本章以摩希尼的发问与婆苏的权威答复为框架,宣说恒河(婆伽罗提)在一切圣地(tīrtha)中无与伦比。婆苏言:亲近婆伽罗提能使国土与修行林(āśrama)得以净化;对恒河的虔敬(bhakti)可得“至上境界”,胜过苦行(tapas)、梵行(brahmacarya)、祭祀(yajña)、瑜伽(yoga)、布施(dāna)与出离。并强调迦梨时代的殊胜:诸圣地将其威力汇入恒河,而恒河自具本源,不依他而成。无论瞻礼、沐浴、啜饮、携带恒河水,乃至触及被恒河水滴所拂之风,皆能灭罪,连重罪亦可消除。教义上指出:毗湿奴/阇那尔达那以液态之相住于恒河水中;以恒河水行诸仪轨者,亦得湿婆临在。章中亦述仪轨要点:恒河行于人间、地下界(pātāla)与天界;在瓦拉纳西于某些月日(tithi)具特别解脱之效;并称其水不致陈腐。末了重申:侍奉恒河可得天界、智慧、瑜伽成就与解脱(mokṣa)。
Verse 1
वसुरुवाच । श्रृणु मोहिनी वक्ष्यामि तीर्थानां लक्षणं पृथक् । येन विज्ञातमात्रेण पापिनां गतिरुत्तमा ॥ २ ॥
婆苏说道:“听着,摩希尼。我将逐一宣说诸圣地(tīrtha)的殊胜特征;仅凭了知此义,纵是罪人亦能趋至至上归宿。”
Verse 2
सर्वेषामपि तीर्थानां श्रेष्ठा गंगा धरातले । न तस्या सदृशं किंचिद्विद्यते पापनाशनम् ॥ ३ ॥
在大地上一切圣地之中,恒河(Gaṅgā)最为殊胜;于灭除罪业之事,未有与她相等者。
Verse 3
तच्छ्रुत्वा वचनं तस्य वसोः स्वस्य पुरोधसः । प्रणता मोहिनी प्राह गंगास्नानकृतादरा ॥ ४ ॥
听闻婆苏自家祭司之言,摩希尼恭敬俯伏而答;因恒河沐浴之功德与神圣,她的敬信更为炽盛。
Verse 4
मोहिन्युवाच । भगवन्वाडवश्रेष्ठ गंगामाहात्म्यमुत्तमम् । सर्वेषां च पुराणानां संमतं वद सांप्रतम् ॥ ५ ॥
摩希尼说道:“大德啊,瓦陀婆族中最胜者啊,请你此刻宣说恒河至上的伟大功德——此事为一切往世书所共同认可与印证。”
Verse 5
श्रुत्वा माहात्म्यमतुलं गंगायाः पापनाशनम् । पश्चात्पापविनाशिन्यां स्नातुं यास्ये त्वया सह ॥ ६ ॥
听闻恒河(Gaṅgā)那无与伦比、能灭除罪业的伟大功德之后,我将随后与你同去,在这条消罪圣河中沐浴。
Verse 6
तच्छ्रुत्वा मोहिनीवाक्यं वसुः सर्वपुराणवित् । माहात्म्यं कथयामास गंगायाः पापनाशनम् ॥ ७ ॥
听到那迷人的言辞,通晓一切《往世书》的瓦苏便开始讲述恒河(Gaṅgā)灭罪的伟大功德。
Verse 7
वसुरुवाच । ते देशास्ते जनपदास्ते शैला स्तेऽपि चाश्रमाः । येषां भागीरथी पुण्या समीपे वर्तते सदा ॥ ८ ॥
瓦苏说道:那些国土、那些乡邦、那些群山与那些修行林苑,确实蒙福——因为圣洁的婆伽伊罗提(Bhāgīrathī,即恒河)常在其近旁流淌。
Verse 8
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः । तां गतिं न लभेज्जंतुर्गंगां संसेव्य यां लभेत् ॥ ९ ॥
无论以苦行、梵行、祭祀,或以舍离修持,众生也难得那至上归趣;唯有以虔敬亲近、奉事恒河,方能获得。
Verse 9
पूर्वे वयसि पापानि कृत्वा कर्माणि ये नराः । शेषे गंगां निषेवंते तेऽपि यांति परां गतिम् ॥ १० ॥
即便有人在早年造作罪业,若在生命后期以虔敬之心亲近、依止恒河,他们也同样能抵达至上归趣。
Verse 10
