
The Glory of Kailāsa, the Gaṅgā Lake, and Ratneśvara (Entry into the Kuñjala–Kapiñjala Narrative)
本章由苏多开篇,宣说一段吉祥、能灭罪的圣闻,乃昔日由赫利希凯沙所讲。叙事随即进入昆阇罗—迦频阇罗的因缘:昆阇罗召来其子迦频阇罗,询问他在觅食途中见到何等非凡景象。 迦频阇罗以朝圣圣地(tīrtha)的笔法描绘凯拉萨:其皎白如雪、宝光璀璨、林木繁盛、天众往来,并有湿婆之殿,令此山宛如“功德之聚”。他又叙述恒河下降、凯拉萨上的广大湖泊,以及一位忧伤的天女,其泪化为莲华,漂入洞窟之流。 文中称拉特内湿伐罗/摩诃湿伐罗安住于拉特那山,并引出一位极端虔敬湿婆的苦行者。末了,迦频阇罗请求解释其所见,遂引出智者昆阇罗将继而开示。
Verse 1
सूत उवाच । देवदेवो हृषीकेशस्त्वंगपुत्रं नृपोत्तमम् । समाचष्ट महाश्रेय आख्यानं पापनाशनम्
苏多说道:诸神之神赫利希凯沙向安伽之子、至善之王宣说一段至为吉祥、能灭罪业的传记。
Verse 2
श्रूयतामभिधास्यामि चरित्रं श्रेयदायकम् । द्विजस्यापि च वृत्तांतं कुंजलस्य महात्मनः
请听,我将宣说一段赐予吉祥的行传——也包括那位名为昆阇罗的伟大婆罗门之事迹。
Verse 3
विष्णुरुवाच । कुंजलश्चापि धर्मात्मा चतुर्थं पुत्रमेव च । समाहूय मुदायुक्त उवाचैनं कपिंजलम्
毗湿奴说道:其后,正法之士昆阇罗也将他的第四子召来,心怀欢喜,对那位迦频阇罗说道。
Verse 4
किं नु पुत्र त्वया दृष्टमपूर्वं कथयस्व मे । भोजनार्थं तु यासि त्वमितः कस्मिन्सुतोत्तम
我的孩子,你见到了什么非同寻常之事?请告诉我。为求食物,你将从此处往哪里去,哦最贤良的儿子?
Verse 5
तदाचक्ष्व महाभाग यदि दृष्टं सुपुण्यदम् । कपिंजल उवाच । यच्च तात त्वया पृष्टमपूर्वं प्रवदाम्यहम्
“那么请说吧,哦大福德者,若你见到能赐予大功德(福德)的事。”迦频阇罗说道:“亲爱的父亲,你所问的那前所未有之事——我现在就为你叙述。”
Verse 6
यन्न दृष्टं श्रुतं केन कस्मान्नैव श्रुतं मया । तदिहैव प्रवक्ष्यामि श्रूयतामधुना पितः
那无人曾见、无人曾闻之事——我又怎会听闻?如今,父亲,我就在此宣说;请你聆听。
Verse 7
शृण्वंतु भ्रातरः सर्वे मातस्त्वं शृणु सांप्रतम् । कैलासः पर्वतश्रेष्ठो धवलश्चंद्र सन्निभः
诸位兄弟都来聆听;母亲啊,你也此刻听我说。凯拉萨山,为群山之最胜,皎白如月。
Verse 8
नानाधातुसमाकीर्णो नानावृक्षोपशोभितः । गंगाजलैः शुभैः पुण्यैः क्षालितः सर्वतः पितः
其上遍布种种矿石,亦为诸般林木所庄严;父亲啊,四面皆为吉祥而圣洁的恒河之水所洗濯、所净化。
Verse 9
नदीनां तु सहस्राणि दिव्यानि विविधानि च । यस्मात्तात प्रसूतानि जलानि विविधानि च
亲爱的啊,由他而生出千千万万条河流——神圣而多种多样——同样也涌现出种种不同的水流。
Verse 10
तडागानि सहस्राणि सोदकानि महागिरौ । नद्यः संति विशालिन्यो हंससारससेविताः
在那座大山之上,有成千上万盛满清水的湖泊;又有宽广浩荡的河流,常有天鹅与娑罗娑鸟(鹤)栖游其间。
Verse 11
तस्मिञ्छिखरिणां श्रेष्ठे पुण्यदाः पापनाशनाः । वनानि विविधान्येव पुष्पितानि फलानि च
在那最胜的山巅之上,有种种林苑——赐福增德、灭除罪垢——花开繁盛,果实累累。
Verse 12
नानावृक्षोपयुक्तानि हरितानि शुभानि च । किन्नराणां गणैर्युक्तश्चाप्सरोभिः समाकुलः
其间遍植种种树木——青翠而吉祥——又有众多紧那罗成群相随,天女阿普萨拉斯往来如织。
