
The Glory of Guru-Tīrtha: The Guru as Supreme Pilgrimage (Prelude: Cyavana and the Parable Cycle)
第85章由先前关于妻子、父亲与母亲之圣地(tīrtha)教诲,转入“师圣地”(Guru-tīrtha)的法义:对弟子而言,师长即至上朝圣处,也是最直接、可见地结出灵性果报的根源。经由太阳、月亮与灯火的譬喻,描绘上师恒常驱散无明黑暗,照亮修行之路。 章中引入示例:圣者契瓦那(Cyavana)为求真实智慧,遍历诸大河流与林伽圣地,尤以那尔玛达河/阿摩罗迦塔卡与唵迦罗(Oṁkāra)为要。其在榕树下歇息时,遇见一户鹦鹉之家;他们的孝敬之德引出另一段叙事(Plakṣadvīpa),其中有反复丧夫的悲剧与一场毁灭性的自择婚(svayaṃvara)。全章由此将外在朝圣与由上师成就的内在、决定性的“渡越”相贯通。
Verse 1
वेन उवाच । भगवन्देवदेवेश प्रसादाच्च मम त्वया । भार्यातीर्थं समाख्यातं पितृतीर्थमनुत्तमम्
韦那说道:“世尊啊,诸天之主啊,承蒙你的恩慈,你已为我宣说了妻圣地(Bhāryā-tīrtha)与无上祖灵圣地(Pitṛ-tīrtha)。”
Verse 2
मातृतीर्थं हृषीकेश बहुपुण्यप्रदायकम् । प्रसादसुमुखो भूत्वा गुरुतीर्थं वदस्व मे
噢,Hṛṣīkeśa,母亲的圣渡(mātṛ-tīrtha)赐予丰厚功德。愿你慈颜垂怜,告诉我导师的圣渡(guru-tīrtha)。
Verse 3
श्रीभगवानुवाच । कथयिष्याम्यहं राजन्गुरुतीर्थमनुत्तमम् । सर्वपापहरं प्रोक्तं शिष्याणां गतिदायकम्
世尊说道:大王啊,我将宣说无上的导师圣渡(Guru-tīrtha);它被称为能除尽诸罪,并赐弟子以其应达的解脱归宿。
Verse 4
शिष्याणां परमं पुण्यं धर्मरूपं सनातनम् । परं तीर्थं परं ज्ञानं प्रत्यक्षफलदायकम्
对弟子而言,此为至上功德——永恒之法(Dharma)的形相;它是至高圣渡、至高智慧,并赐现前可见、立得之果。
Verse 5
यस्यप्रसादाद्राजेंद्र इहैव फलमश्नुते । परलोके सुखं भुंक्ते यशः कीर्तिमवाप्नुयात्
大王啊,蒙其恩典,人于此世即得其果;来世则享安乐,并获得名声与赞誉。
Verse 6
प्रसादाद्यस्य राजेंद्र गुरोश्चैव महात्मनः । प्रत्यक्षं दृश्यते शिष्यैस्त्रैलोक्यं सचराचरम्
大王啊,凭那位大心导师之恩,弟子得以亲见三界——连同一切有动与无动之众。
Verse 7
व्यवहारं च लोकानामाचारं नृपनंदन । विज्ञानं विंदते शिष्यो मोक्षं चैव प्रयाति च
他学习世人往来之道与正当行持,王子啊;弟子得证真实智慧,亦复趋向解脱(摩克沙)。
Verse 8
सर्वेषामेव लोकानां यथा सूर्यः प्रकाशकः । गुरुः प्रकाशकस्तद्वच्छिष्याणां गतिरुत्तमा
如日照耀诸世界,导师亦如是照明;对弟子而言,他即是至上归依与最胜之道。
Verse 9
रात्रावेव प्रकाशेच्च सोमो राजा नृपोत्तम । तेजसा साधयेत्सर्वमधिकारं चराचरम्
月王啊,至上之王者,他尤于夜间放光;以其光辉成就对一切有情与无情、动与不动之权威与摄持。
Verse 10
गृहेप्रकाशयेद्दीपः समूहं नृपसत्तम । तेजसा नाशयेत्सर्वमंधकारघनाविलम्
至上之王啊,灯应照明全宅;以其光辉当灭尽一切浓重昏浊之黑暗。
Verse 11
