
Narrative of Sumanā: The Quest for a Worthy Son and the Karmic Roots of Poverty
梭摩舍尔摩问:如何得一位全知而具德的儿子。依苏摩那之劝,他来到恒河岸边,向圣者婆悉吒恭敬顶礼;诸仙接纳他,并请他陈述所疑。 他问贫穷之因,以及为何因子嗣而得的安乐不能生起。婆悉吒开示“堪称贤子”之相:守真言、通晓经典、乐施布施、能自制、常念毗湿奴,并孝敬父母。 随后说明业报根源:前生为贪欲所驱,废弃布施、礼拜与施行 śrāddha(祭祖供养),又聚敛财物,故今生受贫。章末申明:富足、良配与家族延续,唯由毗湿奴之恩而成。
Verse 1
सोमशर्मोवाच । सर्वं देवि समाख्यातं धर्मसंस्थानमुत्तमम् । कथं पुत्रमहं विंद्यां सर्वज्ञं गुणसंयुतम्
索摩沙尔玛说道:“女神啊,你已圆满阐明至上的法(Dharma)之建立。我当如何得一子——通达一切、具足诸德?”
Verse 2
वद त्वं मे महाभागे यदि जानासि सुव्रते । दानधर्मादिकं भद्रे परत्रेह न संशयः
若你知晓,请告诉我,福德具足、持善誓者:吉祥者啊,关于布施、义务等法门——其果报于此世与来世皆无疑虑。
Verse 3
सुमनोवाच । वसिष्ठं गच्छ धर्मज्ञं तं प्रार्थय महामुनिम् । तस्मात्प्राप्स्यसि वै पुत्रं धर्मज्ञं धर्मवत्सलम्
苏摩那说道:“去见通晓法(Dharma)的婆悉吒(Vasiṣṭha),恳求那位大牟尼。由他你必得一子——知法而爱义,敬奉正道。”
Verse 4
सूत उवाच । एवमुक्ते तया वाक्ये सोमशर्मा द्विजोत्तमः । एवं करिष्ये कल्याणि तव वाक्यं न संशयः
苏多说道:她说完此言后,婆罗门中最殊胜的索摩沙尔玛答道:“吉祥的夫人啊,我必如此行;毫无疑虑,我将遵从你的话语。”
Verse 5
एवमुक्त्वा जगामाशु सोमशर्मा द्विजोत्तमः । वसिष्ठं सर्ववेत्तारं दिव्यं तं तपतां वरम्
说罢,婆罗门中最殊胜的索摩沙尔玛便迅速前往婆悉吒——那位全知、神圣的仙人,诸修苦行者之最上者。
Verse 6
गंगातीरे स्थितं पुण्यमाश्रमस्थं द्विजोत्तमम् । तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम्
在恒河岸边,有一处清净圣洁的阿湿罗摩;其中住着最尊贵的婆罗门,周身光焰炽盛,宛如第二个太阳。
Verse 7
राजमानं महात्मानं ब्रह्मण्यं च द्विजोत्तमम् । भक्त्या प्रणम्य विप्रेशं दंडवच्च पुनः पुनः
他以虔敬之心,屡屡俯伏礼拜,如杖般全身投地,向那位光耀的大圣者、最上婆罗门、奉持婆罗门正法者顶礼。
Verse 8
तमुवाच महातेजा ब्रह्मसूनुरकल्मषः । उपाविशासने पुण्ये सुखेन सुमहामते
随后,那光辉灿然、无垢的梵天之子对他说:“大智者啊,请安然坐于这清净圣座之上。”
Verse 9
एवमुक्त्वा स योगींद्रः पुनः प्राह तपोधनम् । गृहे पुत्रेषु ते वत्स दारभृत्येषु सर्वदा
说罢,那位瑜伽之主又对那位苦行功德深厚的仙者说道:“爱子啊,常时之间——关于你的家宅、你的儿子、你的妻子以及你的仆从……”
Verse 10
क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु । निरामयोसि चांगेषु धर्मं पालयसे सदा
“有福之人啊,愿你诸事安泰——在一切功德善业与圣火祭仪之中。愿你四肢百体无病无恙,并恒常守护达摩。”
Verse 11
एवमुक्त्वा महाप्राज्ञः पुनः प्राह सुशर्मणम् । किं करोमि प्रियं कार्यं सुप्रियं ते द्विजोत्तम
说罢,这位大智者又对苏舍尔曼说道:“我当作何善行以令你欢喜?何事最为你所珍爱,噢最胜的二次生者?”
