुंडस्तु विजितात्मा जितेंद्रियः । निराहारो जिताहारः सर्वतत्त्वार्थदर्शकः

他是守默的牟尼(maunī),通体剃发,克己制心、降伏诸根;或断食,或节制饮食,并能洞见一切真实原理(tattva)之义。

Verse 29

दूराध्वानपरिश्रांत आतपाकुलमानसः । श्रमेण खिद्यमानश्च तृषाक्रांतः सुपुत्रक

他因长途跋涉而疲惫,心为炎热所扰;困乏难支,且为口渴所制,善子啊。

Verse 30

चित्रा द्वारं समाश्रित्य च्छायामाश्रित्य संस्थितः । तया दृष्टो महात्मा स चित्रया श्रमपीडितः

他依止在Citrā的门前,站在阴凉处。Citrā看见那位大德之人,疲惫不堪,为劳顿所苦。

Verse 31

सेवां चक्रे च चित्रा सा तस्यैव सुमहात्मनः । पादप्रक्षालनं कृत्वा दत्वा आसनमुत्तमम्

奇特拉侍奉那位大德;为他洗足之后,奉上最上妙座。

Verse 32

आस्यतामासने तात सुखेनापि सुकोमले । क्षुधापनोदनार्थं हि भुज्यतामन्नमुत्तमम्

亲爱的,请安坐于这柔软安乐之座;为除饥饿,请享用这上妙之食。

Verse 33

स्वेच्छया परितुष्टश्च शीतलं सलिलं पिब । एवमुक्त्वा तथा कृत्वा देववत्पूज्य तं सुत

“随心饮此清凉之水,得以满足。”说罢便如是行,噢孩子,他以敬神之礼而礼敬之。

Verse 34

अंगसंवाहनं कृत्वा नाशितश्रम एव च । तयोक्तो हि महात्मा स भुक्त्वा पीत्वा द्विजोत्तम

为他按摩诸肢、尽除疲惫之后,那位大德应他们所请而食而饮,噢最胜二生者。

Verse 35

एवं संतोषितः सिद्धस्तया तत्त्वार्थदर्शकः । संतुष्टः सर्वधर्मात्मा किंचित्कालं स्थिरोभवत्

由她如是令其满足,那位成就的仙者——洞见真义、显示实相者——心生欢喜,具足诸法之德,安住片时。

Verse 36

स्वेच्छया स गतो विप्रो महायोगी यथागतम् । गते तस्मिन्महाभागे सिद्धे चैव महात्मनि

那位婆罗门——大瑜伽行者——随其自愿而去,正如他来时一般。当那位最具福德、已成就的伟大圣者离去之后……

Verse 37

सा चित्रा मरणं प्राप्ता स्वकर्मवशमागता । शासिता धर्मराजेन महादंडैः सुदुःखदैः

那位名为Citrā的女子遭逢死亡,受自己业行之力所驱;又被法王(Dharmarāja)以严厉刑罚惩治,痛苦至极。

Verse 38

सा चित्रा नरकं प्राप्ता वेदना व्रातदायकम् । भुंक्ते दुःखं महाराज सा वै युगसहस्रकम्

那位女子Citrā堕入地狱——群苦并施之处——她承受痛楚,噢大王,整整一千个劫(yuga)。

Verse 39

भोगांते तु पुनर्जन्म संप्राप्तं मानुषस्य च । पूर्वं संपूजितः सिद्धस्तया पुण्यवतां वरः

然而当业果受尽之时,人便再次获得人身再生;而那位成就者——曾被她如法供奉礼敬——成为诸有功德者之最胜。

Verse 40

तस्य कर्मविपाकोयं प्राप्ता पुण्यवतां कुले । क्षत्रियाणां महाराज्ञो दिवोदासस्य वै गृहे

这便是他往昔业行的成熟:他生于有德之家,确然是在伟大的刹帝利王提婆陀娑(Divodāsa)的宫中。

Verse 41

दिव्यादेवी च तन्नाम जातं तस्या नरोत्तम । सा हि दत्तवती चान्नं पानं पुण्यं महात्मने

于是她得名为“天女Divyādevī”,噢,人中最胜者。因为她确曾以饮食供养一位大心圣者——这是具福德的供献。

Verse 42

तस्य दानस्य सा भुंक्ते महत्पुण्यफलोदयम् । पिबते शीतलं तोयं मिष्टान्नं च भुनक्ति वै