अज्ञानतमसा व्याप्तं शिष्यं द्योतयते गुरुः । शिष्यप्रकाशौद्द्योतैरुपदेशैर्महामते
导师照耀那为无明黑暗所覆之弟子;大慧者啊,以种种教诲点燃弟子内在之光明。
Verse 12
दिवाप्रकाशकः सूर्यः शशीरात्रौ प्रकाशकः । गृहप्रकाशको दीपस्तमोनाशकरः सदा
太阳照耀白昼;月亮照明长夜。灯盏照亮家宅,恒常摧破黑暗。
Verse 13
रात्रौ दिवा गृहस्यांते गुरुः शिष्यं सदैव हि । अज्ञानाख्यं तमस्तस्य गुरुः सर्वं प्रणाशयेत्
无论夜晚或白昼,于居所深处,师尊当恒常摄受弟子;并彻底摧灭其名为无明的黑暗。
Verse 14
तस्माद्गुरुः परं तीर्थं शिष्याणामवनीपते । एवं ज्ञात्वा ततः शिष्यः सर्वदा तं प्रपूजयेत्
因此,王啊,对弟子而言,师尊乃至上圣地、最胜朝圣处。明了此理,弟子应当恒常礼敬供养彼师。
Verse 15
गुरुं पुण्यमयं ज्ञात्वा त्रिविधेनापि कर्मणा । इत्यर्थे श्रूयते विप्र इतिहासः पुरातनः
当知上师具足清净功德,能遍令人成圣;应以三业——意、语、身——而奉敬之。就此义理,婆罗门啊,传闻有一则古老的故事。
Verse 16
सर्वपापहरः प्रोक्तश्च्यवनस्य महात्मनः । भार्गवस्य कुले जातश्च्यवनो मुनिसत्तमः
大德圣仙赤耶婆那(Chyavana)被宣说为能除尽一切罪业者。此最胜牟尼赤耶婆那,生于婆利古(Bhṛgu)之族——婆伽婆(Bhārgava)一脉。
Verse 17
तस्य चिंता समुत्पन्ना एकदा तु नृपोत्तम । कदाहं ज्ञानसंपन्नो भविष्यामि महीतले
有一次,噢,最胜之王,他心中生起忧思:“我在此世间何时才能具足真正的智慧?”
Verse 18
दिवारात्रौप्रचिंतेत्स ज्ञानार्थी मुनिसत्तमः । एवं तु चिंतमानस्य मतिरासीन्महात्मनः
那位最胜牟尼,为求真知,昼夜深思。如此观照不息之时,那位大心者的意志在心中清明地生起。
Verse 19
तीर्थयात्रां प्रयास्यामि अभीष्टफलदायिनीम् । गृहक्षेत्रादिसंत्यज्य भार्यां पुत्रं धनं ततः
“我将启程朝圣诸圣渡处(tīrtha),它能赐予所愿之果;舍弃家宅、田地等一切,乃至妻子、儿子与财物。”
Verse 20
तीर्थयात्राप्रसंगेन अटते मेदिनीं तदा । लोमानुलोमयात्रां स गंगायाः कृतवान्नृप
随后,他以朝圣诸圣渡处为缘,遍行大地;噢,大王,他沿着恒河(Gaṅgā)行脚,或顺流,或逆流而行。
Verse 21
स तद्वन्नर्मदायाश्च सरस्वत्या मुनीश्वरः । गोदावर्यादिसर्वासां नदीनां सागरस्य च
同样地,噢,最胜圣仙,(他也提及)那尔摩陀河(Narmadā)与萨拉斯瓦蒂河(Sarasvatī),以及以戈达瓦里河(Godāvarī)为首的一切诸河,乃至大海。
Verse 22
अन्येषां सर्वतीर्थानां क्षेत्राणां च नृपोत्तम । देवानां पुण्यलिगानां यात्राव्याजेन सोऽभ्रमत्
噢,诸王之最,他以朝圣为名,遍游其余一切圣渡(tīrtha)与圣域,礼访诸天(deva)吉祥的圣徽。
Verse 23
भ्रममाणस्य तस्यापि तीर्थेषु परमेषु च । भ्रममाणः समायातः क्षेत्राणामुत्तमं तदा । कायश्च निर्मलो जातः सूर्यतेजः समप्रभः