Verse 12
एवं संभाषितं विप्रं विरराम स कुंभजः । तस्मिन्नुक्ते महाभागे वसिष्ठे मुनिपुंगवे
如此与婆罗门交谈后,那位“壶生”圣者(阿迦斯提耶)便沉默了。此言既毕,转向大福德的瓦西什塔——诸牟尼之最胜者——由他继续开示。
Verse 13
स होवाच महात्मानं वसिष्ठं तपतां वरम् । भगवञ्छ्रूयतां वाक्यं सुप्रसन्नेन चेतसा
于是他对大德的瓦西什塔、诸苦行者之最胜者说道:“噢圣者,请以全然宁静而慈悦之心聆听我的言语。”
Verse 14
यदि मे सुप्रियं कार्यं त्वयैव मुनिपुंगव । मम प्रश्नार्थसंदेहं विच्छेदय द्विजोत्तम
“若你愿为我成就最为可喜之事,噢诸牟尼之最胜者,就请断除我关于此问义理的疑惑,噢最胜的二次生者。”
Verse 15
दारिद्र्यं केन पापेन पुत्रसौख्यं कथं नहि । एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे
“贫穷由何种罪业而生?又为何不能因子嗣而得安乐?此乃我的疑惑,尊者啊——请告诉我,这究竟源自何罪。”
Verse 16
महामोहेन संमुग्धः प्रियया बोधितो द्विज । तयाहं प्रेषितस्तात तव पार्श्वं समातुरः
我被大迷惑所蒙蔽,因爱侣的劝醒而苏醒。婆罗门啊,她遣我前来,尊者;因此我怀着深重的忧苦来到你身旁。
Verse 17
इति श्रीपद्मपुराणेभूमिखंडेएंद्रे सुमनोपाख्यानेसप्तदशोऽध्यायः
至此,尊贵《莲华往世书》之地部中、关于因陀罗的部分,《苏摩那传》之第十七章圆满结束。
Verse 18
वसिष्ठ उवाच । पुत्रा मित्राण्यथ भ्राता अन्ये स्वजनबांधवाः । पंचभेदास्तु संभेदात्पुरुषस्य भवंति ते
婆悉吒说道:儿子、朋友、兄弟以及其他亲属族人——由于各自差别,这些便成为一个人所具的五种分支。
Verse 19
ते ते सुमनया प्रोक्ताः पूर्वमेव तवाग्रतः । ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम
这些人先前苏摩那已在你面前说过。最胜二生者啊,他们全都被债缘所系——那些不肖之子。
Verse 20
पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् । पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा
我今当在你面前宣说贤善之子的圣相:其心灵恒系于功德,常乐于真实与法(达摩)。
Verse 21
शुद्धिविज्ञानसंपन्नस्तपस्वी वाग्विदां वरः । सर्वकर्मसुसंधीरो वेदाध्ययनतत्परः
具足清净与正智者,为苦行者,亦为言辞学者中之最;于一切职责沉稳明达,专心致志研习吠陀。
Verse 22
स सर्वशास्त्रवेत्ता च देवब्राह्मणपूजकः । याजकः सर्वयज्ञानां दाता त्यागी प्रियंवदः
彼通达一切论典(śāstra),礼敬诸天与婆罗门;主持诸般祭祀(yajña),慷慨施与,能舍能放,言语和悦。
Verse 23
विष्णुध्यानपरो नित्यं शांतो दांतः सुहृत्सदा । पितृमातृपरोनित्यं सर्वस्वजनवत्सलः
恒常专注观想毗湿奴(Viṣṇu),安宁寂静,自制调伏,常为众生之善友;恒敬父母,怜爱亲族,如爱自身。
Verse 24
कुलस्य तारको विद्वान्कुलस्य परिपोषकः । एवं गुणैश्च संयुक्तः सपुत्रः सुखदायकः
有学之子,为家族之救度与明灯,滋养并护持宗脉。具此诸德者,其子便成为赐予安乐之人。
Verse 25
अन्ये संबंधसंयुक्ताः शोकसंतापदायकाः । एतादृशेन किं कार्यं फलहीनेन तेन च
他种结交,虽名为“亲缘”,却唯增忧悲与煎迫。如此无真实果报之系属,又有何用?
