Adhyaya 32
Bhumi KhandaAdhyaya 3275 Verses

Adhyaya 32

The Bestowal of Boons upon Aṅga

本章先以光辉灿然的笔触描绘须弥山:山坡如宝石般闪耀,檀香林荫清凉,吠陀之声回荡,其间有天界的乐舞。于此圣境中,恒河(Gaṅgā)清净涌现,遍具诸多圣渡处(tīrtha),能令众生得以净化。 圣者阿伽(Aṅga,阿特里之贤子)来到恒河圣岸,进入一处幽静洞窟,长久修行苦行(tapas),摄伏诸根,恒常观想礼敬赫利希凯沙(Hṛṣīkeśa)。主以种种障碍试炼并坚固其心,而阿伽无畏不动,德光愈显。 毗湿奴(Viṣṇu)遂现庄严妙相:持螺、轮、杵、莲,乘迦楼罗(Garuḍa)而坐,令其自择所愿。阿伽祈求得一具无上法德之子,能续家族、护持诸世界。主赐其所求,并嘱其迎娶贤淑之女,随后隐没不现。

Shlokas

Verse 1

सूत उवाच । नानारत्नैः सुदीप्तांगो हाटकेनापि सर्वतः । राजमानो गिरिश्रेष्ठो यथा सूर्यः स्वरश्मिभिः

苏多说道:“以种种宝石庄饰,通体光耀;又遍处闪烁黄金之辉,那最胜之山灿然照耀,犹如太阳放射自身光芒。”

Verse 2

छायामशोकां संप्राप्य शीतलां सुखदायिनीम् । ध्यायंति योगिनः सर्वे उपविष्टा दृढासने

抵达那无忧之荫,清凉而赐安乐;诸瑜伽行者皆端坐于坚固坐法中,专注禅观。

Verse 3

क्वचित्तपंति मुनयः क्वचिद्गायंति किन्नराः । संतुष्टा ऋषिगंधर्वा वीणातालकराविलाः

在某些地方,牟尼行苦行;在另一些地方,紧那罗歌唱。满足的圣仙与乾闼婆同在,双手忙于弹奏维那琴,并以节拍(tāla)和合。

Verse 4

तालमानलये लीनाः स्वरैः सप्तभिरन्वितैः । मूर्च्छनारत्निसंयुक्तैर्व्यक्तं गीतं मनोहरम्

沉浸于节拍(tāla)、度量与旋律之法(laya)之中,具足七音(svara),并与音阶行进的式样(mūrcchanā)相应,歌声清晰呈现,令人神往。

Verse 5

तस्मिन्वै पर्वतश्रेष्ठे चंदनच्छायसंश्रिताः । गंधर्वा गीततत्वज्ञा गीतं गायंति तत्पराः

在那最胜之山上,乾闼婆依止檀香树荫,通达歌乐真义,专心一意地吟唱圣歌。

Verse 6

नृत्यंति योषितस्तत्र देवानां पर्वत्तोत्तमे । पापहा पुण्यदो दिव्यः सुश्रेयसां प्रदायकः

在那里,在诸天最胜之山上,天女起舞。此境神圣而光明:能灭罪、赐福德,并授予至上的安乐吉祥。

Verse 7

वेदध्वनिः समधुरः श्रूयते पर्वतोत्तमे । चंदनाशोकपुन्नागैः शालैस्तालैस्तमालकैः

在那殊胜之山上,清甜圆满的吠陀梵音回响可闻;四周环绕檀香、阿输迦、奔那伽、娑罗、塔罗与多摩罗诸树。

Verse 8

वटैस्तु मेघसंकाशै राजते पर्वतोत्तमः । संतानकैः कल्पवृक्षै रंभापादपसंकुलैः

那最胜之山熠熠生辉,遍饰如乌云般浓黑的榕树;又密布圣妙的santānaka树与能满愿的kalpavṛkṣa,并有与天女Rambhā相应的林苑丛聚。

Verse 9

नगेंद्रो भाति सर्वत्र नाकवृक्षैः सुपुष्पितैः । नानाधातुसमाकीर्णो नानारत्नचयो गिरिः