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् । मासमेकं तु गंगायां स्नातस्तुल्यफलावुभौ ॥ ११ ॥
有人以一足站立千劫,又有人在恒河中沐浴一月——二者所得功德之果等同。
Verse 11
तिष्ठेतार्वाक्छिरा यस्तु युगानामयुतं पुमान् । तिष्ठेद्यथेष्टं यश्चापि गंगायां स विशिष्यते ॥ १२ ॥
纵使有人倒垂其首站立一万劫,纵使另有人随意安住于恒河之中——安住恒河者被视为更为殊胜。
Verse 12
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् । गतिमन्वेषमाणानां न गंगासदृशी गतिः ॥ १३ ॥
对世间一切众生而言,心为忧苦所摧、寻求真实归依者——无有任何归宿可与恒河相比。
Verse 13
प्रकृष्टैः पातकै र्घोरैः पापिनः पुरुषाधमान् । प्रसह्य तारयेद्गुंगा गच्छतो निरयेऽशुचौ ॥ १४ ॥
即便是罪孽深重、为人中下劣者,背负可怖重罪、正走向污秽地狱之途——恒河亦以其威力强而渡之,使其得救。
Verse 14
ते समानास्तु मुनिभिर्नूनं देवैः सवासवैः । येऽभिगच्छंति सततं गंगामभिमतां सुरैः ॥ १५ ॥
诚然,凡恒常前往恒河——为诸天所爱者——实与诸牟尼及诸神等同,乃至与因陀罗及其眷属无异。
Verse 15
अंधाञ्जडान्द्रव्यहीनांश्च गंगा संपावयेद्बृहती विश्वरूपा । देवैः सेंद्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकालं समृद्ध्ये ॥ १६ ॥
伟大的恒河,广大无边,具宇宙之相,能彻底净化盲者、愚钝者与贫乏无资者。诸天与因陀罗、诸牟尼与世人恒常依止礼敬,她永为兴盛与福泽之源。
Verse 16
पक्षादौ कृष्णपक्षे तु भूमौ संनिहिता भवेत् । यावत्पुण्या ह्यमावास्या दिनानि दश मोहिनि ॥ १७ ॥
在黑半月(克利须那半月)之初,她临在于大地。噢迷人者,她停留直至神圣的无月日阿摩婆娑耶结束——共计十日。
Verse 17
शुक्लप्रतिपदादेश्च दिनानि दश संख्यया । पाताले सन्निधानं तु कुरुते स्वयमेव हि ॥ १८ ॥
自白半月初一(舒克拉·普拉提帕达)起,历数十日,她确然自发地在帕塔拉(下界)安立其临在。
Verse 18
आरभ्य शुक्लैकादश्या दिनानि दश यानि तु । पंचम्यं तानि सा स्वर्गे भवेत्सन्निहिता सदा ॥ १९ ॥
自明半月的十一日(艾卡达希)起,其后十日——直至五日(潘查弥)——她常住天界,恒常临在。
Verse 19
कृते तु सर्वतीर्थानि त्रेतायां पुष्करं परम् । द्वापरे तु कुरुक्षेत्रं कलौ गंगा विशिष्यते ॥ २० ॥
在克利多纪,一切圣渡处(tīrtha)皆为最胜;在特雷塔纪,普什卡拉最为尊上;在德瓦帕拉纪,俱卢之野(库鲁克舍特拉)最为尊上;而在迦利纪,恒河尤为殊胜卓绝。
Verse 20
कलौ तु सर्वतीर्थानि स्वं स्वं वीर्यं स्वभावतः । गंगायां प्रतिमुंचंति सा तु देवी न कुत्रचित् ॥ २१ ॥
在迦利时代,一切圣渡口依其本性,将各自的灵德威力汇入恒河;而恒河女神却从不把自己的神力转移到任何他处。
Verse 21
गंगांभः कणदिग्धस्य वायोः संस्पर्शनादपि । पापशीला अपि नराः परां गतिमवाप्नुयुः ॥ २२ ॥
