
Within the Greatness of Guru-tīrtha: The Episode of Nahuṣa and Aśokasundarī (in the Cyavana account)
第113章展开“苦行(tapas)与欲望”的张力。天女罗摩婆(Rambhā)告诫阿修迦孙达丽(Aśokasundarī),即便心念男子也会损减苦行之力;而阿修迦孙达丽(又名湿婆难迪尼,Śiva-nandinī,被称为湿婆之女)则宣示:纵然那胡沙(Nahuṣa)起欲求,她的苦行依旧坚定不动。 章中穿插教诲:我(ātman)本为永恒的梵(Brahman),迷妄(moha)之索缚住具身众生,使心意飘忽不定。随后转入合乎社会与法(dharma)的圆满:确认那胡沙为其宿定之夫,并劝对其他男子当持谨慎之心。 继而出现使者情节:罗摩婆前往那胡沙处传达缘由。那胡沙承认此事真实(据说由婆悉吒 Vasiṣṭha 所知),但表示须先诛灭达那婆(Dānava)胡恩达(Huṇḍa)后,方可成就结合。章末题记将此段置于维那(Vena)故事与“导师圣地”古鲁提尔塔(Guru-tīrtha)的功德之中,令个人之法与圣地之清净相连。
Verse 1
रंभोवाच । तप एतत्परित्यज्य किंवा लोकयसे शुभे । तपसः क्षरणं स्याद्वै पुरुषस्यापि चिंतनात्
罗摩婆说道:“吉祥的女士啊,你为何舍弃此苦行却又望向他?因为即便只是思念男子,也确会使苦行之力渐渐消减。”
Verse 2
अशोकसुंदर्युवाच । तपसि मे मनो लीनं नहुषस्यापि काम्यया । न मां चालयितुं शक्ता देवासुरमहोरगाः
阿首迦孙达丽说道:“我的心沉入苦行之中,纵然那胡沙渴求于我。诸天、阿修罗,乃至大龙蛇,都不能使我动摇。”
Verse 3
एनं दृष्ट्वा महाभागे मे मनश्चलते भृशम् । रंतुमिच्छाम्यहं गत्वा एवमुत्सुकतां गतम्
“然而,尊贵的女士啊,一见到他,我的心便剧烈动荡;我想前去与他嬉游,因为我已陷入急切的渴望。”
Verse 4
एवं विपर्ययश्चासीन्मनसो मे वरावने । तन्मे त्वं कारणं ब्रूहि यद्यस्ति ज्ञानमुत्तमम्
“于是,林居之中最殊胜者啊,我的心竟颠倒迷乱。若你具足无上的智慧,请告诉我此事的缘由。”
Verse 5
आयुपुत्रस्य भार्याहं देवैः सृष्टा महात्मभिः । कस्मान्मे धावते चेत उत्सुकं रंतुमेव च
“我是阿由之子的妻子,由诸天大士所造。为何我的心却奔走不宁,只急切地求取欢娱?”
Verse 6
रंभोवाच । सर्वेष्वेव महाभागे देहरूपेषु भामिनि । वसत्यात्मा स्वयं ब्रह्मज्ञानरूपः सनातनः
罗婆(Rambhā)说道:“最有福者、光辉的女子啊——在一切具身之形中,真我恒常安住;它永恒不灭,它本身即是梵(Brahman),其体性即为灵性智慧。”
Verse 7
यद्यपि प्रक्रियाबद्धैरिंद्रियैरुपकारिभिः । मोहपाशमयैर्बद्धस्तथा सिद्धस्तु सर्वदा
纵然他被诸根所系——诸根在作用上有助,却受世间程序所缚——又被迷妄之索紧缠,然而成就者仍恒常圆满、常住成就。
Verse 8
प्रकृतिं नैव जानाति ज्ञानविज्ञानकीं कलाम् । अयं शुद्धश्च धर्मज्ञ आत्मा वेत्ति च सुंदरि
它全然不识普拉克里蒂(Prakṛti),也不识由知识与证悟之辨所成的妙力。此真我,佳丽啊,清净而知法(dharma);唯有它才真正知晓。
Verse 9
गच्छंत्यपि मनस्तापमेनं दृष्ट्वा महामतिम् । पापमेवं परित्यज्य सत्यमेवं प्रधावति
即便那些正要离去的人,一见这位大慧大德之圣者,心中热恼便得平息;于是舍弃罪业,奔向真实。
Verse 10