山中王者处处放光,天界妙树繁花盛开以为庄严;此山遍布种种矿藏,又堆积无量宝珠珍宝。

Verse 10

नानाकौतुकसंयुक्तो नानामंगलसंयुतः । वेदवृंदैः सुसंजुष्टो ह्यप्सरोगणसंकुलः

其间充满种种庆典妙乐,并以诸多吉祥仪轨为庄严;又有成群吠陀诵者随侍,天女阿普萨拉众亦云集其内。

Verse 11

ऋषिभिर्मुनिभिः सिद्धैर्गंधर्वैःपरिभातिसः । गजैश्चाचलसंकाशैः सिंहनादैर्विराजते

他光辉显现,周围环绕着诸ṛṣi圣仙、牟尼、成就者siddha与乾闼婆gandharva;又以如山之象与狮子般的吼声而更显庄严。

Verse 12

शरभैर्मत्तशार्दूलैर्मृगधूर्तैरलंकृतः । वापीकूपतडागैश्च संपूर्णैर्विमलोदकैः

其上点缀着śarabha神兽、狂猛之虎与狡黠之鹿;又有井、阶井与池塘,皆盈满澄澈清净之水。

Verse 13

हंसकारंडवाकीर्णैः सर्वत्र परिशोभते । कनकोत्पलैश्च श्वेतैश्च रक्तोत्पलैर्विराजते

处处光辉灿然,群集天鹅与迦兰陀婆鸟;又以金莲、白莲与红莲庄严辉映。

Verse 14

नदीस्रवणसंघातैर्विमलैश्चोदकैस्तथा । शालतालैश्च रूपैश्च सगजैः स्फाटिकैस्तथा

又有成群奔流的河道与澄净之水;亦现娑罗树与多罗树之形;并有大象,晶莹如水晶,同样辉耀。

Verse 15

विस्तीर्णैः कांचनैर्दिव्यैः सूर्यवह्निसमप्रभैः । शिलातलैश्च संपूर्णः शैलराजो विराजते

以广阔神圣的金色石板庄饰,光辉如日如火;又具足石质台地,山中王者灿然显耀。

Verse 16

विमानैर्देवतानां च प्रासादैः पर्वतोत्तमैः । हंसचंद्रप्रतीकाशैर्हेमदंडैरलंकृतः

以诸天之毗摩那(天车)与巍然如山的胜妙宫殿为庄严;又饰以金柱,光洁如天鹅与明月。

Verse 17

कलशैश्चामरैर्युक्तैः प्रासादैः परिशोभितः । नानागुणप्रमुदित देववृंदैश्च शोभितः

以顶饰宝瓶(kalaśa)与拂尘(cāmara)具足的宫殿庄严而灿然;又为众天神之群所增辉,因其种种功德而欢喜。

Verse 18

देववृंदैरनेकैश्च गंधर्वैश्चारणैस्तथा । सर्वत्र राजते पुण्यो मेरुर्गिरिवरोत्तमः

为无数天众所环绕,又有乾闼婆与恰罗那相随,圣洁的须弥山——群山之最——四面八方皆放光辉。

Verse 19

तस्माद्गंगामहापुण्या पुण्यतोया महानदी । प्रसूता पुण्यतीर्थाढ्या हंसपद्मैः समाकुला

因此,恒河——至为神圣、净化之水的大河——涌现而出,遍布圣渡与朝圣圣地,满是天鹅与莲花。

Verse 20

मुनिभिः सेव्यमाना सा ऋषिसंघैर्महानदी । एवंगुणं गिरिश्रेष्ठं पुण्यकौतुकमंगलम्

那大河为牟尼与众多仙人所侍奉敬礼,如此具足诸德,依傍群山之最而流,凭圣功与清净欢悦而赐吉祥。

Verse 21

अंगश्चात्रिसुतः पुण्यः प्रविवेश महामुनिः । गंगातीरे सुपुण्ये च एकांते चारुकंदरे

阿伽——阿特里之子、具德的大牟尼——进入一处幽静之地的美丽洞窟,位于恒河至圣的河岸。

Verse 22

तत्रोपविश्य मेधावी कामक्रोधविवर्जितः । सर्वेंद्रियाणि संयम्य हृषीकेशं मनोगतम्

他在彼处端坐,智者远离欲与嗔,摄持诸根,当于内心安住其念于赫利希克沙——诸根之主。

Verse 23

ध्यायमानः स धर्मात्मा कृष्णं क्लेशापहं प्रभुम् । आसने शयने याने ध्याने च मधुसूदनम्

那位具正法之心者观想主克里希纳——能除诸苦的至尊:坐时、卧时、行旅之际,以及入定观修之中,皆念摩杜苏达那。

Verse 24

नित्यं पश्यति युक्तात्मा योगयुक्तो जितेंद्रियः । चराचरेषु जीवेषु तेषु पश्यति केशवम्