由那布施之功,她享受广大福德果报的显现;她饮清凉之水,并确实享用甘美之食。

Verse 43

दिव्यान्भोगान्प्रभुंजाना वर्तते पितृमंदिरे । सिद्धस्यास्य प्रभावाच्च राजकन्या व्यजायत

享受诸天妙乐,她安住于祖灵之所;并且凭此成就者的威力,诞生了一位王家公主。

Verse 44

पापकर्मप्रभावाच्च गृहभंगान्महीपते । विधवात्वं भुंजते सा दिव्यादेवी सुपुत्रक

大王啊,由于罪业之力与家宅败坏,那光辉的女子——虽具神圣——也不得不承受寡居之苦,善子啊。

Verse 45

एतत्ते सर्वमाख्यातं दिव्यादेव्या विचेष्टितम् । अन्यत्किन्ते प्रवक्ष्यामि यत्त्वं पृच्छसि मामिह

这一切我都已向你说明——Divyādevī所行的奇妙事迹。如今,你在此问我之事,我还应再为你宣说什么呢?

Verse 46

उज्ज्वल उवाच । कथं सा मुच्यते शोकान्महादुःखाद्वदस्व मे । सास्याच्च कीदृशी बाला महादुःखेन पीडिता

优阇婆罗说道:“请告诉我——她如何才能从忧伤与巨大痛苦中得解脱?那位少女是何等模样,竟被如此深重的悲苦所折磨?”

Verse 47

तत्सुखं कीदृशं तस्माद्विपाकश्च भविष्यति । एतन्मे संशयं तात सांप्रतं छेत्तुमर्हसि

“那是怎样的快乐?由此将结成怎样的果报、怎样的成熟结果?亲爱的啊,请你此刻为我断除这份疑惑。”

Verse 48

कथं सा लभते मोक्षं तंचोपायं वदस्व मे । एकाकिनी महाभागा महारण्ये प्ररोदिति

“她如何获得解脱(莫克沙)?也请告诉我其方法。那位高贵的女子孤身一人,在大森林中悲泣不止。”

Verse 49

विष्णुरुवाच । पुत्रवाक्यं महच्छ्रुत्वा क्षणमेकं विचिंत्य सः । प्रत्युवाच महाप्राज्ञः कुंजलः पुत्रकं प्रति

毗湿奴说道:听到儿子沉重的话语,他沉思片刻;随后,极有智慧的昆阇罗对儿子作了回答。

Verse 50

शृणु वत्स महाभाग सत्यमेतद्वदाम्यहम् । पापयोनिं तु संप्राप्य पूर्वकर्मसमुद्भवाम्

“听着,孩子,福德之人啊;我将对你说真实之语。若因往昔业力而堕入罪恶之胎,众生便随其旧业而受苦。”

Verse 51

तिर्यक्त्वेन च मे ज्ञानं नष्टं संप्रति पुत्रक । अस्य वृक्षस्य संगाच्च प्रयतस्य महात्मनः

亲爱的孩子,我因堕为畜生,如今智慧已然失落;又因与此树相系相伴而更复湮没——虽此树属于那位持戒修行的大圣者。

Verse 52

रेवायाश्च प्रसादेन विष्णोश्चैव प्रसादतः । येन सा लभते ज्ञानं मोक्षस्थानं निवर्तते

凭借瑞瓦(Revā)之恩,亦凭毗湿奴(Viṣṇu)之慈,她得彼智慧;由此智慧,行者甚至回转离开所谓解脱之“处所”。

Verse 53

उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमम् । यास्यते कल्मषान्मुक्ता यथा हेम हुताशनात्

我将宣说无上解脱之道;循此道者得离诸垢,如黄金经火而净。

Verse 54

शुद्धं च जायते वत्स संगाद्वह्नेः स्वरूपवत् । हरेर्ध्यानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः

