瓦西什塔向鲁克芒伽达王讲述从山上下降之事,途中见到如矿石般奇异的形态。抵达平地时,国王的马踏击大地,误伤一只新近显现的家蜥(godhā)。国王慈悲动心,以清凉之水使其苏醒;蜥蜴遂忏悔:昔在沙迦罗(Śākala),她曾以护身粉末/护符等强制降伏之法控制丈夫,致其重病,因此堕入塔姆拉布拉什特拉(Tāmrabhrāṣṭra)地狱,并屡受卑下转生,久困蜥蜴之身。她祈求凭国王功德得救,尤依“胜利日”(Vijayā)善行之不坏果报、守持“舍罗瓦那·十二日斋”(Śravaṇa-dvādaśī)并于十三日(Trayodaśī)如法破斋(pāraṇa),又仰赖萨拉尤河与恒河的净化力,以及居家忆念哈利(Hari-smaraṇa)。摩希尼起初主张严守业报,但国王以哈里什旃陀罗、达提奇、施毗、吉穆塔瓦哈那等事迹开示慈悲,并决意回向功德。国王施与所积福德后,蜥蜴舍身化为天界庄严之相,前往毗湿奴诸世界,彰显以归依、慈悲与戒斋之果而得解脱(mokṣa)。
Verse 1
वसिष्ठ उवाच । संप्रस्थितावुभौ राजन्गिरिशीर्षाद्धरातलम् । पश्यमानौ बहून्भावान्गिरिजातान्मनोहरमनोहरान् ॥ १ ॥
婆悉吒说道:大王啊,他们二人自山巅启程下至地面,一路观览无数迷人景象——皆是由群山所生的种种奇妙形态,令人心悦。
Verse 2
केचिद्विद्रुमसंकाशाः केचिद्रजतसन्निभाः । केचिन्नीलसमप्रख्याः केचित्कांचनसत्विषः ॥ २ ॥
有的宛如珊瑚,有的好似白银;有的放射蓝宝石般的青辉,有的则燃起黄金般的光泽。
Verse 3
केचित्स्फाटिकवर्णाभा हरितालनिभाः परे । अन्योन्यश्लेषतां प्राप्तौ सकलैः स्थावरैरिव ॥ ३ ॥
有的呈水晶般澄澈之色,有的则似雄黄般的翠绿;它们彼此相触相连,宛如一切不动之物紧密挤压在一起。
Verse 4
सप्राप्य वसुधां भूपो ह्यपश्यद्वाजिनां वरम् । खन्यमानं खुरेणोर्वी कुलिशाभेन वेगिना ॥ ४ ॥
抵达地面后,国王果然看见一匹骏马之最;它疾如风,以蹄掘地,仿佛金刚杵般的雷霆猛然击落。
Verse 5
तस्य दारयतः पृथ्वीं सुतीक्ष्णेन खुरेण हि । गृहगोधाभवत्तस्मिन् भूभागांतर्गता किल ॥ ५ ॥
当他以极其锋利的蹄爪撕裂大地之时,据说就在那片地方,一只家壁虎(gṛhagodhā)潜入一段土中而生起。
Verse 6
निर्गच्छमाना नृपते खुरेण विदलीकृता । विदीर्यमाणां नृपतिरपश्यत्स दयापरः ॥ ६ ॥
当它正要爬出时,噢大王,它被蹄爪劈裂;而那位满怀慈悲的国王,亲见它被撕裂的惨状。
Verse 7
अभ्यधावत वेगेन हा हतेति प्रियां वदन् । ततः स वृक्षपत्रेण कोमलेन महीपतिः ॥ ७ ॥
他疾速奔上前去,对心爱之人呼喊:“哀哉,我已被害!”随后,那位国王取来一片柔嫩的树叶(遂依情势而行)。
Verse 8
उत्सार्य तां खुरादाशु प्राक्षिपत्तृणशाद्वले । ततस्तु मोहिनीं प्राह प्रेक्ष्य मूर्च्छागतां हि ताम् ॥ ८ ॥
他迅速将它从蹄下拨开,抛到草地上。随后见摩希尼昏厥倒地,便对她说道。
Verse 9
शीघ्रमाहर चार्वंगिजलं जलजलोचने । येन मूर्च्छागतां सिंचे गृहगोधां विमर्द्दिताम् ॥ ९ ॥
“快取水来,肢体娴美者、莲华眼的女士;用水洒润那被击中而昏厥的家壁虎,使其苏醒。”
Verse 10