那调御之心者,安住于瑜伽、制伏诸根,恒常觉见;于一切动与不动的众生之中,皆得见凯沙瓦(毗湿奴)。

Verse 25

आर्द्रेषु चैव शुष्केषु सर्वेष्वन्येषु स द्विजः । एवं वर्षशतं जातं तप्यमानस्य तस्य च

在潮湿之处与干燥之处,乃至一切其他境况中,那位二生圣者皆如一不变;如是修苦行者,百年圆满而逝。

Verse 26

समालोक्य जगन्नाथश्चक्रपाणिर्द्विजोत्तमम् । बहुविघ्नान्सुघोरांश्च दर्शयत्येव नित्यशः

主宰世间的主宰者、执轮之主贾甘纳塔,观见那最胜二生者,确实不断显现诸多障碍,极其可怖。

Verse 27

तेजसा तस्य देवस्य नृसिंहस्य महात्मनः । निरातंकः स धर्मात्मा दहत्यग्निरिवेंधनम्

凭借那位神圣大魂那罗辛哈的威光,此正法之人无所怖畏,焚尽(敌障与垢染)如火焚薪。

Verse 28

नियमैः संयमैश्चान्यैरुपवासैर्द्विजोत्तमः । क्षीयमाणस्तु संजातो दीप्यमानः स्वतेजसा

凭借誓戒、克制与种种斋戒,这位最殊胜的两次生者日渐消瘦;然而即使形体衰减,他仍以自身内在光辉炽然照耀。

Verse 29

सूर्यपावकसंकाशस्त्वंग एवं प्रदृश्यते । एवं तपःसु निरतं ध्यायमानं जनार्दनम्

你的身躯显现如太阳与火焰般光耀——人们如此见之。正应以此观想阇那尔达那:安住苦行,沉入深定与观照。

Verse 30

आविर्भूयाब्रवीद्देवो वरं वरय मानद । तं च दृष्ट्वा हृषीकेशमंगः परम निर्वृतः

主显现于前,说道:“尊者啊,择取一愿。”阿伽见到赫利希凯沙,心中得无上欢喜与寂然安泰。

Verse 31

तुष्टाव प्रणतो भूत्वा वासुदेवं प्रसन्नधीः

他心神澄明,俯首顶礼,赞颂婆苏提婆。

Verse 32

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने अंगवरप्रदानं । नाम द्वात्रिंशोऽध्यायः