孩子啊,他亦得清净,如物触火而似火。大智者啊,由观想哈利(Hari),那位大心之人便能迅速净化。

Verse 55

जपहोमव्रतात्पापं नाशं याति हि पापिनाम् । मदं त्यजेद्यथा नागो भयात्सिंहस्य सर्वदा

由持诵(japa)、火供(homa)与誓戒之力,纵是罪人之罪亦必趋于灭尽;如象畏狮,恒常舍弃其傲慢。

Verse 56

नामोच्चारेण कृष्णस्य तत्प्रयाति हि किल्बिषम् । तेजसा वैनतेयस्य विषहीना इवोरगाः

仅仅称诵克里希纳(Kṛṣṇa)之名,罪垢便确然远离;正如在毗那提耶(伽楼罗,Garuḍa)的光辉之下,群蛇仿佛失却毒性。

Verse 57

ब्रह्महत्यादिकाः पापाः प्रलयं यांति नान्यथा । नामोच्चारेण तस्यापि चक्रपाणेः प्रयांति ते

如婆罗门杀(brahmahatyā,杀害婆罗门)等诸罪,唯有一途得以灭尽——即称诵那持轮者(Cakrapāṇi,毗湿奴 Viṣṇu)之名;由其圣名,诸罪归于终灭。

Verse 58

यदा नामशतं पुण्यमघराशिविनाशनम् । सा जपेत स्थिरा भूत्वा कामक्रोधविवर्जिता

每当她诵持那神圣的一百圣名——能摧灭罪业之堆积——当以坚定之心持诵,远离欲望与嗔怒。

Verse 59

सर्वेंद्रियाणि संयम्य आत्मज्ञानेन गोपयेत् । तस्य ध्यानप्रविष्टा सा एकभूता समाहिता

既已摄伏诸根,当以自知之慧守护之。于是那觉知融入其禅观之中,归于一境,圆满摄持。

Verse 60

सा जपेत्परमं ज्ञानं तदा मोक्षं प्रयाति च । तन्मनास्तत्पदे लीना योगयुक्ता यदा भवेत्

当她持诵至上的智慧之法,便得证解脱(mokṣa);当其心安住于“彼”、融入彼境之中,便与瑜伽相应而合一。

Verse 61

उज्ज्वल उवाच । वद तात परं ज्ञानं परमं मम सांप्रतम् । पश्चाद्ध्यान व्रतं पुण्यं नाम्नां शतमिहैव च

优阇婆罗说道:“慈父啊,请为我此刻宣说至上的智慧。其后,也请讲述清净的禅修誓愿,并在此处一并说出那一百个神圣名号。”

Verse 62

कुंजल उवाच । परं ज्ञानं प्रवक्ष्यामि यन्न दृष्टं तु केनचित् । श्रूयतां पुत्र कैवल्यं केवलं मलवर्जितम्

昆阇罗说道:“我将宣说至上的智慧,那是从未被任何人见到的。听着,孩子:那就是解脱之独存(kaivalya),唯独清净,远离一切垢染。”

Verse 63

सूत उवाच । यथा दीपो निवातस्थो निश्चलो वायुवर्जितः । प्रज्वलन्नाशयेत्सर्वमंधकारं महामते

苏多说道:“譬如一盏灯置于无风之处,安定不动、远离风息;当它明焰炽然,便能驱尽一切黑暗,噢,大慧者。”

Verse 64

तद्वद्दोषविहीनात्मा भवत्येव निराश्रयः । निराशो निर्मलो वत्स न मित्रं न रिपुः कदा

同样地,内在无过之人,便真实地无所依止。无所希求、无所期待,且清净无染,孩子啊——他从不把任何人视为朋友或仇敌。

Verse 65

न शोको न च हर्षश्च न लोभो न च मत्सरः । एको विषादहर्षैश्च सुखदुःखैर्विमुच्यते

既无忧亦无喜,既无贪亦无嫉;那独一者解脱于沮丧与亢奋,也解脱于乐与苦。

Verse 66

विषयैश्चापि सर्वैश्च इंद्रियाणि स संहरेत् । तदा स केवलो जातः केवलत्वं प्रजायते

当从一切境界中收摄诸根。于是他成为“独一”,安住于自性;由此生起独住之境——绝对的自在与独立。

Verse 67

अग्निकर्मप्रसंगेन दीपस्तैलं प्रशोषयेत् । वर्त्याधारेण राजेंद्र निःसंगो वायुवर्जितः