सा भर्तुर्वचनाच्छीघ्रमानयच्छीतलं जलम् । तेनाभ्यषिं चन्नृपतिर्गृहगोधां विमूर्च्छिताम् ॥ १० ॥
依丈夫之言,她迅速取来清凉之水。国王以此水洒灌那昏厥的家蜥(godhā)。
Verse 11
अवाप चेतनां राजन् शीतलाज्जलसेचनात् । अभिघातेषु सर्वेषु शस्तं वारिप्रसेचनम् ॥ ११ ॥
大王啊,因清凉之水的洒灌,她恢复了知觉。对一切创伤与击打,经典称以洒水施治为有益之法。
Verse 12
अथवा क्लिन्नवस्त्रेण सहसा बंधनं हितम् । संप्राप्तचेतना भूप गोधा वचनमब्रवीत् ॥ १२ ॥
“又或者,立刻以湿布缠缚亦为善法。”苏醒之后,大王啊,那家蜥(godhā)说出了这些话。
Verse 13
राजानमग्रतो वीक्ष्य वेदनार्ता शनैः शनैः । रुक्मांगद महाबाहो निबोध मम चेष्टितम् ॥ १३ ॥
她见国王在前,痛苦缠身,便缓缓说道:“鲁克芒伽达啊,大臂勇者,请明了我将行之事。”
Verse 14
शाकले नगरे रम्ये भार्याहं ह्यग्रजन्मनः । रूपयौवनसंपन्ना तस्य नातिप्रिया विभो ॥ १४ ॥
在可爱的舍迦罗城中,我曾为一位长兄之妻。纵具姿容与青春,主啊,我却并非他格外钟爱之人。
Verse 15
सदा विद्वेषसंयुक्तो मयि निष्ठुरजल्पकः । नान्यस्य कस्यचिद्द्वेष्टा स तु मे नृपते पतिः ॥ १५ ॥
大王啊,他常怀怨憎,对我言辞刻薄;然而他并不憎恨他人——确然,他就是我的夫君。
Verse 16
ततोऽह क्रोधसंयुक्ता वशीकरणलंभनात् अपृच्छं प्रमदा राजन्यास्त्यक्ताः पतिभिः किल ॥ १६ ॥
随后我——被怒火所摄——因已得迷惑与制伏之法,便询问王宫中的诸位女子;据说她们都被丈夫遗弃了。
Verse 17
ताभिरुक्ता ह्यहं भूप वश्यो भर्ता भविष्यति । अस्माकं प्रत्ययो जातो भर्तृत्यागावमाननात् ॥ १७ ॥
大王啊,听她们如此劝告,我便确信:我的夫君必将变得顺从、受制。此信念在我们心中生起,正因他遗弃并羞辱了我们。
Verse 18
प्रव्रज्याभेषजैर्वश्या जाता हि पतयस्तु नः । त्वं पृच्छ तां वरारोहे दास्यते भेषजं शुभम् ॥ १८ ॥
“因出离之药(pravrajyā),我们的丈夫确已不再受我们影响。你这腰胯娴美的女子,去问她吧——她会赐你吉祥的良方。”
Verse 19
न विकल्पस्त्वया कार्यो भविता दासवत्पतिः । ततोऽहं त्वरितं गत्वा तासां वाक्येन भूपते ॥ १९ ॥
大王啊,你不必迟疑;那位夫主必将如仆从般听命。于是我将依那些女子之言迅速前往,哦,大地的统治者。
Verse 20
प्रासादः कथितस्तस्याः पृच्छंत्या मम मानवैः । शतस्तंभसमायुक्तः कांतिमत्सुधया युतः ॥ २० ॥
诸位众人,当她问我时,我向她描述了一座宫殿——百柱庄严,光辉灿然,并具甘露(阿姆利塔)般的殊胜妙美。
Verse 21
प्रविश्य तं सुतेजस्कामपश्यं ब्रह्यचारिणीम् । प्रावृतां दीर्घवस्त्रेण सन्ध्यारागसवर्णिनीम् ॥ २१ ॥
我进入那处时,看见一位光耀的少女,守持梵行(brahmacarya)之戒,披着长衣;其肤色宛如暮色霞红。
Verse 22
दीर्घाभिः सा जटाभिस्तु संवृता दीप्तिसयुता । परिचारकैस्तु संयुक्ता वीज्यमाना शनैः शनैः ॥ २२ ॥