至此,《圣莲花往世书》之《大地篇》维那传中,题为“赐福于阿伽”的第三十二章圆满结束。

Verse 33

गुणरूपाय गुह्याय गुणातीताय ते नमः । गुणाय गुणकर्त्रे च गुणाढ्याय गुणात्मने

向您顶礼——您具诸“古那”(guṇa)之相,幽秘难测,且超越诸古那;向您顶礼——您即诸古那,亦为古那之造作者,具足古那,且以古那为自性本体。

Verse 34

भवाय भवकर्त्रे च भक्तानां भवहारिणे । भवोद्भवाय गुह्याय नमो भवविनाशिने

向婆伐(Bhava,湿婆Śiva)顶礼——他创造世间之有,亦为信众除去轮回系缚;向那从“成为”中显现而又超越之、幽秘的主顶礼;向毁灭“成为”者,我俯首敬拜。

Verse 35

यज्ञाय यज्ञरूपाय यज्ञेशाय नमोनमः । यज्ञकर्मप्रसंगाय नमः शंखधराय च

我再三顶礼于那位——他即祭祀(Yajña)本身,其形即祭祀,亦为祭祀之主。顶礼于那位勤行祭仪之业者,并亦顶礼于执海螺(śaṅkha)者。

Verse 36

नमोनमो हिरण्याय नमो रथांगधारिणे । सत्याय सत्यभावाय सर्वसत्यमयाय च

我再三顶礼于金辉之尊;顶礼于执轮(神盘)者。顶礼于真理,顶礼于以真为性者,亦顶礼于遍具一切真理、全然由真所成者。

Verse 37

धर्माय धर्मकर्त्रे च सर्वकर्त्रे च ते नमः । धर्मांगाय सुवीराय धर्माधाराय ते नमः

向您顶礼——您即法(Dharma)本身,亦为行法者,亦为万事之作者。向您顶礼——以法为身的尊者,英勇而高贵者;向您顶礼——作为法之依止与支柱者。

Verse 38

नमः पुण्याय पुत्राय ह्यपुत्राय महात्मने । मायामोहविनाशाय सर्वमायाकराय ते

向您顶礼——圣者啊,子嗣之名而又无子的大魂之主;摧破由摩耶(māyā)所生迷妄者,亦是一切摩耶之源。

Verse 39

मायाधराय मूर्ताय त्वमूर्ताय नमोनमः । सर्वमूर्तिधरायैव शंकराय नमोनमः

我再三顶礼于商羯罗(Śaṅkara)——执持摩耶者,有形亦无形;我再三顶礼于唯独承载一切形相之主。

Verse 40

ब्रह्मणे ब्रह्मरूपाय परब्रह्मस्वरूपिणे । नमस्ते सर्वधाम्ने च नमो धामधराय च

向梵天(Brahmā)顶礼——其形即梵(Brahman),其自性即至上梵。向您顶礼:一切住处之所依;亦向承载此圣住处者顶礼。

Verse 41

श्रीमते श्रीनिवासाय श्रीधराय नमोनमः । क्षीरसागरवासाय चामृताय च ते नमः

我再三顶礼于吉祥尊主室利尼瓦萨(Śrīnivāsa)、持吉祥者室利达罗(Śrīdhara)。噢,居于乳海者,亦即甘露(amṛta)之精髓者——愿我敬礼于您。

Verse 42

महौषधाय घोराय महाप्रज्ञापराय च । अक्रूराय प्रमेध्याय मेध्यानां पतये नमः

向主顶礼——至上良药,威严可畏,志在大智慧;无残酷之性,至净能净,且为一切清净之主。

Verse 43

अनंताय ह्यशेषाय चानघाय नमोनमः । आकाशस्य प्रकाशाय पक्षिरूपाय ते नमः

向您再三顶礼——无量者、遍一切者、无垢者。向您顶礼,虚空之光辉,化现为鸟之圣形者。

Verse 44

हुताय हुतभोक्त्रे च हवीरूपाय ते नमः । बुद्धाय बुधरूपाय सदाबुद्धाय ते नमः

向您顶礼:您即祭献之供物,亦为享受供物者,亦为供献本身之形。向您顶礼:觉悟者,智者之慧形,恒常觉醒、恒常光明者。

Verse 45

नमो हव्यायकव्याय स्वधाकाराय ते नमः । स्वाहाकाराय शुद्धाय ह्यव्यक्ताय महात्मने

向您顶礼:您为奉献诸天之供与奉献祖灵之供;向您顶礼,您即“svadhā”之圣音。向您顶礼,您即“svāhā”之圣音;清净者、不显者、大我之主。

Verse 46

व्यासाय वासवायैव वसुरूपाय ते नमः । वासुदेवाय विश्वाय वह्निरूपाय ते नमः । हरये केवलायैव वामनाय नमोनमः

向您顶礼:您为毗耶娑;您为婆娑婆;您以诸婆苏为形。向您顶礼:您为婆苏提婆、遍一切者;您以圣火为形。向唯一天主诃利、向伐摩那,稽首再三。

Verse 47

नमो नृसिंहदेवाय सत्वपालाय ते नमः

向那罗辛诃天尊顶礼;向您顶礼,护持一切众生者。

Verse 48

नमो गोविंदगोपाय नम एकाक्षराय च । नमः सर्वाक्षरायैव हंसरूपाय ते नमः

顶礼于您,Govinda,牧牛人的守护者。顶礼于您,独一圣音——神圣的“唵”(Oṁ)。顶礼于您,实为一切音节之总摄。顶礼于您,示现为天鹅(Haṁsa)之形。

Verse 49

त्रितत्त्वाय नमस्तुभ्यं पंचतत्त्वाय ते नमः । पंचविंशतितत्त्वाय तत्त्वाधाराय वै नमः

顶礼于您,三种真实之本原(三谛之Tattva);顶礼于您,五种真实之本原(五谛之Tattva)。确然顶礼于您,二十五种真实之本原,诸理之所依、万法之根基。

Verse 50

कृष्णाय कृष्णरूपाय लक्ष्मीनाथाय ते नमः । नमः पद्मपलाशाय आनंदाय पराय च

顶礼于您——克里希纳(Kṛṣṇa);顶礼于您,其形体即克里希纳本身;顶礼于您,吉祥天女拉克希米(Lakṣmī)之主。顶礼于您,莲叶眼者;顶礼于您,至乐本身;顶礼于您,至上者。