大王啊,火被点燃时,灯盏便吸尽并耗干灯油;唯依灯芯而住,离诸系缚,不为风所扰。

Verse 68

कज्जलं वमते पश्चात्तैलस्यापि महामते । कृष्णासौ दृश्यते रेखा दीपस्याग्रे महामते

随后灯焰吐出烟垢,乃至由灯油而生,智者啊。灯焰之端可见一道黑痕,智者啊。

Verse 69

स्वयमाकृष्यते तैलं तेजसा निर्मलो भवेत् । कायवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेत्

灯油自会被引上;经由热力而得澄净。亦复如是,当以此身为灯芯时,当令业之油枯竭耗尽。

Verse 70

विषयान्कज्जलीकृत्य प्रत्यक्षं संप्रदर्शयेत् । जनयेन्निर्मलोभूत्वा स्वयमेव प्रकाशयेत्

将诸境化作微尘烟垢般的无足轻重,当令真理现前昭然。自身清净无垢时,当唤醒它——它将自然而然放光。

Verse 71

क्रोधादिभिः क्लेशसंज्ञैर्वायुभिः परिवर्जितः । निःस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत्

远离嗔怒等诸苦恼之风,当令心无所求、安住不动;于是凭自性内光,自然辉耀显现。

Verse 72

त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थः स्वतेजसा । केवलज्ञानरूपोऽयं मया ते परिकीर्तितः

安住于自位者,以自光照见三界一切。此人本性唯是纯净之智,我已如是为汝宣说。

Verse 73

ध्यानं तस्य प्रवक्ष्यामि द्विविधं तस्य चक्रिणः । केवलज्ञानरूपेण दृश्यते ज्ञानचक्षुषा

我将宣说彼之禅观:对那持轮之主,其禅有二。以智慧之眼观之,唯见其为纯净之智的形相。

Verse 74

योगयुक्ता महात्मानः परमार्थपरायणाः । यं पश्यंति विनिद्रास्तु यत्तपः सर्वदर्शकम्

瑜伽相应之大士,归依最高真实,常住警觉而观见彼;凭那能赐遍观之苦行而得全见之慧。

Verse 75

हस्तपादविहीनं च सर्वत्र परिगच्छति । सर्वं गृह्णाति त्रैलोक्यं स्थावरं जंगमं सुत

虽无手足,然遍行一切处;摄取三界全体——不动与动者,吾子啊。

Verse 76

नासामुखविहीनस्तु घ्राति जक्षिति पुत्रक । अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः

即使没有鼻与口,祂仍能嗅闻并受食,孩子啊。即使没有耳,祂亦闻听一切——世间之主,遍观万有之见证者。

Verse 77

अरूपो रूपसंबद्धः पंचवर्गवशंगतः । सर्वलोकस्य यः प्राणः पूजितः स चराचरैः

虽无形相,却与形相相系;亦随五类之群而现行。凡诸世界之生命气息者,为一切众生——动与不动——所礼敬。

Verse 78

अजिह्वो वदते सर्वं वेदशास्त्रानुगं सुत । अत्वचः स्पर्शनं चापि सर्वेषामेव जायते

儿啊,即使无舌,亦能依《吠陀》与诸论典而宣说一切;即使无肤,亦能感受触觉——此实为众生皆然。

Verse 79

सदानंदो विरक्तात्मा एकरूपो निराश्रयः । निर्जरो निर्ममो न्यायी सगुणो निर्ममोमलः

常住安乐,内心离染,一相不变,无所依止;不老不死,无我无取,持正行法,具诸吉祥德,清净无垢。

Verse 80

अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः । तस्य धाता न चैवास्ति स वै सर्वमयो विभुः

祂不可抗拒,亦为内在之我,使万有归伏;施与一切,且为至上知者。于祂无有造作者;诚然,祂是遍满一切之主,含摄万有。

Verse 81

एवं सर्वमयं ध्यानं पश्यते यो महात्मनः । स याति परमं स्थानममूर्तममृतोपमम्

大德啊,凡如是观此禅定遍满一切者,必至无上住处——无相而近于不死之境。

Verse 82

द्वितीयं तु प्रवक्ष्यामि अस्य ध्यानं महात्मनः । मूर्ताकारं तु साकारं निराकारं निरामयम्