Verse 13
गंधर्वचारणैः सिद्धैर्देववृंदैः सुशोभितः । दिव्यवृक्षवनोपेतो दिव्यभावैः समाकुलः
又有乾闼婆、查罗那、悉达与诸天众会来庄严;林间遍布天界妙树之苑,充满神圣的临在与殊胜德相。
Verse 14
दिव्यगंधैः सुशोभाढ्यैर्नानारत्नसमन्वितः । शिलाभिः स्फटिकस्यापि शुक्लाभिस्तु सुशोभनः
它以天界妙香庄严,华美无比,并镶饰种种宝珠;又以洁白如水晶的石板点缀,愈显殊胜可爱。
Verse 15
सूर्यतेजोमयो राजंस्तेजोभिस्तु समाकुलः । चंदनैश्चारुगंधैश्च बकुलैर्नीलपुष्पकैः
大王啊,它由日轮光辉所成,四方充满灿然光明;又以芬芳檀香、巴库拉花与蓝色花朵庄严点缀。
Verse 16
नानापुष्पमयैर्वृक्षैः सर्वत्र समलंकृतः । पक्षिणां सुनिनादैश्च दिव्यानां मधुरायते
四处皆以开着种种花的树木装点;又因天界群鸟吉祥而和美的鸣唱,使其甘美悦人。
Verse 17
षट्पदानां निनादैश्च वृक्षौघैर्मधुरायते । रुतैश्च कोकिलानां तु शोभते स वनो गिरिः
因群蜂嗡鸣与林木繁盛,那山林变得甘美怡人;又因布谷鸟的啼声,那林覆之山更显光彩与庄严之美。
Verse 18
गणकोटिसमाकीर्णं तत्रास्ति शिवमंदिरम् । अंशुभिर्धवलं पुण्यं पुण्यराशिशिलोच्चयम्
其间矗立一座湿婆神庙,亿万伽那簇拥其侧;光束照耀,清净而神圣,宛如由累积功德凝成的巍峨石丘。
Verse 19
सिंहैश्च गर्जमानैश्च सैरिभैः कुंजरैस्ततः । दिग्गजानां सुघोषैश्च शब्दितं च समंततः
于是四方回响:狮子怒吼,巨象轰鸣,并有守护四方的护方象(diggaja)发出吉祥的号角之声,遍满周遭。
Verse 20
नानामृगैः समाकीर्णं शाखामृगगणाकुलम् । मयूरकेकाघोषैश्च गुहासु च विनादितम्
那里遍布各类野兽,群群栖枝之猴充满其间;孔雀的啼鸣回荡不绝,连洞窟之中也被其声所震响。
Verse 21
कंदरैर्लेपनैः कूटैः सानुभिश्च विराजितम् । नानाप्रस्रवणोपेतमोषधीभिर्विराजितम्
它以洞窟、斜坡、峰峦与脊岭而辉映;又具无数泉源点缀,因遍生灵药草木而更显光华。
Verse 22
दिव्यं दिव्यगुणं पुण्यं पुण्यधाम समाकुलम् । सेवितं पुण्यलोकैश्च पुण्यराशिं महागिरिम्
那大山神圣而天妙,具足天德;清净吉祥,遍满圣所;为诸福德世界之众所奉事,实为无量功德之大聚。
Verse 23
पुलिंदभिल्लकोलैश्च सेवितं पर्वतोत्तमम् । विकटैः शिखरैः कोटैरद्रिराजः प्रकाशते
那最胜之山为普林达(Pulinda)、比拉(Bhilla)与拘罗(Kola)诸族所往来;山中王者因其峻厉的峰顶与嶙峋的崖峭而熠熠生辉。
Verse 24
अन्यैर्नानाविधैः पुण्यैः कौतुकैर्मंगलैः शुभैः । गंगोदकप्रवाहैश्च महाशब्दं प्रसुस्रुवे
又以种种功德善行——庆典仪轨、吉祥而蒙福的法事——并以恒河圣水的流注相伴,宏大的喧声四起,回荡不绝。
Verse 25
शंकरस्य गृहं तत्र कैलासं गतवानहम् । तत्राश्चर्यं मया दृष्टं यन्न दृष्टं कदा श्रुतम्
我遂前往迦罗娑(Kailāsa),即商羯罗(Śaṅkara)之居所。在那里我见到一桩奇瑞——从未见过,也从未在任何时候听闻过。
Verse 26
श्रूयतामभिधास्यामि तात सर्वं मयोदितम् । शिखराद्गिरिराजस्य मेरोः पुण्यान्महोदयात्
且听我说,亲爱的;我今将如我所言尽皆宣说——此乃从山王须弥(Meru)之巅所发、由其吉祥而大为升举的圣德所兴起。
Verse 27