即便只是触及被恒河水滴润湿的微风,纵使行止罪恶之人,也能获得至上的归宿。
Verse 22
योऽसौ सर्वगतो विष्णुश्चित्स्वरूपी जनार्दनः । स एव द्रवरूपेण गंगांभो नात्र संशयः ॥ २३ ॥
那遍在一切的毗湿奴——本性为纯净觉知的阎那尔达那——正以液态亲临为恒河之水;对此毫无疑惑。
Verse 23
ब्रह्महा गुरुडा गोघ्नः स्तेयी च गुरुतल्पगः । गंगांभसा च पूयंते नात्र कार्या विचारणा ॥ २४ ॥
即便是杀婆罗门者、弑师者、杀牛者、盗贼,以及玷污师床者,也都能被恒河之水净化;对此无需疑虑与思量。
Verse 24
क्षेत्रस्थमृद्धृतं वापि शीतमुष्णमथापि वा । गांगेयं तु हरेत्तोयं पापमामरणांतिकम् ॥ २५ ॥
无论此水取自圣地,或自彼处携来;无论清冷或温热——恒河之水确能除罪,直至生命终尽(至死之际)。
Verse 25
वर्ज्यं पर्युषितं तोयं वर्ज्यं पुर्युषितं दलम् । न वर्ज्यं जाह्नवीतोयं न वर्ज्यं तुलसीदलम् ॥ २६ ॥
陈水当避,陈叶亦当避;然阇诃那维(恒河)之水不可弃,图拉西之叶亦不可弃,纵使隔夜亦然。
Verse 26
मेरोः सुवर्णस्य च सर्वरत्नैः संख्योपलानामुदकस्य वापि । गंगाजलानां न तु शक्तिरस्ति वक्तुं गुणाख्यापरिमाणमत्र ॥ २७ ॥
纵使取须弥山之黄金、诸宝珠、无量卵石,乃至以水为喻,亦无力尽说恒河之水功德之量与广。
Verse 27
तीर्थयात्राविधिं कृत्स्नमकुर्वाणोऽपि यो नरः । गंगातोयस्य माहात्म्यात्सोऽप्यत्र फलभाग्भवेत् ॥ २८ ॥
即便有人未能圆满行尽朝圣诸仪,亦能在此分得灵性之果——皆因恒河之水大威德故。
Verse 28
चिंतामणिगुणाच्चापि गंगायास्तोयबिंदवः । विशिष्टा यत्प्रयच्छंति भक्तेभ्यो वांछितं फलम् ॥ २९ ॥
纵胜于如意宝珠“真多摩尼”之力,恒河水之滴尤为殊胜——因其赐予奉爱者所愿之果。
Verse 29
गंडूषमात्रतो भक्त्या सकूद्गंगांभसा नरः । कामधेनु स्तनोद्भूतान्भुंक्ते दिव्यरसान्दिवि ॥ ३० ॥
凡人若以虔爱之心,哪怕仅一次,唯以恒河水含漱一口,便于天界享受由如意母牛迦摩德奴乳房所生的甘露妙味。
Verse 30
शालग्रामशिलायां यस्तु गंगाजलं क्षिपेत् । अपहत्य तमस्तीव्रं भाति सूर्यो यथोदये ॥ ३१ ॥
凡以恒河圣水灌洒于娑罗伽罗摩(Śālagrāma)圣石者——驱散深重黑暗,光辉显现,如旭日初升。
Verse 31
मनोवाक्कायजैर्ग्रस्तः पापैर्बहुविधैरपि । वीक्ष्य गंगां भवेत्पूतः पुरुषो नात्र संशयः ॥ ३२ ॥
即使被由心、语、身所生的种种罪业所缠之人,只要瞻见恒河,便得清净;此中毫无疑虑。
Verse 32
गंगातोयाभिषिक्तां तु भिक्षामश्नाति यः सदा । सर्पवत्कंचुकं मुक्त्वा पापहीनो भवेत्स वै ॥ ३३ ॥
凡常食以恒河水洒净而成圣的乞食者——如蛇脱旧蜕般弃去罪垢,确然成为无过之人。
Verse 33
हिमवद्विंध्यसदृशा राशयः पापकर्मणाम् । गंगांभसा विनश्यंति विष्णुभक्त्या यथापदः ॥ ३४ ॥
罪业之堆,广大如喜马拉雅与温迪亚诸山,皆为恒河之水所摧灭;同样,凭对毗湿奴的奉爱(bhakti),亦能将之毁尽,仿佛不过是些脚印。