即便他徘徊于最尊胜的圣渡(tīrtha)之中,仍不断游行;终于来到诸圣域之最。于是其身得以净化,光辉灿然,宛如日轮之耀。
Verse 24
च्यवनः काशते दीप्त्या पूतात्मानेन कर्मणा
赤梵那(Cyavana)以光辉而耀,其内在之我因正行而得净化。
Verse 25
नर्मदा दक्षिणे कूले नाम्ना अमरकंटकम् । ददर्श सुमहालिगं सर्वेषां गतिदायकम्
在那尔摩陀河(Narmadā)南岸、名为阿摩罗迦ṇṭaka之处,他见到一尊极伟大的林伽(Liṅga),赐予众生至上归趣。
Verse 26
नत्वा स्तुत्वा तु संपूज्य सिद्धनाथं महेश्वरम् । ज्वालेश्वरं ततो दृष्ट्वा दृष्ट्वा चाप्यमरेश्वरम्
他顶礼、赞颂并如法供奉大自在天(Maheśvara)之“悉檀那他”(Siddhanātha)形相;继而瞻礼“焰主”(Jvāleśvara),亦复瞻礼“天主”(Amareśvara)。
Verse 27
ब्रह्मेशं कपिलेशं च मार्कंडेश्वरमुत्तमम् । एवं यात्रां ततः कृत्वा ओंकारं समुपागतः
他依次朝礼了梵主之神庙Brahmeśa、Kapileśa与最胜的Mārkaṇḍeśvara,遂圆满行脚,抵达圣地Oṁkāra。
Verse 28
वटच्छायां समाश्रित्य शीतलां श्रमनाशिनीम् । सुखेन संस्थितो विप्रश्च्यवनो भृगुनंदनः
他依傍榕树清凉的树荫——能消除疲惫——婆罗门贤者Cyavana,婆利古之子,安然舒适地在彼处歇息。
Verse 29
तत्र स्वनं स शुश्राव समुक्तं पक्षिणा तदा । दिव्यभाषा समायुक्तं ज्ञानविज्ञानसंयुतम्
在那里他听见一声响动,随即由一只鸟说出言语;其语带有神圣之音,并兼具知识与证悟的明辨。
Verse 30
शुकश्च एकस्तत्रास्ते बहुकालप्रजीवकः । कुंजलोनाम धर्मात्मा चतुःपुत्रः सभार्यकः
那里住着一只鹦鹉,寿命绵长,历经多年而存活;名为Kuṃjala,天性正直,与妻同居,并有四子。
Verse 31
आसंस्तस्य हि पुत्राश्च चत्वारः पितृनंदनाः । तेषां नामानि राजेंद्र कथयिष्ये तवाग्रतः
确实,他有四个儿子,皆为父亲之欢喜。大王啊,我今当在你面前述说他们的名字。
Verse 32
ज्येष्ठस्तु उज्ज्वलो नाम द्वितीयस्तु समुज्ज्वलः । तृतीयो विज्वलोनाम चतुर्थश्च कपिंजलः
长子名为乌阇婆罗(Ujjvala);次子名三乌阇婆罗(Samujjvala);三子名毗阇婆罗(Vijvala);四子名迦频阇罗(Kapiṃjala)。
Verse 33
एवं पुत्रास्तु चत्वारः कुंजलस्य महामते । शुकस्य तस्य पुण्यस्य पितृमातृपरायणाः
如是,噢大慧者,昆阇罗(Kuñjala)有四子——那位有德的舒迦(Śuka)之子——皆恭敬依止父母。
Verse 34
भ्रमंति गिरिकुंजेषु द्वीपेषु च समाहिताः । भोजनार्थं तु संक्षुब्धाः क्षुधया परिपीडिताः
他们徘徊于山林幽谷,又渡诸岛屿,心神专注于寻觅;为求食而躁动不安,被饥饿所逼迫。
Verse 35
स्वोदरस्थां क्षुधां सौम्य फलैरमृतसन्निभैः । अमृतस्वादुतोयेन शमयंति नृपोत्तम
噢温和者,至上的君王以甘露般的果实,及如琼浆般甘甜之水,抚平他们腹中的饥渴。
Verse 36