हिमक्षीरसुवर्णस्तु प्रवाहः पतते भुवि । गंगायाश्च महाभाग रंहसा घोषभूषितः
大福者啊,有一股洪流——白如雪乳而又泛金色——倾落大地;恒河奔涌疾驰,以其轰鸣之声为庄严。
Verse 28
कैलासस्य शिरः प्राप्य तत्र विस्तरतां गतः । दशयोजनमानेन तत्र गंगा ह्रदो महान्
抵达迦罗娑之巅后,(恒河)在彼处铺展开来;而在那地方有一座宏大的恒河圣湖,广袤达十由旬。
Verse 29
महातोयेन पुण्येन विमलेन विराजते । सर्वतोभद्रतां प्राप्तो महाहंसैः प्रशोभते
它以浩瀚、神圣而无垢的清水辉耀;四方皆得吉祥,更为伟大的哈ṃ萨(王者之天鹅)所庄严。
Verse 30
सामोच्चारेण पुण्येन दिव्येन मधुरेण च । हंसास्तत्र प्रकूजंति सरस्तेन विराजते
伴随神圣、天界而甘美的吠陀诵声,彼处的哈ṃ萨婉转鸣唱;因此那湖泊更显光辉灿然。
Verse 31
तस्य तीरे शिलायां वै हिमकन्या महामते । आसीना मुक्तकेशांता रूपद्रविणशालिनी
在它的岸边,确然在一块岩石上,噢大慧者,喜马伐特之女端坐其上——长发散落飘垂——容光焕发,兼具丰饶之资。
Verse 32
दिव्यरूपसुसंपन्ना सगुणा दिव्यलक्षणा । दिव्यालंकारभूषा च तस्यास्तीरे विराजते
她具足天妙之形,具诸吉德与天相,又以天界饰物庄严,于其岸边灿然生辉。
Verse 33
न जाने गिरिराजस्य तनया वा महोदधेः । नो वास्ति ब्रह्मणः पत्नी सा वा स्वाहा भविष्यति
我不知她是山王之女,抑或大海之女;也不知她是否为梵天之妻——或许她将成为“娑婆诃”(Svāhā)。
Verse 34
इंद्राणी वा महाभागा रोहिणी वा भविष्यति । ईदृशी रूपसंपत्तिर्युवतीनां न दृश्यते
这位极有福德的女子,仿佛正是因陀罗尼(Indrāṇī)本人,或是罗希尼(Rohiṇī)。如此丰盛的美貌,在少女之中实难得见。
Verse 35
अन्यासां च सुदिव्यानां नारीणां तात सर्वथा । यादृशं रूपसंभावं गुणशीलं प्रदृश्यते
而且,亲爱的啊,即便在其他极其神圣的女子之中,也确实可见有人具备这般形貌之美与品德之善。
Verse 36
अप्सरसां कदा नास्ति तादृशं रूपलक्षणम् । यादृशं तु मया दृष्टं तदंगं विश्वमोहनम्
在天女(Apsaras)之中,也从未有过如我所见这般的美与可爱之相;她的肢体本身便能迷醉整个世界。
Verse 37
शिलापदे समासीना दुःखेनापि समाकुला । रुदते सुस्वरैर्बाला अनेकैः स्वजनैर्विना
她坐在石板之上,虽被忧苦所压,仍以清亮而哀婉的声音哭泣;身边没有众多亲族相伴。
Verse 38
अश्रूणि मुंचमाना सा मुक्ताभानि बहूनि च । निर्मलानि सरस्यत्र पतंत्येव महामते
当她任泪水流下,许多如珍珠般洁净无瑕的泪滴,便落入那里的湖中,噢,大智者。
Verse 39
बिंदवो मौक्तिकाभास्ते निपतंति महोदके । तेभ्यो भवंति पद्मानि हृद्यानि सुरभीणि तु
如珍珠般的水滴落入浩瀚大水;由此生出莲华,悦人心神,芬芳馥郁。
Verse 40
पद्मानि जज्ञिरे तेभ्यो नेत्राश्रुभ्यो महामते । गंगांभसि तरंत्येव असंख्यातानि तानि तु
大慧者啊,由那眼中之泪生出莲华;在恒河之水中,那无量莲华确实漂浮。
Verse 41
पतितानि सुहृद्यानि रंहसा यानि तानि तु । गंगाप्रवाहमध्ये तु हंसवृंदैः सुसेविते
那些迅疾坠落的可爱之物——正是那些——在恒河奔流的中央,群群天鹅(hamsa)安然游集其间。
Verse 42
भागीरथ्याः प्रवाहस्तु तस्मात्स्थानाद्विनिर्गतः । कैलासशिखरं प्राप्य रत्नाख्यं चारुकंदरम्