今当宣说此大士之第二禅观:具形具相而可见,然亦有相亦无相,清净无病恼。

Verse 83

ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासना । स तस्माद्वासुदेवेति उच्यते मम नंदन

其遍在之薰习(vāsanā)充满并“芬芳”无比之全宇宙者,故称为婆苏提婆,吾子啊。

Verse 84

वर्षमाणस्य मेघस्य यद्वर्णं तस्य तद्भवेत् । सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम्

如降雨之云为何色,彼即现彼色;光辉如日之威耀,四臂具足,为诸天之主。

Verse 85

दक्षिणे शोभते शंखो हेमरत्नविभूषितः । सूर्यबिंबसमाकारं चक्रं पद्मप्रतिष्ठितम्

其右侧光耀之螺贝,以金与宝珠庄严;又有法轮,形如日轮,安置于莲华之上。

Verse 86

कौमोदकी गदा तस्य महासुरविनाशिनी । वामे च शोभते वत्स हस्ते तस्य महात्मनः

他的钉锤“考摩达姬”(Kaumodakī)——摧灭大阿修罗者——在那位大心者的左手中熠熠生辉,亲爱的孩子。

Verse 87

महापद्मं सुगंधाढ्यं तस्य दक्षिणहस्तगम् । शोभमानः सदैवास्ते सायुधः कमलाप्रियः

他右手执一朵芬芳馥郁的大莲华;那位莲华所爱者恒常安住于光辉之中——具足神圣兵器。

Verse 88

कंबुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणम् । राजमानं हृषीकेशं दशनै रत्नसन्निभैः

其颈如海螺,面容圆满,双目似莲瓣;赫利希凯沙(Hṛṣīkeśa)光耀显现,齿若珍宝。

Verse 89

गुडाकेशाः सन्ति यस्य अधरो विद्रुमाकृतिः । शोभते पुंडरीकाक्षः किरीटेनापि पुत्रक

其发乌黑润泽,下唇如珊瑚之色;那位莲眼之主即使戴着王冠也光辉灿然,亲爱的孩子。

Verse 90

विशालेनापि रूपेण केशवस्तु सुवर्चसा । कौस्तुभेनांकितेनैव राजमानो जनार्दनः

即便具广大之身,凯沙瓦(Keśava)亦以殊胜光辉照耀;贾那尔达那(Janārdana)因胸前的考斯图婆宝珠而更显庄严灿烂。

Verse 91

सूर्यतेजः प्रतीकाश कुंडलाभ्यां प्रभाति च । श्रीवत्सांकेन पुण्येन सर्वदा राजते हरिः

诃利恒常光耀——如日之辉煌——耳环闪烁;胸前圣洁的室利跋蹉(Śrīvatsa)吉祥印记,使祂永远庄严灿然。

Verse 92

केयूरकंकणैर्हारैर्मौक्तिकैरृक्षसन्निभैः । वपुषा भ्राजमानस्तु विजयो जयतां वरः

臂钏、手镯、项链与如珍珠般的宝饰,灿若星辰;胜利之神形体光明,居诸胜者之首而得最上之胜。

Verse 93

भ्राजते सोपि गोविंदो हेमवर्णेन वाससा । मुद्रिकारत्नयुक्ताभिरंगुलीभिर्विराजते

彼之瞿文陀亦复光耀,身披金色衣裳;其指间佩戴镶嵌宝石之戒,愈显庄严璀璨。

Verse 94

सर्वायुधैः सुसंपूर्णैर्दिव्यैराभरणैर्हरिः । वैनतेयसमारूढो लोककर्ता जगत्पतिः

诃利具足一切兵器,佩戴天界庄严之饰,乘毗那底耶(伽楼罗)而行;祂为诸世界之造作者,亦为宇宙之主宰。

Verse 95

एवंतं ध्यायते नित्यमनन्यमनसा नरः । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति

若有人以不二之心恒常观想于祂,便能解脱一切罪垢,往生毗湿奴界(Viṣṇuloka),归于毗湿奴之国土。

Verse 96

एतत्ते सर्वमाख्यातं ध्यानमेव जगत्पतेः । व्रतं चैव प्रवक्ष्यामि सर्वपापनिवारणम्

我已向你详尽宣说对宇宙之主的观想禅修。如今我也将开示那能除尽一切罪业的誓戒之行。