她以长长的结发(jaṭā)覆身,具足炽盛光辉;侍从环绕左右,轻柔为她扇风,缓缓反复不息。
Verse 23
अक्षसूत्रकरा सा तु जपन्ती भगमालिनी । सर्ववश्यकरं मन्त्रं क्षोभकं प्रत्ययावहम् ॥ २३ ॥
她手持念珠(mālā),那位名为薄伽摩梨尼(Bhagamālinī)者诵持一咒:能令众生归伏,撼动心与诸根,并以亲证带来当下的确信。
Verse 24
ततोऽहं प्रणता भूत्वा पद्भ्यां न्यस्यांगलीयकम् । मृदुकांचनसंभूतं अतिरिक्तप्रभान्वितम् ॥ २४ ॥
随后我恭敬顶礼,将一枚戒指安放在他足下——以柔金铸成,放射出非凡的光辉。
Verse 25
ततो हृष्टाऽभवद्दृष्ट्वा पदस्थं चांगुलीयकम् । अपृष्टया तया ज्ञातं मम भर्त्तुर्विमाननम् ॥ २५ ॥
随后她见到戒指落在他脚边,心中欢喜。无需旁人询问,她便明白:我的夫君已遭轻慢与羞辱。
Verse 26
तयोक्ताहं ततो भूप तापस्या प्रणता स्थिता । चूर्णो रक्षान्वितो ह्येष सर्वभूतवशानुगः ॥ २६ ॥
于是,噢大王,承他们教诲,我便留在那里,俯首礼敬,专心修持苦行。此加持之粉确具护佑之力,能令诸有情皆受其影响而顺从。
Verse 27
त्वया भर्तरि संयोज्यो रक्ष्यं ग्रीवाशयांकुरम् । भविष्यति पतिर्वश्यो नान्यां यास्यति सुन्दरीम् ॥ २७ ॥
你当将此用于你的夫君,并谨护置于颈窝处、如嫩芽般的护符。你的丈夫将变得顺从;美人啊,他将不再去向别的女子。
Verse 28
चूर्णरक्षां गृहीत्वाहं प्राप्ताभर्तृगृहं पुनः । प्रदोषे पयसा युक्तश्चूर्णो भर्तरि योजितः ॥ २८ ॥
我取了护身之粉(chūrṇa-rakṣā),又回到夫家。于pradoṣa(黄昏)时,将粉与乳汁调和,涂抹在我夫君身上。
Verse 29
ग्रीवायां हि कृता रक्षा न विचारो मया कृतः । यदा स पीतचूर्णस्तु भर्ता नृपवरोत्तमा ॥ २९ ॥
确实,我已将护符系在颈上,却未再多作思量。随后那位夫君——噢诸王之最——竟被黄粉涂抹满身。
Verse 30
तदहः क्षयरोगोऽभूत्पतिः क्षीणो दिने दिने । गुह्ये तु क्रिमयो जाताः क्षतदुष्टव्रणोद्भवाः ॥ ३० ॥
从那一天起,丈夫便患上消耗之疾,日复一日愈加衰弱;其隐秘之处生出虫蛆,乃由受损而腐臭的溃疡所致。
Verse 31
दिनैः कतिपयैर्जातैर्दीपवद्रविदर्शनात् । हततेजास्तथा भर्त्ता मामुवाचाकुलेन्द्रियः ॥ ३१ ॥
数日之后,见到财物如灯火般耀眼夺目,我的丈夫光彩尽失、诸根不安,便对我说道。
Verse 32
क्रंदमानो दिवा रात्रौ दासोऽस्मि तव शोभने । त्राहि मां शरणं प्राप्तं न गच्छेयं परिस्त्रियम् ॥ ३२ ॥
他昼夜哭泣说道:“噢,光辉的你,我是你的仆从。请救护我——我已来投你为归依——使我不至追逐他人之妻。”
Verse 33
तत्तस्य रुदितं श्रुत्वा भयभीता महीपते । तस्यां निवेदितं सर्वं कथं भर्ता भवेत्सुखी ॥ ३३ ॥
大王啊,听到她的哭泣,他心生恐惧;而当关于她的一切都已禀告于他,丈夫又怎能安然自若?