फलं पक्वं रसालं तु आहारार्थं सुपुत्रकाः । दत्वा फलानि दंपत्योर्निक्षिपंति प्रयत्नतः
“亲爱的孩子们,为取食而献上熟透多汁的果实后,他们又郑重其事地把这些果实安放,作为献供给那对夫妇的供品。”
Verse 37
मातुरर्थे महाभागा भक्तिभावसमन्विताः । तुष्टा आहारमुत्पाद्य भक्षयंति पठंति च
为着母亲之故,那些高贵者怀抱虔敬之心,欢喜备办饮食;他们既进食,亦诵读圣典。
Verse 38
तत्र क्रीडारताः सर्वे विलसंति रमंति च । संध्याकालं समाज्ञाय पितुरंतिकमुत्तमम्
在那里,众人沉醉嬉戏,纵情欢悦;然知暮色时分已至,便趋向其至善之父前。
Verse 39
आयांति भक्ष्यमादाय गुर्वर्थं तु प्रयत्नतः । पश्यतस्तस्य विप्रस्य च्यवनस्य महात्मनः
他们竭力携来食物,为奉师长之需;大德婆罗门赤伐那(Cyavana)在旁注视。
Verse 40
आगतास्त्वंडजाः सर्वे पितुर्नीडं सुशोभनम् । पितरं मातरं चोभौ प्रणेमुस्ते महामते
诸卵生幼雏皆归于父之华美巢穴;噫,大心者,他们向父母二人一并顶礼。
Verse 41
ताभ्यां भक्ष्यं समासाद्य उपतस्थुस्तयोः पुरः । सर्वे संभाषिताः पित्रा मानितास्ते सुतोत्तमाः
从父母二者得食之后,他们上前侍立于前;父亲与诸上善之子言语,并加以礼敬。
Verse 42
मात्रा च कृपया राजन्वचनैः प्रीतिसंमितैः । पक्षवातेन शीतेन मातापित्रोश्च ते तदा
王啊,你的母亲亦以慈悲之心,用含情而有分寸的话语,当时以手为你轻扇,如清凉微风;那时你的父母亦皆如此。
Verse 43
तेषामाप्यायनं तौ द्वौ चक्राते पक्षिणौ नृप । आशीर्भिरभिनंद्यैव द्वाभ्यामपि सुपुत्रकान्
大王啊,那两只鸟抚育滋养他们;并以祝福之语加以称庆,也为那两位贤良之子而欢喜。
Verse 44
तैश्च दत्तं सुसंपुष्टमाहारममृतोपमम् । तावेव हि सुसंप्रीतिं चक्राते द्विजसत्तम
他们所施与的食物,滋养充盈,甘美如甘露(amṛta);确实令那二者大为欢悦,婆罗门中最胜者啊。
Verse 45
पिबतो निर्मलं तोयं तीर्थकोटिसमुद्भवम् । स्वस्थानं तु समाश्रित्य सुखसंतुष्टमानसौ
他们饮那清净无垢之水,乃由无量诸圣地渡口(tīrtha)所汇生;遂归于本处住处,心神安乐,满足而宁静。
Verse 46
चक्राते च कथां दिव्यां सुपुण्यां पापनाशिनीम् । विष्णुरुवाच । पित्रा तु कुंजलेनापि पृष्ट उज्ज्वल आत्मजः
随后他们讲述一段神圣的故事,至福至善,能灭除罪垢。毗湿奴说道:即便其父昆阇罗(Kuñjala)发问,光辉之子乌阇瓦罗(Ujjvala)亦作答。
Verse 47
क्वगतोऽस्यद्य पुत्र त्वं किमपूर्वं त्वया पुनः । तत्र दृष्टं श्रुतं पुण्यं तन्मे कथय नंदन
“孩子,你今日去了何处?又遇见了什么新奇之事?亲爱的孩子,请告诉我你在那里所见所闻的功德善事。”
Verse 48
कुंजलस्य पितुर्वाक्यं समाकर्ण्य स उज्ज्वलः । पितरं प्रत्युवाचाथ भक्त्या नमितकंधरः
听闻鸠阇罗之父的话语,他光辉灿然,随即对自己的父亲作答,颈项因虔敬而低垂。
Verse 49