于是,跋伽罗提(恒河)之流自彼处涌出,抵达凯拉萨之巅,进入名为“宝”(Ratna)的华美洞窟。
Verse 43
वर्तते तोयपूर्णस्तु योजनद्वयविस्तृतः । हंसवृंदसमाकीर्णो जलपक्षि समाकुलः
其处水满盈溢,广延二由旬,群天鹅(hamsa)聚集其间,水鸟纷然,生机充盈。
Verse 44
नानावर्णविशेषाणि संति पद्मानि तत्र च । प्रवाहे निर्मले तात मुनिवृंदनिषेविते
彼处亦有种种异色莲华,亲爱的啊;在那清净流注之水中,常为众多牟尼所往来礼敬。
Verse 45
अश्रुभ्यो यानि जातानि प्रभाते कमलानि तु । गंगोदकप्लुतान्येव सौरभाणि महांति च
拂晓时由泪而生的诸莲华,宛如浸润于恒河之水,芬芳极其广大殊胜。
Verse 46
प्रतरंति प्रवाहे तु निर्मले जलपूरिते । मध्ये मध्ये सुहंसैश्च जलपक्षिनिनादिते
它们随清澈盈满之水流而漂游;其间处处,善鹅与诸水鸟之鸣声使溪流回响。
Verse 47
सूत उवाच । रत्नाख्ये तु गिरौ तस्मिन्रत्नेश्वरमहेश्वरः । देवदैत्यसुपूज्योपि तिष्ठते तात सर्वदा
苏多曰:在名为宝山(Ratnā)之山上,宝主自在天(Ratneśvara,Maheśvara)恒常安住,亲爱的啊,连诸天与阿修罗族(daitya)亦恭敬礼拜。
Verse 48
तत्र दृष्टो मया तात कश्चित्पुण्यमयो मुनिः । जटाभारसमाक्रांतो निर्वासा दंडधारकः
在那里,亲爱的父亲啊,我见到一位功德充满的牟尼:其身负重重结发,裸形无衣,手执杖具。
Verse 49
निराधारो निराहारस्तपसातीव दुर्बलः । कृशांगोऽप्यस्थिसंघातस्त्वचामात्रेण वेष्टितः
既无依止,亦无饮食,他因苦行而极度羸弱;虽形体枯槁,却如一具骨架,仅以皮肤包裹。
Verse 50
भस्मोद्धूलितमात्राणि सर्वांगानि महात्मनः । शुष्कपत्राणि भक्षेत शीर्णानि पतितानि च
那大德之身遍体仅覆以灰尘;他以干枯之叶为食,或已凋萎,或已飘落。
Verse 51
शिवभक्तिसमासीनो दुराधारो महातपाः । अश्रुभ्यो यानि जातानि पद्मानि सुरभीणि च
他安住于对湿婆的虔敬,坚定而难以约束,作为大苦行者行诸苦行;而由其泪水中生出莲华,亦皆芬芳。
Verse 52
गंगातोयात्समानीय देवदेवं प्रपूजयेत् । रत्नेश्वरं महाभागो गीतनृत्यविशारदः
取来恒河之水,那大福者——精于歌舞——当礼敬诸神之神、宝主罗特内湿伐罗(Ratneśvara)。
Verse 53
गायते नृत्यते तस्य द्वारस्थस्त्रिपुरद्विषः । मठमागत्य धर्मात्मा रोदते सुस्वरैरपि
在他门前,灭三城者(湿婆)伫立,歌舞不息;及至来到僧院,那位法性之人甚至以清婉之声啼泣。
Verse 54
एतद्दृष्टं मया तात अपूर्वं वदतांवर । कथयस्व प्रसादान्मे यदि त्वं वेत्सि कारणम्
亲爱的,善言之最者——我已见到前所未有之事。愿你慈悲,若知其因,请为我开示其缘由。
Verse 55
सा का नारी महाभागा कस्मात्तात प्ररोदिति । कस्मात्स देवपुरुषो देवमर्चेन्महेश्वरम्
那位大福德的女子是谁,亲爱的,为何她在哭泣?又为何那位如天神般的男子礼拜大自在天主——摩诃伊湿伐罗?
Verse 56
तन्मे त्वं विस्तराद्ब्रूहि सर्वसंदेहकारणम् । एवमुक्तो महाप्राज्ञः कुंजलोपि सुतेन हि
因此请你为我详说,能解除一切疑惑之因。其子如此发问,甚具智慧的鸠阇罗亦开口说道。
Verse 57
कपिंजलेन प्रोवाच विस्तराच्छृण्वतो मुनेः
随后,迦频阇罗详尽宣说,牟尼则专注谛听。