Verse 34
तयापि भेषजं दत्तं द्वितीयं दाहशांतये । दत्ते तु भेषजे तस्मिन्सुस्थोऽभूत्तत्क्षणात्पतिः ॥ ३४ ॥
她又施以第二种药方以平息灼痛;那药一经服下,丈夫当下便恢复安康。
Verse 35
पूर्वचूर्णोद्भवो दाहः शांतस्तेनौषधेन ह । ततः प्रभृति मे भर्ता वश्योऽभूद्वचने स्थितः ॥ ३५ ॥
先前那粉末所生的灼痛,被那药方安抚而平息。自此以后,我的丈夫变得顺从,常住于对我言语的服从之中。
Verse 36
कालेन पञ्चतां प्राप्ता गता नरकयातनाम् । ताम्रभ्राष्ट्रे ह्यहं दग्धा युगानि दश पञ्च च ॥ ३६ ॥
时至其时,我命终而被带往地狱受刑。在名为“多摩罗婆罗什吒罗”(Tāmrabhrāṣṭra)的地狱中,我被焚烧了十五劫。
Verse 37
सूक्ष्माणि तिलमात्राणि कृत्वा खण्डान्यनेकशः । किंचित्पातकशेषेण धरायामवतारिता ॥ ३७ ॥
它被分裂成无数细微碎片,每一片仅如芝麻之粒;因尚余些许罪业残迹,遂被投生降至人间大地。
Verse 38
गृहगोधामयं रूपं कृतं भास्करजेन मे । साहमत्र स्थिता भूप वर्षाणामयुतं पुरा ॥ ३८ ॥
婆娑迦罗阇(Bhāskaraja)为我造就了家壁虎之形。大王啊,我自久远以来便停留于此,确已历经一万年。
Verse 39
यान्यापि युवतिर्भूप भर्तुर्वश्यं समाचरेत् । वृथाधर्मा दुराचारा दह्यते ताम्रभ्राष्ट्रके ॥ ३९ ॥
大王啊,凡有少女为使丈夫受己驱使而行事,追逐虚妄之法、违背正法而行不端者,必在多摩罗婆罗什吒罗地狱中,于铜锅里被焚烧。
Verse 40
भर्ता नाथो गतिर्भर्ता दैवतं गुरुरेव च । तस्य वश्यं चरेद्या तु सा कथं सुखमाप्नुयात् ॥ ४० ॥
丈夫是她的护持者;丈夫是她的归依处;丈夫是她的神明,亦确是她的师长。若她不与他和合而住,不随其教导而行,又怎能得安乐?