Verse 51

नमो विश्वंभरायैव पापनाशाय वै नमः । नमः पुण्यसुपुण्याय सत्यधर्माय ते नमः

顶礼于您,宇宙之持载者;确然顶礼于您,罪业之摧灭者。顶礼于您,清净功德与无上功德;顶礼于您,真实之法(Dharma)。

Verse 52

नमोनमः शाश्वतअव्ययाय नमोनमः संघ नभोमयाय । श्रीपद्मनाभाय महेश्वराय नमामि ते केशवपादपद्मम्

再三顶礼于您——永恒而不坏者。再三顶礼于您,您的神圣众力之会,体性如虚空。噢光辉的莲脐者(Padmanābha),噢大自在主(Maheśvara):我顶礼于您的莲足,噢凯沙瓦(Keśava)。

Verse 53

आनंदकंद कमलाप्रिय वासुदेव सर्वेश ईश मधुसूदन देहि दास्यम् । पादौ नमामि तव केशव जन्मजन्म कृपां कुरुष्व मम शांतिद शंखपाणे

噢婆苏提婆,喜乐之源,莲华女神迦摩罗(拉克希米)所钟爱者,万有之主,至上统御者,摩度苏陀那——愿赐我谦卑侍奉之分。噢计舍婆,我生生世世顶礼于你双足;愿你垂慈,赐安宁者,手持海螺者。

Verse 54

संसारदारुणहुताशनतापदग्धं पुत्रादिबंधुमरणैर्बहुशोकतापैः । ज्ञानांबुदेन मम प्लावय पद्मनाभ दीनस्य मच्छरणरूपभवस्व नाथ

我被轮回世间之火的酷烈热焰所灼,又因儿子等亲族之亡而受诸多忧苦折磨——噢莲脐者(Padmanābha),愿以知识之海淹润我。噢主宰,愿你以你双足为形,成为我这无助者的归依。

Verse 55

एवं स्तोत्रं समाकर्ण्य त्वंगस्यापि महात्मनः । दर्शयित्वा स्वकं रूपं घनश्यामं महौजसम्

于是,他听罢这赞颂之歌——亦由大心者特梵伽(Tvaṅga)所献——便显现自身形相:如雨云般深黛,且放射无比光辉。

Verse 56

शंखचक्रगदापाणिं पद्महस्तं महाप्रभुम् । वैनतेयसमारूढमात्मरूपं प्रदर्शितम्

他显现自身真实之相:大主手执海螺、神轮与金刚杵(钉锤),又持莲华,端坐于毗那底耶(迦楼罗)之上。

Verse 57

सर्वाभरणशोभांगं हारकंकणकुंडलैः । राजमानं परं दिव्यं निर्मलं वनमालया

他诸肢以一切饰物之光辉而灿然——项链、臂钏与耳环——光耀夺目,至为神圣而清净,并以林野花鬘为庄严。

Verse 58

अंगस्याग्रे हृषीकेशः शोभमान महत्प्रभः । श्रीवत्सांकेन पुण्येन कौस्तुभेन जनार्दनः

在阿ṅ伽之前,赫利希凯沙屹立其前,放射无量光辉——阇那尔达那,胸前具圣吉祥纹(Śrīvatsa),并佩戴考斯图婆宝珠(Kaustubha)。

Verse 59

दर्शयित्वा स्वकं देहं सर्वदेवमयो हरिः । स उवाच महात्मानं तमंगमृषिसत्तमम्

显现自身圣体之后——那由诸天神性汇聚而成的哈利——他便对那位大心的圣者、阿ṅ伽中最上之仙(ṛṣi)开口说道。

Verse 60

भो भो विप्र महाभाग श्रूयतां वचनं शुभम् । मेघगंभीरघोषेण समाभाष्य द्विजोत्तमम्

“噢,尊贵而大福德的婆罗门,请聆听这吉祥之言。”他以如云雷般深沉洪亮的声音,对最胜的两生者(dvija)如是说道。

Verse 61

तपसानेन तुष्टोस्मि वरं वरय शोभनम् । तुष्यमाणं हृषीकेशं तं दृष्ट्वा कमलापतिम्

“我因你的苦行而欢喜;当择取一份殊胜的恩赐。”见到掌诸根的赫利希凯沙心生满足,并瞻仰那位与莲华女神迦摩罗(拉克希米)为伴的主宰……

Verse 62

दीप्यमानं विराजंतं विश्वरूपं जनेश्वरम् । पादांबुजद्वयं तस्य प्रणम्य च पुनःपुनः

他一次又一次顶礼于那位光耀庄严、以全宇宙为身的众生之主的双莲足,然后继续行事(或继续陈述)。

Verse 63

हर्षेण महताविष्टस्तमुवाच जनार्दनम् । दासोहं तव देवेश शंखचक्रगदाधर

他被巨大的喜悦所充满,对阇那尔达那说道:“噢诸天之主,执螺、持轮、握杵者——我乃你的仆从。”