भर्तायमायुपुत्रस्ते एतत्सत्यं न संशयः । अन्यं दृष्ट्वा विशंकेत पुरुषं पापलक्षणम्
此人便是你的夫君,阿瑜(Āyu)之子——此乃真实,毫无疑惑。若见他人男子,当心存警惕,因为那人或带罪相。
Verse 11
एवं विधिः कृतो देवैः सत्यपाशेन बंधितः । यदस्या आयुपुत्रोपि भर्तृत्वमुपयास्यति
于是诸天立下此法度,以真理之索系缚:即便阿瑜(Āyu)之子也将前来,承担她夫君之位。
Verse 12
एवमाकर्णितं भद्रे आत्मना तं च सुंदरि । तद्भावसत्यसंबंधं परिगृह्य स्थितः स्वयम्
如是,温柔者啊、美丽的女士啊;他在自心中听闻此语,便自住安稳,摄受与彼等境界相应的真实联系。
Verse 13
अन्यं भावं न जानाति आयुपुत्रं च विंदति । प्रकृतिर्नैव ते देवि पतिं जानाति चागतम्
她不知别样心态与意向,并生下一子,名为阿瑜(Āyu)。女神啊,那本初的普拉克里蒂(Prakṛti,自性)并不识得前来之夫。
Verse 14
एवं ज्ञात्वा प्रधानात्मा तवाद्यैव प्रधावति । आत्मा सर्वं प्रजानाति आत्मा देवः सनातनः
既如是知,至上之我便于今日疾趋于你。自我知一切;自我即永恒之神。
Verse 15
अयमेष स वीरेंद्रो नहुषो नाम वीर्यवान् । तस्माद्गच्छति चेतस्ते सत्यं संबंधमिच्छते
“此人正是那位英雄之主,名为那胡沙(Nahuṣa),勇力无比。故而你的心转向于他,真实地愿求与他结缘。”
Verse 16
ज्ञात्वा चायोः सुतं भद्रे अन्यं चैव न गच्छति । एतत्ते सर्वमाख्यातं शाश्वतं त्वन्मनोगतम्
吉祥的夫人啊,他既已识得阿约(Ayoḥ)之子,便不再投向他人。此事我已尽为你宣说——那恒常不灭、早已藏在你心中的真义。
Verse 17
हुंडं हत्वा महाघोरं समरे दानवाधमम् । त्वां नयिष्यति स्वस्थानमायोश्च गृहमुत्तमम्
他将在战阵中诛杀极其可怖的胡恩达(Huṇḍa)——诸达那婆(Dānava)中最卑劣者——随后引你至其自家居处,并同往阿瑜(Āyu)那上妙之宅。
Verse 18
हृतो दैत्येन वीरेंद्रो निजपुण्येन शेषितः । बाल्यात्प्रभृति वीरेंद्रो वियुक्तः स्वजनेन वै
英勇的因陀罗(Indra)曾被一位大底耶(daitya,魔族)掳去,却因自身福业的余力而得以保全。自幼以来,这位英雄因陀罗确实与亲族众人分离。
Verse 19
पितृमातृविहीनस्तु गतो वृद्धिं महावने । यास्यत्येव पितुर्गेहं त्वयैव सह सांप्रतम्
失却父母,他在大森林中长成。如今他必将前往父亲的家宅——正与你同往,就在此刻。
Verse 20
एवमाभाषितं श्रुत्वा रंभायाः शिवनंदिनी । हर्षेण महताविष्टा तामुवाच समुद्रजाम्
听闻如此所说,湿婆(Śiva)那蒙福的女儿被大欢喜充满,便对兰婆(Rambhā)——海之女——开口说道。
Verse 21
अयमेव स सत्यात्मा मम भर्ता सुवीर्यवान् । मनो मे धावतेऽत्यर्थं शोकाकुलितविह्वलम्
他确是那真诚之魂、我那英勇有力的夫君。我的心念狂奔不止,极度忧惧,因悲恸而震荡迷乱。
Verse 22
नास्ति चित्तसमो देवो जानाति सुविनिश्चितम् । सत्यमेतन्मया दृष्टं सुचित्रं चारुहासिनि
世间无有与心同等的神祇——当知此理已然确立。此言真实无妄;我亲眼所见,噢苏吉特拉,笑容可亲者。