प्रणाममकरोन्मूर्ध्ना कथां चक्रे मनोहराम् । उज्ज्वल उवाच । प्लक्षद्वीपं महाभाग नित्यमेव व्रजाम्यहम्
他以首顶礼,遂展开悦耳的叙述。乌阇婆罗说道:“吉祥之人啊,我每日都前往普罗叉洲(Plakṣadvīpa)。”
Verse 50
महता उद्यमेनापि आहारार्थं महामते । प्लक्षेद्वीपे महाराज संति देशा अनेकशः
贤者啊,即便为求资生而竭力——大王啊——在普罗叉洲(Plakṣadvīpa)亦有无数丰饶之地。
Verse 51
पर्वताः सरिदुद्यान वनानि च सरांसि च । ग्रामाश्च पत्तनाश्चान्ये सुप्रजाभिः प्रमोदिताः
群山、河流、园苑、森林与湖泊;以及村落与诸城邑,都因善良而兴盛的众生而欢悦。
Verse 52
सदा सुखेन संतुष्टा लोका हृष्टा वसंति ते । दानपुण्यजपोपेताः श्रद्धाभावसमन्विताः
他们常以安乐而知足,众人欢喜而居——具足布施、功德与持诵圣咒,并充满信心与虔敬之情。
Verse 53
प्लक्षद्वीपे महाराज आसीत्पुण्यमतिः सदा । दिवोदासस्तु धर्मात्मा तत्सुतासीदनूपमा
大王啊,在普拉克沙洲(Plakṣadvīpa)常住着一位名为“福慧”(Puṇyamati)的人。又有法性正直的提沃达萨(Divodāsa),其女儿无与伦比。
Verse 54
गुणरूपसमायुक्ता सुशीला चारुमंगला । दिव्यादेवीति विख्याता रूपेणाप्रतिमा भुवि
她具足德行与容色,性情淑雅,祥美可亲;世人称她为“天女神”(Divyā Devī),其美貌于大地之上无可比拟。
Verse 55
पित्रा विलोकिता सा तु रूपतारुण्यमंगला । प्रथमे वयसि सा च वर्त्तते चारुमंगला
父亲凝望着她:她以美貌与青春的光彩而显得吉祥。正当年华初绽之时,她确实光辉照人,丽质而祥美。
Verse 56
स तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा । कस्मै प्रदीयते कन्या सुवराय महात्मने
当时提沃达萨见到自己那光耀、神圣的女儿,便问道:“这位少女要许配给谁——是许给大心者苏瓦拉(Suvara)吗?”
Verse 57
इति चिंतापरो भूत्वा समालोक्य नरोत्तमः । रूपदेशस्य राजानं समालोक्य महीपतिः
他如此沉思,至善之人环顾四方;国王见到鲁帕德沙(Rūpadeśa)之主,亦凝目端详于他。
Verse 58
चित्रसेनं महात्मानं समाहूय नरोत्तमः । कन्यां ददौ महात्मासौ चित्रसेनाय धीमते
他召来大心的奇特罗塞那(Citrasena);那位至善之人亦具高贵之德,将女儿许配给睿智的奇特罗塞那。
Verse 59
तस्या विवाहकाले तु संप्राप्ते समये नृप । मृतोसौ चित्रसेनस्तु कालधर्मेण वै किल
大王啊,当她婚期既至之时,那位奇特罗塞那确已身亡——依循迦罗(Kāla)之不可违的时法。
Verse 60
दिवोदासस्तु धर्मात्मा चिंतयामास भूपतिः । सुब्राह्मणान्समाहूय पप्रच्छ नृपनंदनः
具法德的国王提沃达萨(Divodāsa)沉思起来;召集博学清净的婆罗门,王子向他们发问。
Verse 61
अस्या विवाहकाले तु चित्रसेनो दिवं गतः । अस्यास्तु कीदृशं कर्म भविष्यति वदंतु मे
在她婚期之时,奇特罗塞那已升往天界。请告诉我:她将遭遇何等业(karma)与命运?
