
The Sumanā Narrative: Vaiṣṇava Hospitality, Āṣāḍha Śukla Ekādaśī, and the Rise to Brāhmaṇahood
《莲花往世书》PP.2.18(Sumanopākhyāna)阐明:以奉爱(bhakti)为光的正法(dharma),能转变业力的趋向与社会—灵性的身份。求道者Somaśarmā请问圣师Vasiṣṭha:自己如何在舍离首陀罗(śūdra)之境后得成婆罗门(brāhmaṇa);Vasiṣṭha遂叙述其前生因缘。 一位德行具足的毗湿奴信奉者婆罗门作为行脚宾客到来,居士(gṛhastha)一家——妻子Sumanā与诸子——以住处、恭敬迎接、洗足、饮食与布施相待。适逢阿沙陀月(Āṣāḍha)白半月的十一斋日(Śukla Ekādaśī),传说Hṛṣīkeśa入于瑜伽睡眠;众人遂守夜、礼拜、歌咏并持斋,继而行破斋(pāraṇa),并继续向婆罗门施与供养。 本章以此说明:与圣者相应、守Ekādaśī誓戒(vrata)、并专心敬奉Govinda,能净除前世贪积与渴爱之垢,成就真实、正义、清净家系,并得至最高的归宿。
Verse 1
सोमशर्मोवाच । पूर्वजन्मकृतं पापं त्वयाख्यातं च मे मुने । शूद्रत्वेन तु विप्रेन्द्र मयैव परिवर्जितम्
索摩沙尔玛说道:“圣者啊,你已向我述说前生所造之罪;然而,最胜婆罗门啊,我已亲自舍弃了首陀罗之身分。”
Verse 2
विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम । तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपंडित
我确已获得婆罗门之位;此事如何成就,最胜二次生者啊?请为我详说其全部因缘,通达知识与证悟之智的贤者。
Verse 3
वसिष्ठ उवाच । यत्त्वया चेष्टितं पूर्वं कर्मधर्माश्रितंद्विज । तदहं संप्रवक्ष्यामि श्रूयतां यदि मन्यसे
瓦西什塔说道:噢,二次生者,我将详尽宣说你先前那依止正行与法(dharma)的作为;若你愿意,请谛听。
Verse 4
ब्राह्मणः कश्चिदनघः सदाचारः सुपंडितः । विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः
有一位无瑕的婆罗门,行止端正,学识渊博;他是毗湿奴的奉献者,心性正直,恒常唯归依毗湿奴。
Verse 5
यात्राव्याजेन तीर्थानां भ्रमत्येकः समेदिनीम् । अटमानः समायातस्तव गेहं महामतिः
他以朝礼诸圣地(tīrtha)为名,一位胸怀宏大之人遍游大地;在漫行之中,如今已来到你家,噢智者。
Verse 6
याचितं स्थानमेकं वै वासार्थं द्विजसत्तम । तवैव भार्यया दत्तं त्वया च सह पुत्रकैः
噢,最上之婆罗门,那为居住而请求的一处地方,已由你自己的妻子赐与;你也与诸子一同允诺了。
Verse 7
एयतामेयतां ब्रह्मन्सुखेन सुगृहे मम । वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः
“来吧,来吧,婆罗门啊,安然进入我这善宅。”他一再说道:“毗湿奴派的婆罗门是清净而具福德的。”
Verse 8
सुखेन स्थीयतामत्र गृहोयं तव सुव्रत । अद्य धन्योस्म्यहं पुण्यमद्य तीर्थमहं गतः
愿你在此安住无忧,噢具清净誓愿者——此屋即为你所有。今日我得福庆;今日我获功德,因为今日我已抵达神圣的朝圣圣地(tīrtha)。
Verse 9
अद्य तीर्थफलं प्राप्तं तवांघ्रिद्वयदर्शनात् । गवां स्थानं वरं पुण्यं निवासाय निवेदितम्
今日因得瞻仰你双足,我已获得朝圣之圆满果报;并且一处最殊胜、最清净的牛舍圣地已奉献为居所。
Verse 10
अंगसंवाहनं कृत्वा पादौ चैव प्रमर्दितौ । क्षालितौ चपुनस्तोयैः स्नातः पादोदकेन हि
既为诸肢作按摩,又细细摩拭双足,并再以清水洗净;由此人确得清净,如同沐浴于足水(pādodaka)之中。
Verse 11
सद्यो घृतं दधिक्षीरमन्नं तक्रं प्रदत्तवान् । तस्मै च ब्राह्मणायैव भवानित्थं महात्मने
他立刻将酥油、酸乳、牛奶、饮食与酪浆,奉施给那位婆罗门——正是如此,噢尊者,奉与那位大心之人。
Verse 12
एवं संतोषितो विप्रस्त्वया च सह भार्यया । पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपंडितः
如是,他因你与妻子之款待而心满意足;那位大福德的毗湿奴信徒(Vaiṣṇava)、通达灵性智慧的学者,便与诸子一同安住。
Verse 13
अथ प्रभाते संप्राप्ते दिने पुण्ये सुभाग्यदे । आषाढस्य तु शुद्धस्यैकादशी पापनाशनी
当清晨到来——在那赐予吉祥福运的圣日——阿沙陀月明半月的埃迦达希降临,能摧灭诸罪。
Verse 14
तस्मिन्दिने सुसंप्राप्ता सर्वपातकनाशिनी । यस्यां देवो हृषीकेशो योगनिद्रां प्रगच्छति
在那一天,能灭尽一切罪业的圣时到来;就在此日,主赫利希凯沙进入瑜伽之眠(瑜伽睡)。
Verse 15
तां प्राप्य च ततो लोकास्तत्यजुर्बुद्धिपंडिताः । गृहस्य सर्वकर्माणि विष्णुध्यानरता द्विज
得至彼境之后,睿智明达之人便舍离一切家务;婆罗门啊,他们安住于对毗湿奴的禅观之中。
Verse 16
उत्सवं परमं चक्रुर्गीतमंगलवादनैः । स्तुवंति ब्राह्मणाः सर्वे वेदैः स्तोत्रैः सुमंगलैः
他们以吉祥歌咏与乐器奏鸣举行盛大庆典;诸婆罗门皆以吠陀与吉祥赞颂之偈而称赞礼赞。
Verse 17
एवं महोत्सवं प्राप्य स च ब्राह्मणसत्तमः । तस्मिन्दिने स्थितस्तत्र संप्राप्तं समुपोषणम्
如是得逢此大庆典,那位最胜婆罗门便于当日安住其处,而持守斋戒(优婆婆娑)之行亦临于其身。
Verse 18
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे । ऐंद्रे सुमनोपाख्याने अष्टादशोऽध्यायः
至此,《圣莲花往世书》(Śrī Padma Purāṇa)之《地部》(Bhūmi-khaṇḍa)中,爱因陀罗分部(Aiṃdra)的《苏摩诺传说》(Sumanopākhyāna)第十八章圆满结束,属于五万五千颂之汇编。
Verse 19
श्रुते तस्मिन्महापुण्ये भार्या पुत्रैस्तु प्रेरितः । संसर्गादस्य विप्रस्य व्रतमेतत्समाचर
听闻那极具功德的圣传之后,在妻子与儿子们的劝勉推动下,他因与那位婆罗门(brāhmaṇa)结缘相交,遂开始奉行此誓愿。
Verse 20
तदाकर्ण्य महद्वाक्यं सर्वपुण्यप्रदायकम् । व्रतमेतं करिष्यामि इति निश्चितमानसः
听到那崇高之语、能赐一切功德者,他心意坚定,默然立誓:“我必当奉行此誓愿。”
Verse 21
भार्या पुत्रैः समं गत्वा नद्यां स्नानं कृतं त्वया । हृष्टेन मनसा विप्र पूजितो मधुसूदनः
婆罗门啊,你与妻子儿女同往河中沐浴;以欢喜之心,你礼敬了摩度苏达那(Madhusūdana,毗湿奴 Viṣṇu)。
Verse 22
सर्वोपहारैः पुण्यैश्च गंधधूपादिभिस्तथा । रात्रौ जागरणं कृत्वा नृत्यगीतादिभिस्तथा
以一切吉祥供品,并以香料、熏香等供养,当于夜间守夜不眠;亦当以舞蹈、歌咏等方式作虔敬的欢庆。
Verse 23
ब्राह्मणस्य प्रसंगेन नद्यां स्नानं पुनः कृतम् । पूजितो देवदेवेशः पुष्पधूपादिमंगलैः
因与婆罗门相交,又在河中再行沐浴;并以花、香等吉祥供品礼敬“诸天之主”。
Verse 24
भक्त्या प्रणम्य गोविंदं स्नापयित्वा पुनः पुनः । निर्वापं तादृशं दत्तं ब्राह्मणाय महात्मने
以虔敬礼拜戈文达,并一再为(神像)沐浴;随后又将同样的“尼尔瓦帕”食供奉献给一位大德婆罗门。
Verse 25
भक्त्या प्रणम्य तं विप्रं दत्ता तस्मै सुदक्षिणा । कृतवान्पारणं विप्र पुत्रैर्भार्यादिभिः समम्
以虔敬向那位婆罗门顶礼,并奉上丰厚的达克希纳;随后婆罗门与其子、妻及家眷一同行“帕拉那”(斋戒圆满之餐)。
Verse 26
प्रेषितो भक्तिपूर्वेण सद्भावेन त्वयैव सः । एवं व्रतं समाचीर्णं त्वया वै द्विजसत्तम
他确由你亲自以虔敬与至诚之心遣来。如此,你已如法圆满守持此誓愿,噢最胜的二次生者。
Verse 27
संगत्या ब्राह्मणस्यैव विष्णोश्चैव प्रसादतः । भवान्ब्राह्मणतां प्राप्तः सत्यधर्मसमन्वितः
因与婆罗门相交,又蒙毗湿奴之恩,你已得婆罗门之位分,具足真实与正法。
Verse 28
तस्य व्रतस्य भावेन त्वया प्राप्तं महत्कुलम् । भूसुराणां महाप्राज्ञं सत्यधर्मसमाविलम्