Verse 23
मनोभवसमानं तु पुरुषं दिव्यलक्षणम् । न धावति महाचेत एनं दृष्ट्वा यथा सखि
然而见到那位具足天相、与摩诺婆婆(爱神)相等的男子时,那位大心者并未如见友人般奔向他,噢亲爱的。
Verse 24
तथा न धावते भद्रे पुंसमन्यं न मन्यते । एनं गंतव्यमावाभ्यां सखीभिर्गृहमेव हि
“同样地,贤爱之人,她不追逐任何男子;也不把别的男人当作自己的。故而我们当与诸位女伴一同前往他的家中。”
Verse 25
एवमाभाष्य सा रंभा गमनायोपचक्रमे । गमनायोत्सुकां ज्ञात्वा नहुषस्यांतिकं प्रति
如是说罢,蓝婆便开始启程。知她急欲前往,遂趋向那呼沙之前。
Verse 26
तामुवाच ततो रंभा कस्माद्देवि न गम्यते । सूत उवाच । सख्या च रंभया सार्द्धं नहुषं वीरलक्षणम्
随后,蓝婆对她说:“女神啊,你为何不前去?”苏多说道:那位女伴与蓝婆一同走近那位具英雄之相的那胡沙。
Verse 27
तस्यांतिकं सुसंप्राप्य प्रेषयामास तां सखीम् । एनं गच्छ महाभागे नहुषं देवरूपिणम्
她走到他近前,便派遣同伴为使者,说道:“去见他吧,尊贵的女士——去见那位具天神之形的那胡沙。”
Verse 28
कथयस्व कथामेतां तवार्थे आगता यतः । रंभोवाच । एवं सखि करिष्यामि सुप्रियं तव सुव्रते
“把这段缘由告诉他吧;我正是为你而来。”蓝婆说道:“如此便是,朋友啊;我必成就你最心爱的事,持善誓的女子。”
Verse 29
एवमुक्त्वा गता रंभा नहुषं राजनंदनम् । चापबाणधरं वीरं द्वितीयमिव वासवम्
说罢,蓝婆便前往那胡沙——王子之身;他是执弓持箭的勇士,宛如第二位婆娑婆(因陀罗)。
Verse 30
प्रत्युवाच गता रंभा सख्या वचनमुत्तमम् । आयुपुत्र महाभाग रंभाहंसमुपागता
蓝婆到来后,转述友人至善之言:“尊贵的阿瑜之子啊,那天鹅已来到蓝婆这里。”
Verse 31
शिवस्य कन्यया वीर तयाहं परिप्रेषिता । तवार्थं देवदेवेन देव्या देवेन वै पुरा
勇士啊,我奉湿婆之女之命而来。往昔为你之故,诸神之神与女神同在,曾遣我前来。
Verse 32
भार्यारूपं वरं श्रेष्ठं सृष्टं लोकेषु दुर्लभम् । दुष्प्राप्यं तु नरश्रेष्ठैर्देवै सेंद्रैस्तपोधनैः
妻室——此最胜、至上的恩赐——在诸世界中被造为稀有之物;诚然,即便是人中最杰者、与因陀罗同在的诸天,以及苦行功德深厚者,也难以得之。
Verse 33
गंधर्वैः पन्नगैः सिद्धैश्चारणैः पुण्यलक्षणैः । स्वयमेव समायातं तवार्थे शृणु सांप्रतम्
伴随乾闼婆、那伽、悉地与查罗那等具吉祥相之众,它(他)为你之故自然而来至此。如今请听下文。
Verse 34
स्त्रीरत्नं तन्महाप्राज्ञ संपूर्णं पुण्यनिर्मितम् । अशोकसुंदरी नाम तवार्थं तपसि स्थिता
大智的圣仙啊,那女子之宝——圆满无缺、由福德所成——名为阿输迦孙达丽(Aśokasundarī);为你之故,她安住于苦行之中。
Verse 35
अत्यर्थं तु तपस्तप्तं भवंतमिच्छते सदा । एवं ज्ञात्वा महाभाग भजमानां भजस्व हि
她确已修行极深之苦行,恒常思慕于你。既知如此,福德深厚者啊,当回向与报答那敬拜你的人。
Verse 36
त्वामृते सा वरारोहा पुरुषं नैव याचते । नहुषेण तयोक्तं तु श्रुत्वावधारितं वचः