Verse 41
तिर्यग्योनिशतं याति क्रिमिकुष्ठसमन्विता । तस्माद्भूपाल कर्तव्यं स्त्रीभिर्भर्तृवचः सदा ॥ ४१ ॥
她为虫患与麻风所苦,便在下劣的胎生中(畜生之类)轮回百次。故而,大王啊,女子当恒常遵行丈夫之言。
Verse 42
साहं यास्ये पुनर्योनिं कुत्सितां पातकान्विताम् । यदि नोद्धरसे राजन्नद्य मां शरणागताम् ॥ ४२ ॥
若今日,大王啊,我既已来投靠求庇护,而你不救度我,我便将再度堕入卑劣的再生,系缚于罪业之中。
Verse 43
सुकृतस्य प्रदानेन विजयाजनितेन हि । या त्वया संगमे पुण्ये कृता श्रवणद्वादशी ॥ ४३ ॥
诚然,由“毗阇耶”(Vijayā)仪轨所生的功德布施,以及你在神圣合流处所行的“室罗伐那·十二日斋”(Śravaṇa-dvādaśī)誓愿,已成就广大福德。
Verse 44
सरय्वाश्चैव गंगायाः पापनाशविधायके । प्रेतनिर्यातनी पुण्या मानसेप्सितदायिनी ॥ ४४ ॥
同样,萨罗由河与恒河皆能灭除罪垢。它们清净吉祥,能使众生脱离饿鬼(preta)之境,并赐予心中所愿。
Verse 45
यस्यां गृहेऽपि भूपाल संस्मृतो मनुजैर्हरिः । सर्वतीर्थफलावाप्तिं कुरुते नात्र संशयः ॥ ४५ ॥
大王啊,无论哪一家,只要众人忆念诵持哈利(Hari),那家便得一切圣地(tīrtha)朝圣之果报——对此毫无疑惑。
Verse 46
दत्तं जप्तं हुतं यच्च कृतं देवार्चनादिकम् । सर्वं तदक्षयं भूप यत्कृतं विजयादिने ॥ ४६ ॥
大王啊,凡所布施、所持诵之japa、所投入圣火之供献,以及从礼敬诸天开始的一切善行——若在名为“胜利日”(Vijayā)之日所作,皆成不坏之功德,永不减损。
Verse 47
एवंविधं फलं यस्यास्तद्देहि सुकृतं मम । द्वादश्यामुपवासेन त्रयोदश्यां तु पारणे ॥ ४७ ॥
请赐予我能得如此果报的善业功德:于十二日(Dvādaśī)守斋禁食,并于十三日(Trayodaśī)依正法行破斋仪(pāraṇa)所得之功德。
Verse 48
द्वादशाब्दोपवासस्य फलं प्राप्तोत्युपोषणे । दयां कृत्वा महीपाल धर्ममूर्तिर्भवान् क्षितौ ॥ ४८ ॥
只要守持一次斋戒(upavāsa),便能获得相当于十二年苦行斋戒之功德。大王啊,你以慈悲为怀,便在世间成为法(Dharma)的化身。
Verse 49
वैवस्वतपथध्वंसी परित्राहि सुदुःखिताम् । गृहगोधावचः श्रुत्वा मोहिनी वाक्यमब्रवीत् ॥ ४९ ॥
“啊,能摧毁通往毗婆斯瓦塔(Vaivasvata,即阎摩)之路者,请救我这极度痛苦之人!”听到家壁虎的话,摩希尼(Mohinī)便说道如下。
Verse 50
स्वकृतं तु जनोऽश्नाति सुखदुःखात्मकं विभो । तस्मात्किमनया कार्यं पापया भर्तुदुष्टया ॥ ५० ॥
噢至上主宰,人必亲尝自作之业果,兼具乐与苦。既如此,这罪妇对夫心行败坏,又有何用?