Verse 62
ब्राह्मणा ऊचुः । विवाहो दृश्यते राजन्कन्यायास्तु विधानतः । पतिर्मृत्युं प्रयात्यस्या नोचेत्संगं करोति च
婆罗门说道:“大王,依照既定法则,少女应当举行如法的婚姻;否则,若其夫不与她圆满结合,他将遭遇死亡。”
Verse 63
महाधिव्याधिना ग्रस्तस्त्यागं कृत्वा प्रयाति च । प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते
若有人为严重而难治之病所困,则可舍弃世俗而出走为游行沙门。大王,此事在《法论》(Dharmaśāstra)中亦有明证。
Verse 64
अनुद्वाहितायाः कन्याया उद्वाहः क्रियते बुधैः । न स्याद्रजस्वला यावदन्यः पतिर्विधीयते
智者为未出嫁的少女筹办婚姻;在依法为她确立另一位夫君之前,不应任其至初潮而成熟女。
Verse 65
विवाहं तु विधानेन पिता कुर्यान्न संशयः । एवं राजन्समादिष्टं धर्मशास्त्रं बुधैर्जनैः
父亲应依所规定的仪轨为女儿成婚,毫无疑问。大王,此《法论》乃智者所制定并所敕令。
Verse 66
विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः । दिवोदासस्तु धर्मात्मा द्विजवाक्यप्रणोदितः
“当为她举行婚礼。”诸位最尊贵的二次生者如是说道。于是正法之心的提沃达萨(Divodāsa),受婆罗门之言所促,便应允了。
Verse 67
विवाहार्थं महाराज उद्यमं कृतवान्नृप । पुनर्दत्ता तु दानेन दिव्यादेवी द्विजोत्तम
大王啊,为了婚姻之事,君主竭力筹办;而那位天界般的圣女又一次以“檀那”(dāna,神圣布施)之礼被奉献相赠,婆罗门中的至上者啊。
Verse 68
रूपसेनाय पुण्याय तस्मै राज्ञे महात्मने । मृत्युधर्मं गतो राजा विवाहे तु महीपतिः
赐予那位功德具足的鲁帕塞那王、那位大心的君主;然而在婚礼之时,国王——大地之主——却归于死亡之法。
Verse 69
यदा यदा महाभाग दिव्यादेव्याश्च भूपतिः । भर्ता च म्रियते काले प्राप्ते लग्नस्य सर्वदा
大福者啊,每当那位国王——天女之夫——命终之时,必定是在“拉格那”(lagna,命定吉时)到来之际。
Verse 70
एकविंशतिभर्तारः काले काले मृताः पितः । ततो राजा महादुःखी संजातः ख्यातविक्रमः
时日推移,她的二十一位夫君相继而亡。于是那位以武勇闻名的国王,陷入深重的悲苦之中。
Verse 71
समालोच्य समाहूय समामंत्र्य स मंत्रिभिः । स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः
他深思熟虑,召集并与群臣商议之后,国王就“自择婚”(svayaṃvara)之事立下宏大的决意。
Verse 72
प्लक्षद्वीपस्य राजानः समाहूता महात्मना । स्वयंवरार्थमाहूतास्तथा ते धर्मतत्पराः
普拉克沙洲的诸王被那位大心者召集;为举行自择婚(svayaṃvara)而受邀,他们亦皆恪守达摩。
Verse 73
तस्यास्तु रूपसंमुग्धा राजानो मृत्युनोदिताः । संग्रामं चक्रिरे मूढास्ते मृताः समरांगणे
诸王为她的容色所迷——在死神驱使下——愚然开战,终在战场上被杀。
Verse 74
एवं तात क्षयो जातः क्षत्रियाणां महात्मनाम् । दिव्यादेवी सुदुःखार्ता गता सा वनकंदरम्
于是,亲爱的啊,那些大心的刹帝利便遭覆灭。那位天界女神为极深悲痛所压,走入林中洞窟。
Verse 75
रुरोद करुणं बाला दिव्यादेवी मनस्विनी । एवं तात मया दृष्टमपूर्वं तत्र वै तदा
那位心志坚毅的年轻天女悲恸啼哭。“亲爱的啊,当时我在彼处见到前所未有之事。”
Verse 76
तन्मे सुविस्तरं तात तस्याः कथय कारणम्
慈爱的父亲啊,请为我详尽说明她那件事的缘由与因由。