除你之外,那位腰肢婀娜的女子不向任何男子求助。那诃沙听了他们所说的话,便铭记于心。
Verse 37
प्रत्युत्तरं ददौ चाथ रंभे मे श्रूयतां वचः । तत्तु सर्वं विजानामि यत्त्वयोक्तं ममाग्रतः
于是他答道:“噢,蓝婆啊,请听我之言。我完全知晓你在我面前所说的一切。”
Verse 38
ममाग्रे कथितं पूर्वं वशिष्ठेन महात्मना । सर्वमेव विजानामि अस्यास्तु तप उत्तमम्
此事先前已由大德婆悉吒告知于我。我尽皆知晓;愿她的苦行确为至上。
Verse 39
श्रूयतां कारणं भद्रे यथासौख्यं भविष्यति । अहत्वा दानवं हुंडं न गच्छामि वरांगनाम्
贤淑的女士啊,请听其缘由,使结局安乐圆满。未诛杀魔类胡恩达之前,我决不前往那位卓越的女子身边。
Verse 40
सर्वमेतत्सुवृत्तांतमहं जाने तथैव हि । ममार्थे तव संभूतिस्तपश्च चरितं त्वया
此一真实始末,我尽皆知晓。为我之缘你而降生,你亦修持了苦行。
Verse 41
मम भार्या न संदेहो भवती विधिना कृता । ममार्थे निश्चयं कृत्वा तप आचरितं त्वया
毫无疑问,命运已注定你为我的妻子。为了我,你下定决心并进行了苦行。
Verse 42
हृता तस्मात्सुपापेन भवती नियमान्विता । सूतिगृहादहं तेन दानवेनाधमेन वै
因此,尽管你严守誓言与戒律,却仍被那罪大恶极的达纳瓦(Dānava)劫走;我也是被他从产房中掳走的。
Verse 43
बालभावस्थितो देवि पितृमातृविना कृतः । तस्मात्तं तु हनिष्यामि हुंडं वै दानवाधमम्
女神啊,我在孩提时代便失去了父母。因此,我定要诛杀那个洪达(Huṇḍa),那达纳瓦中最卑劣的家伙。
Verse 44
पश्चात्त्वामुपनेष्येऽहं वशिष्ठस्याश्रमं प्रति । एवं कथय भद्रं ते रंभे मत्प्रियकारिणीम्
之后,我将带你去瓦西什塔(Vasiṣṭha)的隐修处。现在就这样去传话吧——愿你安好,兰巴(Rambhā)——说些让我高兴的话。
Verse 45
एवं विसर्जिता तेन सत्वरं सा गता पुनः । अशोकसुंदरीं देवीं कथयामास तस्य च
她就这样被他遣回,迅速离去,并将关于他的事告诉了女神阿育孙达里(Aśokasundarī)。
Verse 46
समासेन तथा सर्वं रंभा सा द्विजसत्तम । अशोकसुंदरी सा तु अवधार्य सुभाषितम्
于是,罗摩婆(Rambhā)简要地向你这位最尊贵的二次生者叙述了一切。阿首迦孙达丽(Aśokasundarī)将那善言铭记于心,默然省思。
Verse 47
नहुषस्य सुवीरस्य हर्षेण च समन्विता । तस्थौ तत्र तया सार्द्धं सुसख्या रंभया तदा
随后,她因英勇的那胡沙(Nahuṣa)而满怀欢喜,便与挚友罗摩婆(Rambhā)一同留在那里。
Verse 48
भर्तुश्च कीदृशं वीर्यमिति पश्यामि वै सदा
“而我也常常观照:我的夫君究竟具有什么样的勇力与威能。”
Verse 113
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने त्रयोदशाधिकशततमोऽध्यायः
至此,《圣莲花往世书》(Śrī Padma Purāṇa)之《大地品》(Bhūmi-khaṇḍa)中,毗那(Vena)传说里,赞述师圣渡口(Guru-tīrtha)功德、并含恰瓦那(Cyavana)事迹与那胡沙(Nahuṣa)篇章的第一百一十三章圆满。