Verse 51
यया भर्ता वशं नीतो रक्षाचूर्णादिभिर्नृप । साधुभ्यो यत्कृतं राजन्यशःस्वर्गकरं भवेत् ॥ ५१ ॥
噢国王,那以护身粉末等使丈夫受制之法;若将同样之事用来奉行于圣贤善人,噢君主,便成就美名,并导向天界。
Verse 52
उभयोर्भ्रं शतामेति पापेभ्यो यत्कृतं भवेत् । शर्करामिश्रितं क्षीरं काद्रवेये नियोजितम् ॥ ५२ ॥
二人之中无论谁所作之罪,皆得百倍减轻。此仪式中,应以掺糖之乳供奉/施用于迦陀罗韦耶(Kādraveya)。
Verse 53
विषवृद्धिं करोत्येव तद्वत्पापकृतं भवेत् । परित्यजेमां त्वं पापां गच्छावो नगराय वै ॥ ५३ ॥
正如毒物只会愈加增长,罪亦因罪行而愈发扩张。故当舍此罪途,让我们确实前往城中。
Verse 54
जन्मव्यापारसक्तानामात्मसौख्यं विनश्यति । रुक्मांगद उवाच । ब्रह्मात्मजे कथं वाक्यमीदृशं व्याहृतदं त्वया । न साधूनामिदं वृत्तं भवतीति वरानने ॥ ५४ ॥
凡沉溺于世务与有身之生计者,其内在安乐必将毁灭。鲁克芒伽陀说道:“噢梵天之女,你怎能说出这般话?噢容颜姝丽者,此等行径不合圣善之人。”
Verse 55
आत्मसौख्यकराः पापा भवंति परतापिनः । विप्रपन्ना वरारोहे परोपकरणाय वै ॥ ५५ ॥
凡只为自乐之罪,终将灼伤他人。噢腰胯娴美的女子,当亲近婆罗门,为了侍奉而确实利益众生。
Verse 56
शशी सूर्योऽथ पर्जन्यो मेदिनी हुतभुग्जलम् । चंदनं पादपाः संतः परोपकरणाय वै ॥ ५६ ॥
月、日、雨云、大地、火与水——以及檀香与树木——确实皆为利他而存;同样,圣贤之人亦为服务众生而活。
Verse 57
श्रूयते किल राजासीद्धरिश्चंद्रो वरानने । चांडालमंदिरावासी भार्यातनयविक्रयी ॥ ५७ ॥
传说中确有此闻:噢容颜姣好的女子,哈利施旃陀罗王曾寄居于旃陀罗之舍,甚至卖掉了自己的妻子与儿子。
Verse 58
असत्यवचनाद्भीतो दुःखाद्दुःखतरं गतः । तस्य सत्येन संतुष्टादेवाः शक्रपुरोगमाः ॥ ५८ ॥
因惧怕妄语之罪,他从一重苦难坠入更深的苦难;然而当他坚守真谛时,诸天——以释迦罗(因陀罗)为首——皆对他心生欢喜。
Verse 59
वरेण छंदयांचक्रुर्हरिश्चंद्रं महीपतिम् । तेन सत्यवता चोक्ता देवा ब्रह्मपुरोगमाः । यदि तुष्टा हि विबुधा वरं मे दातुमर्हथ ॥ ५९ ॥
以一项恩赐,哈利使大地之主旃陀罗王心满意足。随后,萨蒂亚瓦蒂对以梵天为首的诸天说道:“若诸位天众已然欢喜,理当赐我一愿。”
Verse 60
एषा हि नगरी सर्वा सद्रुमा ससरीसृपा । सबालवृद्धतरुणा सनारी सचतुष्पदा ॥ ६० ॥
确实,这整座城都充满了树木与爬行之类的生灵;其中有孩童、老者与青年;有妇女,也有四足走兽。
Verse 61
प्रयातु कृतपापापिस्वर्गतिं नगरी मम । अयोध्यापातकं गृह्य गंताहं नरकं ध्रुवम् ॥ ६१ ॥
“愿我的城即便曾造罪,也能走上通往天界之路;我愿独自承担阿约提亚之罪,必定堕入地狱。”
Verse 62
एकाकी नहि गच्छामि परित्यज्य जनं क्षितौ । स्वर्गं विबुधशार्दूलाः सत्यमेतन्मयेरितम् ॥ ६२ ॥
“诸天中的猛虎啊,我不愿独自升天而弃地上众民不顾;此乃我所宣说的真实。”
Verse 63