Verse 26
आयांति यांति ते सर्वे तापं दत्वा सुदारुणम् । पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम
他们都来来去去,施加极其可怖的痛苦;而他们一切,噢最胜的两次生者,在世间皆以儿子之形显现。
Verse 27
पूर्वजन्मकृतं पुण्यं यत्त्वया परिपालितम् । तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः
你在前生所积之福德——且由你守护不失——我如今确将尽数宣说。请再聆听这奇妙的叙述。
Verse 28
वसिष्ठ उवाच । भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा । कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः
瓦西什塔说道:“噢大智者,你在前生确为首陀罗,别无他样;乃务农之人,缺乏真知,被巨大贪欲所驱。”
Verse 29
एकभार्या सदा द्वेषी बहुपुत्रो ह्यदत्तवान् । धर्मं नैव विजानासि सत्यं नैव परिश्रुतम्
你虽只有一位妻子,却常怀怨憎;你虽有许多儿子,却不肯布施。你并不真正明了达摩,也未曾如法听闻真理。
Verse 30
दानं नैव त्वया दत्तं शास्त्रं नैव प्रतिश्रुतम् । कृता नैव त्वया तीर्थे यात्रा चैव महामते
你从未行施舍之善;也未曾立誓依止经典教诲。噢大心者,你亦未曾前往圣地渡口作朝圣之旅。
Verse 31
एवं कृतं त्वया विप्र कृषिमार्गं पुनः पुनः । पशूनां पालनं सर्व गवां चैव द्विजोत्तम
如是,婆罗门啊,你一再遵循农耕之道;并且也护养一切牲畜——尤其是诸牛,哦最胜的二生者。
Verse 32
महिषीणां तथाऽश्वानां पालनं च पुनः पुनः । एवं पू र्वंकृतं कर्म त्वयैव द्विजसत्तम
你又一次又一次地照料并护养水牛与马匹。如是,哦最胜的二生圣者,此业你在往昔亦曾亲自作过。
Verse 33
विपुलं च धनं तद्वल्लोभेन परिसंचितम् । तस्य व्ययं सुपुण्येन न कृतं तु त्वया कदा
而那丰厚之财,亦是你因贪欲而聚敛;然而你从未在任何时候将其用于真正具大福德(puṇya)的善业。
Verse 34
पात्रे दानं न दत्तं तु दृष्ट्वा दुर्बलमेव च । कृपां कृत्वा न दत्तं तु भवता धनमेव च
即便见到堪受施者——也见到羸弱之人——你仍未行布施(dāna)。即便心生怜悯,你也依旧不肯施与财物。
Verse 35
गोमहिष्यादिकं सर्वं पशूनां संचितं त्वया । विक्रीय च धनं विप्र संचितं विपुलं त्वया
你聚敛了各类牲畜——牛、母水牛等一切。又,婆罗门啊,你将其售卖,也因此积聚了丰厚之财。
Verse 36
तक्रं घृतं तथा क्षीरं विक्रयित्वा ततो दधि । दुष्कालं चिंतितं विप्र मोहितो विष्णुमायया
他卖掉了酪乳、酥油与牛奶,继而连凝乳也卖了;噢婆罗门,他因饥荒之时而忧惧,受毗湿奴之幻力(māyā)所迷。
Verse 37
कृतं महार्घमेवात्र अन्नं ब्राह्मणसत्तम । निर्दयेन त्वया दानं न दत्तं तु कदाचन
此处确已备下珍贵的饮食,噢最上之婆罗门;然而你心无慈悯,从未在任何时候施行布施(dāna)。
Verse 38
देवानां पूजनं विप्र भवता न कृतं कदा । प्राप्य पर्वाणि विप्रेभ्यो द्रव्यं न च समर्पितम्
噢婆罗门,你从未礼敬诸天(deva);而当节庆与斋戒等圣日到来时,你也未向婆罗门奉献任何财物与供施。
Verse 39
श्राद्धंकालंतुसंप्राप्यश्रद्धयानकृतंत्वया । भार्या वदति ते साध्वी दिनमेनं समागतम्
当行施罗陀(śrāddha,祭祖仪式)之时到来,你却未以信心奉行。你那贤德的妻子对你说:“这一天已然来到。”
Verse 40
श्वशुरस्य श्राद्धकालः श्वश्र्वाश्चैव महामते । त्वं श्रुत्वा तद्वचस्तस्या गृहं त्यक्त्वा पलायसे
“噢贤者,如今正是为你岳父行施罗陀(śrāddha)之时,也同样是为你岳母之时;可你听了她的话,却弃家而逃。”
Verse 41
धर्ममार्गं न दृष्टं ते श्रुतं नैव कदा त्वया । लोभो मातापिता भ्राता लोभः स्वजनबांधवाः
你既未见过正法(dharma)之道,也从未听闻过它。对你而言,贪欲是父母,贪欲是兄弟;唯有贪欲才是你的亲族与同伴。
Verse 42
पालितं लोभमेवैकं त्यक्त्वा धर्मं सदैव हि । तस्माद्दुःखी भवाञ्जातो दरिद्रेणातिपीडितः
你只养大了贪欲,恒常舍弃正法;因此你落入忧苦,被贫穷深深压迫。
Verse 43
दिनेदिने महातृष्णा हृदये ते प्रवर्द्धते । यदायदा गृहे द्रव्यं वृद्धिमायाति ते तदा
日复一日,你心中巨大的渴求不断增长;每当家中财物增多之时,那渴求便愈加炽盛。
Verse 44
तृष्णया दह्यमानस्तु तया त्वं वह्निरूपया । रात्रौ वा सुप्रसुप्तस्तु निश्चितो हि प्रचिंतसि
你被渴爱所灼烧——那渴爱化作火焰;即使夜里沉沉熟睡,你也必定仍在心中反复思量。
Verse 45
दिनं प्राप्य महामोहैर्व्यापितोसि सदैव हि । सहस्रं लक्षं मे कोटिः कदा अर्बुदमेव च
日复一日,你总被大迷妄所笼罩:“一千、十万(lakh)、一千万(crore)——我何时才能得到哪怕一阿部陀(arbuda)呢?”