Verse 34
प्रवेशमात्रे गंगायां स्नानार्थं भक्तितो नृणाम् । ब्रह्महत्यादिपापानि हाहेत्युक्त्वा प्रयांत्यलम् ॥ ३५ ॥
众人怀着虔敬,为沐浴而仅一入恒河之时,诸如婆罗门杀罪(brahmahatyā)等诸罪便呼号“哀哉!”而尽皆遁去。
Verse 35
गंगातीरे वसेन्नित्यं गंगातोयं पिबेत्सदा । यः पुमान्स विमुच्येत पातकैः पूर्वसंचितैः ॥ ३६ ॥
凡恒常住于恒河岸边、常饮恒河圣水之人,必得解脱,远离往昔所积诸罪。
Verse 36
यो वै गंगां समाश्रित्य नित्यं तिष्ठति निर्भयः । स एव देवैर्मर्त्यैश्च पूजनीयो महर्षिभिः ॥ ३७ ॥
凡依止恒河,日日安住坚定而无畏者,唯此人堪受诸天、世人及诸大圣仙之礼敬供养。
Verse 37
किमष्टांगेन योगेन किं तपोभिः किमध्वरैः । वास एव हि गंगायां सर्वतोऽपि विशिष्यते ॥ ३८ ॥
何必修八支瑜伽,何必行苦行,何必设诸祭祀?唯住于恒河之畔,实胜过一切。
Verse 38
किं यज्ञैर्बहुभिर्जाप्यैः किं तपोभिर्धनार्पणैः । स्वर्गमोक्षप्रदा गंगा सुखसेव्या यतः स्थिता ॥ ३९ ॥
何必多种祭祀与反复持诵?何必苦行与财物供施?因恒河安住于此,易于亲近奉事,并赐予天界与解脱。
Verse 39
यज्ञैर्यमैश्च नियमैर्दानैः संन्यासतोऽपि वा । न तत्फलमवाप्रोति गंगां सेव्य यदाप्नुयात् ॥ ४० ॥
纵以祭祀、以制戒与行持、以布施,乃至以出离修行,亦不能得那同等之果;唯事奉恒河方能获得。
Verse 40
प्रभासे गोसहस्त्रेण राहुग्रस्ते दिवाकरे । यत्फलं लभते मर्त्यो गंगायां तद्दिनेन वै ॥ ४१ ॥
在普拉婆娑,当罗睺吞蔽日轮、施舍千头乳牛时,凡人所得的功德;在恒河边仅一日之修持,亦得同等功德。
Verse 41
अन्योपायांश्च यस्त्यक्त्वा मीक्षकामः सुनिश्चितः । गंगातीरे सुखं तिष्ठेत्स वै मोक्षस्य भाजनम् ॥ ४२ ॥
若有人舍弃诸余方便,立志坚固、唯求解脱,安住于恒河之滨;此人确为得摩克沙之器。
Verse 42
वाराणस्यां विशेषण गंगा सद्यस्तु मोक्षदा । प्रतिमासं चतुर्दश्यामष्टम्यां चैव सर्वदा ॥ ४३ ॥
尊者啊,在婆罗那西,恒河确能即刻赐予解脱;恒常如此,尤以每月之第十四月日与第八月日为甚。
Verse 43
गंगातीरे निवासश्च यावज्जीवं च सिद्धिदः । कृच्छ्राणि सर्वदा कृत्वा यत्फलं सुखमश्नुते ॥ ४४ ॥
终身居住于恒河之滨,能赐予成就与圆满。那因恒常修行严峻的苦行(kṛcchra)而得的安乐之果,在此亦可轻易获得。
Verse 44
सदा चांद्रायणं चैव तल्लभेज्जाह्नवीतटे । गंगासेवापरस्येह दिवसार्द्धेन यत्फलम् ॥ ४५ ॥
在阇诃那毗(恒河)之岸,确能获得如同恒常奉行“月行誓”(Cāndrāyaṇa)之果报;而于此专心侍奉恒河者,同等功德仅半日便得。
Verse 45
न तच्छक्यं ब्रह्मसुते प्राप्तुं क्रतुशतैरपि । सर्वयज्ञतपोदानयोगस्वाध्यायकर्मभिः ॥ ४६ ॥
噢,梵天之子啊,那至上境界即使以数百次吠陀祭祀也不可得;亦非凭一切祭祀、苦行、布施、瑜伽修持、诵习吠陀或诸般仪轨之业而能到达。
Verse 46