由于你以那誓愿的真诚之心修持,你得获伟大的家族传承——在诸“地上天”(婆罗门)之中——大智卓越,具足真实与正法(dharma)。
Verse 29
तस्मै तु ब्राह्मणायैव वैष्णवाय महात्मने । श्रद्धया सत्यभावेन दत्तमन्नं सुसंस्कृतम्
向那位婆罗门——确为大心的毗湿奴信徒(Vaiṣṇava)——以信心与真诚之意,奉上精心烹制的食物。
Verse 30
तस्य दानस्य भावेन मिष्टान्नमुपतिष्ठति । महामोहैः प्रमुग्धो हि तृष्णया व्यापितं मनः
由那布施之心的推动,甘美之食自来现前;然而被大迷惑所蒙蔽者,其心为渴爱所遍满。
Verse 31
पूर्वजन्मनि ते विप्र अर्थमेव प्रसंचितम् । न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया
婆罗门啊,你在前世只知积聚财物;确实未曾施与婆罗门,也未曾施与其他贫乏困厄之人。
Verse 32
दारेषु पुत्रलोभेन म्रियमाणेन वै तदा । तस्य पापस्य भावेन दारिद्रं त्वामुपाविशत्
当时他临终之际——因对妻所生之子的贪求而被欲火吞噬——由那罪业之力,贫困便降临并附着于你。
Verse 33
पुत्रलोभं परित्यज्य स्नेहं त्यक्त्वा प्रदूरतः । अपुत्रवान्भवाञ्जातस्तस्य पापस्य वै फलम्
舍弃对儿子的贪求,远远抛却情爱;你遂成无嗣之人——此确是那罪业之果。
Verse 34
सुपुत्रं च कुलं विप्र धनधान्यवरस्त्रियः । सुजन्ममरणं चैव सुभोगाः सुखमेव च
婆罗门啊,(人得福报者)有贤子与高贵家族,财宝与谷粮,良妻;亦有吉祥之生与善终,善乐受用,唯有安乐。
Verse 35
राज्यं स्वर्गश्च मोक्षश्च यद्यद्दुर्लभमेव च । प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः
王权、天界、解脱,以及一切真正难得之物——皆由那大心之主毗湿奴的恩典而来。
Verse 36
तस्मादाराध्य गोविन्दं नारायणमनामयम् । प्राप्स्यसि त्वं परं स्थानं तद्विष्णोः परमं पदम्
是故当礼敬戈文达——那无垢无病之主那罗延——你将得至至高住处:即毗湿奴的无上境界、最高之足。
Verse 37
सुपुत्र त्वं धनं धान्यं सुभोगान्सुखमेव च । पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितम्
贤子、财物与谷粮、善妙受用与安乐亦然——你所努力求得的一切,实乃前生所作之业的果报。
Verse 38
तन्मया कथितं विप्र तवाग्रे परिनिष्ठितम् । एवं ज्ञात्वा महाभाग नारायणपरो भव
婆罗门啊,我所说的一切已在你面前坚定陈明。既已如是了知,福德之人啊,当全心归依那罗延(Nārāyaṇa)。
Verse 39
ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि । हर्षेणयुक्तः स महानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र
那位德行卓绝、最上之婆罗门,确已受梵天之子教诲。心怀欢喜,那位高贵者当即于彼处以虔敬礼拜瓦西什塔(Vasiṣṭha)。
Verse 40
आमंत्र्य विप्रं स जगाम गेहं तां प्राप्य भार्यां सुमनां प्रहर्षः । सर्वं हि वृत्तं ममपूर्वचेष्टितं तेनैव विप्रेण तव प्रसादात्
他恭敬辞别那位婆罗门,便回到家中。见到妻子苏玛那(Sumanā)时,心中欢喜充满。诚然,一切所发生之事——我先前的努力及其结果——皆由那位婆罗门成就,承蒙你的恩德。
Verse 41
भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहं परिनाशितं मे । आराधयिष्ये मधुसूदनं हि यास्यामि मोक्षं परमं पदं तत्
吉祥的你啊,因瓦西什塔(Vasiṣṭha)开显的教诲,我的迷妄今日即已消灭。故我将礼敬摩度苏达那(Madhusūdana);我必得解脱,抵达那至上的归处。
Verse 42
आकर्ण्य वाक्यं परमं महांतं सुमंगलं मंगलदायकं हि । हर्षेण युक्ता तमुवाच कांतं पुण्योसि विप्रेण विबोधितोऽसि
听闻那至上而崇高之语——极其吉祥,真实能赐吉祥——她欢喜充盈,对所爱之人说道:“你真有福;你已被婆罗门开示而觉悟。”