Verse 46
भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे । एवं सहस्रं लक्षं च कोटिरर्बुदमेव च
何时在我家中才会有那般财富——kharva与nikharva;又有一千、一lakh、一crore,乃至一arbuda呢?
Verse 47
खर्वो निखर्वः संजातस्तृष्णा नैव प्रगच्छति । तव कायं परित्यज्य वृद्धिमायाति सर्वदा
纵使已衰减,仍复更衰;贪渴从不真正离去。舍此身后,它总会再来,愈发增长。
Verse 48
नैव दत्तं हुतं विप्र भुक्तं नैव कदा त्वया । खनितं भूमिमध्ये तु क्षिप्तं पुत्रानजानते
婆罗门啊,你从未施舍,从未献供火祭,也从未享用你所有之物。反倒把它挖入地中深处埋藏,连你的儿子们都不知晓。
Verse 49
अन्यमेवमुपायं तु द्रव्यागमनकारणात् । कुरुषे सर्वदा विप्र लोकान्पृच्छसि बुद्धिमान्
然而为求财物到来,你总是另寻他法,婆罗门啊;你自诩聪慧,便不断向众人询问。
Verse 50
खनित्रमंजनं वादं धातुवादमतः परम् । पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः
他询问采矿之术、añjana(锑制眼膏)、辩论之道,继而又问矿石与金属之学;独自徘徊于迷妄之中,被贪渴彻底惑乱。
Verse 51
स्पर्शंचिंतयसेनित्यंकल्पान्सिद्धिप्रदायकान् । प्रवेशं विवराणां तु चिंतमानः सु पृच्छसि
你恒常观想诸种仪轨(kalpa),它们以神圣的触碰(sparśa)赐予成就。又当你思量进入诸缝隙与孔隙之道时,你的发问甚为得当。
Verse 52
तृष्णानलेन दग्धेन सुखं नैव प्रगच्छसि । तृष्णानलेन संदीप्तो हाहाभूतो विचेतनः
被渴爱之火焚烧,你全然不得安乐。又被同一欲火炽燃,你神识昏乱,哀号道:“哀哉!哀哉!”
Verse 53
एवं मुग्धोसि विप्रेंद्र गतस्त्वं कालवश्यताम् । दारापुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया
如是你已迷惑,婆罗门中之最胜者啊;你已堕入时间之主宰。及至妻子与儿子询问那份财物时,你确实无言以对。
Verse 54
कथितं नैव वृत्तांतं प्राणांस्त्यक्त्वा गतो यमम् । एवं सर्वं मया ख्यातं वृत्तांतं तव पूर्वकम्
他全然未曾叙述经过;舍弃生命之气,便往阎摩(Yama)处去。故我已将与你相关的先前事迹,尽皆为你宣说。
Verse 55
अनेन कर्मणा विप्र निर्धनोसि दरिद्रवान् । संसारे यस्य सत्पुत्रा भक्तिमंतः सदैव हि
因这业行,婆罗门啊,你已成贫乏困顿之人。然而在世间,你的贤善之子却恒常具足奉爱(bhakti)与虔敬。
Verse 56
सुशीला ज्ञानसंपन्नाः सत्यधर्मरताः सदा । संभवंति गृहे तस्य यस्य विष्णुः प्रसीदति
在为毗湿奴所欢喜之人的家中,常常生起并居住着品行端正、具足智慧、恒常奉持真实与正法(达摩)的人。
Verse 57
धनं धान्यं कलत्रं तु पुत्रपौत्रमनंतकम् । स भुंक्ते मर्त्यलोके वै यस्य विष्णुः प्रसन्नवान्
财富、谷粮、配偶,以及无尽的子孙后裔——在世间为人之界,唯有蒙主毗湿奴欢喜者,方能真实享受这些。
Verse 58
विना विष्णोः प्रसादेन दारापुत्रान्न चाप्नुयात् । सुजन्म च कुलं विप्र तद्विष्णोः परमं पदम्
若无毗湿奴之恩赐,便不得妻与子;亦不得善生与高贵家族,婆罗门啊——此即毗湿奴之至上境地。