यत्फलं तल्लभेद्भक्त्या गंगातीरनिवासतः । यत्पुण्यं सत्यवचनैर्नैष्ठिकब्रह्मचारिणाम् ॥ ४७ ॥
那同一果报,凭奉爱而住于恒河之滨即可获得;而那属于坚守终身梵行者的同等福德(puṇya),亦可由真实之语而成就。
Verse 47
यदग्निहोत्रिणां पुण्यं तत्तु गंगानिवासतः । समातृपितृदाराणां कुलकोटिमनंतकम् ॥ ४८ ॥
凡守持阿耆尼火供(Agnihotra)者之福德,亦可仅以居住恒河之滨而得;其利益无尽,连同母亲、父亲与配偶,普及于家族无量亿万之世系。
Verse 48
गंगाभक्तिस्तारयते संसारार्णवतो ध्रुवम् । संतोषः परमैश्वर्यं तत्त्वज्ञानं सुखात्मनाम् ॥ ४९ ॥
对恒河的奉爱,必定能渡越轮回之海。知足是至上的财富,而如实知见(tattva-jñāna)是性本安乐者的喜悦。
Verse 49
विनयाचारसंपत्तिर्गंगाभक्तस्य जायते । कृतकृत्यो भवेन्मर्त्यो गंगां प्राप्यैव केवलम् ॥ ५० ॥
恒河的奉爱者,自然生起谦卑与正行之资粮。凡人只要得至恒河,便成就了此生所当成就者。
Verse 50
तद्भक्तस्तत्परश्च स्यान्मृतो वापि न संशयः । भक्त्या तज्जलसंस्पर्शी तज्जलं पिबते च यः ॥ ५१ ॥
无论仍在世,或已离身而去——毫无疑问——他都将成为主的奉献者,心神全然归向主:以奉爱之心触及那圣水,并饮用那圣水之人。
Verse 51
अनायासेन हि नरो मोक्षोपायं स विंदति । दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने ॥ ५२ ॥
确实,无需艰苦用力,人便得着通向解脱(mokṣa)之道;他如同在一切祭祀中受了灌顶(dīkṣā),并日日获得如饮苏摩(Soma)般的功德。
Verse 52
सर्वाणि येषां गंगायास्तोयैः कृत्यानि सर्वदा । देहं त्यक्त्वा नरास्ते तु मोदंते शिवसन्निधौ ॥ ५३ ॥
凡其一切神圣义务恒以恒河(Gaṅgā)之水而行者——舍身之后——便在湿婆(Śiva)亲临之处欢喜安乐。
Verse 53
देवाः सोमार्कसंस्थानि यथा शक्रादयो मुखैः । अमृतान्युपभुंजंति तथा गंगाजलं नराः ॥ ५४ ॥
正如因陀罗(释迦罗,Śakra)等诸天在月与日的居处享用甘露,世人亦如是享用恒河之水。
Verse 54
कन्यादानैश्च विधिवद्भूमिदानैश्च भक्तितः । अन्नदानैश्च गोदानैः स्वर्णदानादिभिस्तथा ॥ ५५ ॥
以如法施嫁女(kanyādāna),以奉爱之心施地,又以施食、施牛、施金及诸如此类的供施——人由这些布施(dāna)之行而积聚法德功德。
Verse 55
रथाश्वगजदानैश्च यत्पुण्यं परिकीर्तितम् । ततः शतगुणं पुण्यं गंगांभश्चुलुकाशनात् ॥ ५६ ॥
经中所称布施战车、骏马与大象所得之福德——仅啜饮一捧圣恒河之水,其功德胜彼百倍。
Verse 56
चांद्रायणसहस्राणां यत्फलं परिकीर्तितम् । ततोऽधिकफलं गंगातोयपानादवाप्यते ॥ ५७ ॥
经中所说千次行持“月行斋”(Cāndrāyaṇa)之果报——饮恒河之水所得之果更为殊胜。
Verse 57
गंडूषमात्रपाने तु अश्वमेधफलं लभेत् । स्वच्छंदं यः पिबेदंभस्तस्य मुक्तिः करे स्थिता ॥ ५८ ॥
仅以仪式之含漱一口(gandūṣa)饮之,便得马祭(Aśvamedha)之果;而以信敬之心随意饮者,解脱仿佛就在其掌中。