Verse 64

वरं मे दातुकामोसि देहि त्वं वंशजं सुतम् । दिवि शक्रो यथाऽभाति सर्वतेजः समन्वितः

既然你愿赐我恩典,请赐我一位出自我族系的儿子——在天界如释迦罗(因陀罗)般光耀,具足一切辉煌。

Verse 65

तादृशं देहि मे पुत्रं सर्वलोकस्य रक्षकम् । सर्वदेवप्रियं देव ब्रह्मण्यं धर्मपंडितम्

请赐我这样的儿子——护持一切世界;为诸神所爱,噢主宰;敬奉婆罗门,通达达摩之理。

Verse 66

दातारं ज्ञानसंपन्नं धर्मतेजः समन्वितम् । त्रैलोक्यरक्षकं कृष्ण सत्यधर्मानुपालकम्

噢克里希纳——赐福者,具足真知,放射达摩之光辉;护持三界,坚定守护真实之达摩。

Verse 67

यज्वनामुत्तमं चैकं शूरं त्रैलोक्यभूषणम् । ब्रह्मण्यं वेदविद्वांसं सत्यसंधं जितेंद्रियम्

他是诸祭祀者中最卓越、独一无二者;为勇士,乃三界之庄严;敬奉婆罗门与达摩;通晓吠陀;坚守真实;并能制御诸根。

Verse 68

अजितं सर्वजेतारं विष्णुं तेजःसमप्रभम् । वैष्णवं पुण्यकर्तारं पुण्यजं पुण्यलक्षणम्

毗湿奴——不可战胜、征服一切者,光辉灿然——乃毗湿奴派之主,行功德者;由功德而生,以功德为相。

Verse 69

शांतं तु तपसोपेतं सर्वशास्त्रविशारदम् । वेदज्ञं योगिनां श्रेष्ठं भवतो गुणसंनिभम्

诚然,他安寂澄然,具足苦行之力,通达一切论典;了知吠陀,为诸瑜伽行者之最胜,德行与汝相类。

Verse 70

ईदृशं देहि मे पुत्रं दातुकामो यदा वरम् । श्रीवासुदेव उवाच । एभिर्गुणैः समोपेतस्तव पुत्रो भविष्यति

“当你愿意赐予恩愿之时,请赐我如此之子。”圣瓦苏提婆说道:“你的儿子必定具足这些德相。”

Verse 71

अत्रिवंशस्य वै धर्ता विश्वस्यास्य महामते । तेजसा यशसा पुण्यैः पितरं चोद्धरिष्यति

大慧者啊,他将成为阿特里族系的支柱;并以其光辉、名望与功德,也将拔济其父。

Verse 72

उद्धरिष्यति यः सत्यैः पितरं च पितामहम् । भवान्यास्यति मे स्थानं तद्विष्णोः परमं पदम्

凡以真实之行拔济其父与祖父者,必得至我之住处——那毗湿奴的至上境界。

Verse 73

इत्युक्त्वा देवदेवेशस्तमंगं प्रति स द्विज । कस्यचित्पुण्यवीर्यस्य पुण्यां कन्यां विवाहय

说罢,婆罗门啊,诸天之主对安伽说道:“娶一位具德的圣洁少女为妻,她当出自某位福德(puṇya)与灵力深厚之人之家。”

Verse 74

तस्यामुत्पादय सुतं शुभं पुण्यावह प्रियम् । स भविष्यति धर्मात्मा मत्प्रसादान्महामते

在她身上生下一子——吉祥、可爱、能带来福德(puṇya)。凭我的恩典,伟大心志者啊,他将成为正法之心的人。

Verse 75

सर्वज्ञः सर्ववेत्ता च यादृशो वांछितस्त्वया । एवं वरं ततो दत्वा अंतर्धानं गतो हरिः

于是,遍知一切的哈利(Hari)如你所愿赐下恩赐,随后便隐没不见。