Verse 58
त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम् । नार्मदं दशभिर्मासैर्गांगं वर्षेण जीर्यति ॥ ५९ ॥
萨拉斯瓦蒂之水三日即陈;亚穆那之水七日即陈。纳尔马达之水十月方陈;而恒河之水一年之后才算陈旧。
Verse 59
शास्त्रेणाकृततोयानां मृतानां क्वापि देहिनाम् । तदुत्तरफलावाप्तिर्गंगायामस्थियोगतः ॥ ६० ॥
凡有身众生若在他处亡故,未能依经行水供等仪轨者,其后世之利益,可由其遗骨与圣恒河相系而得。
Verse 60
चांद्रायणसहस्रं तु यश्चरेत्कायशोधनम् । यः पिबेत्तु यथेष्ठं हि गंगाम्भः स विशिष्यते ॥ ६१ ॥
即便有人为净化身躯而修行千次“月行斋”(Cāndrāyaṇa)——仍不及那随愿饮用恒河圣水者;此人被视为尤为殊胜。
Verse 61
गंगां पश्यति यः स्तौति स्नाति भक्त्या पिबेज्जलम् । स स्वर्गं ज्ञानममलं योगं मोक्षं च विंदति ॥ ६२ ॥
凡得见恒河、赞颂她、以虔敬之心在她中沐浴并饮其水者——便得天界、无垢之智、瑜伽成就,亦得解脱。
Verse 62
यस्तु सूर्य्यांशुनिष्टप्तं गांगेयं पिबते जलम् । गोमूत्रयावकाहाराद्गांगपानं विशिष्यते ॥ ६३ ॥
然而,若有人饮用被日光温暖的恒河水——此等饮恒河圣水,被认为胜过以牛尿与大麦粥为食的苦行。
Verse 63
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गंगामाहात्म्यवर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ॥ ३८ ॥
至此,《圣大那罗陀往世书》后分(Uttarabhāga)中,摩希尼与婆苏之对话里,名为《恒河功德之叙述》的第三十八章圆满结束。
The chapter states that in Kali Yuga all other tīrthas ‘deposit’ their potency into the Gaṅgā, making her the concentrated locus of tīrtha-śakti, while she does not transfer her power elsewhere; therefore Gaṅgā-access (sight, bath, sip, residence) is presented as the most direct means to purification and mokṣa.
The text credits partial or minimal engagements—beholding the Gaṅgā, entering with intent to bathe, sipping a mouthful, sprinkling food, carrying the water, or even contact with wind moistened by Gaṅgā droplets—as sufficient to share in the tīrtha’s fruit due to the intrinsic greatness of Gaṅgā-water.
It explicitly identifies Janārdana/Viṣṇu—pure consciousness—as present in liquid form as the waters of the Gaṅgā, grounding tīrtha efficacy in divine immanence rather than only in ritual performance.