तस्य तां स्थिरतां ज्ञात्वा सह तेनैव सा पुरी । जगाम स्वर्गलोकं च इंद्रादीनामनुज्ञया ॥ ६३ ॥
众神知晓他坚贞不移的决心,那座城也与他一同,在因陀罗等诸天的许可下,前往天界。
Verse 64
सोऽपि स्वर्गे स्थितो राजा स्वपुरेण समन्वितः । कामगेन विमानेन पूज्यमानोऽमरैरपि ॥ ६४ ॥
那位国王也安住天界,具足自己的天城;乘坐随愿而行的天车(维摩那)往来,并且连诸天也敬奉于他。
Verse 65
अस्थिदानं कृतं देवि कृपया हि दधीचिना । देवानामुपकारार्थं श्रुत्वा दैत्यैः पराजितान् ॥ ६५ ॥
噢女神,达提奇因慈悲之心,竟以自身骨骸为供施;听闻诸天被达那婆所败,便为诸天之利益而如此行。
Verse 66
कपोतार्थं स्वमांसानि शिबिना भूभुजा पुरा । प्रदत्तानि वरारोहे श्येनाय क्षुधिताय वै ॥ ६६ ॥
往昔,噢腰肢婀娜的女士,世间之王尸毗为护一只鸽子,将自身肉块割下施与饥饿的鹰。
Verse 67
जीमूतवाहनो राजा पुरासीत्क्षितिमंडले । तेनापि जीवितं दत्तं पन्नगाय वरानने ॥ ६७ ॥
噢容颜姣好的女子,往昔大地上有一位名为吉穆塔瓦哈那的国王;他亦赐予生命,救护一条蛇族(那伽)。
Verse 68
तस्माद्दयालुना देवि भवितव्यं महीभुजा । शुचावमेध्येऽपि शुभे समं वर्षति वारिदः ॥ ६८ ॥
因此,噢女神,君王当怀慈悲;因为雨云倾注甘霖,平等洒落于清净与不净之处,也洒落于吉祥之地。
Verse 69
चांडालपतितौ चंद्रो ह्लादयेच्च निजैः करैः । तस्मादिमां वरारोहे गृह गोधां सुदुःखिताम् ॥ ६९ ॥
即便是明月,也会以自身光辉抚慰那堕落的旃陀罗。故而,噢腰肢婀娜的女士,请将这只极其悲苦的巨蜥迎入家中。
Verse 70
उद्धरिष्ये निजैः पुण्यैर्दौहित्रैर्नाहुषो यथा । विमोहिनीं तिरस्कृत्य गृहगोधामुवाच ह ॥ ७० ॥
“我将以自身的福德——以我清净的善业——来救度你,正如那胡沙王(Nāhuṣa)曾由其外孙们得以解脱。摒弃迷惑者毗摩希尼(Vimohinī)之后,他便对屋中壁虎说道。”
Verse 71
दत्तं दत्तं मया पुण्यं विजयासंभवं तव । गच्छ विष्णुगताँल्लोकान्विधूताशेषकल्मषा ॥ ७१ ॥
“我所赐予你的功德——一次又一次——皆由你的胜利而生。如今你当往赴由毗湿奴(Viṣṇu)所证得的诸世界,一切罪垢尽皆涤除。”
Verse 72
तद्वाक्यात्सहसा भूप दिव्याभरणभूषिता । विमुच्य देहं तज्जीर्णं गृहगोधासमुद्भवम् ॥ ७२ ॥
大王啊,闻此言语,她顿时佩戴天界庄严之饰;随即舍弃那衰朽之身——由屋中壁虎之身所生——而从其束缚中解脱。
Verse 73
जगामामंत्र्य तं भूपं द्योतयंती दिशो दश । सीमंतमिव कुर्वाणा वैष्णवं पदमुद्भुतम् ॥ ७३ ॥
她向那位国王辞别而去,光耀十方;宛如划出一道灿然的分缝之光——那是毗湿奴的奇妙“毗湿奴派(Vaiṣṇava)圣境/圣道”。
Verse 74
यद्योगिगम्यं हुतभुक्प्रकाशं वरं वरेण्यं परमात्मभूतम् । तम्मादियं चैव शिखिप्रदीपा जगत्प्रकाशाय नृपप्रसूता ॥ ७४ ॥
那至上实相——最胜、最可礼敬——为瑜伽行者所能证达,光明如祭火,且具“至我”(Paramātman)之性;那一位,确是她自己的儿子。她出自王族,遂成火焰之灯,以照耀世间。
Verse 75
इति श्रीबृहन्नारदीयपुराणोत्तरभागे गोधाविमुक्तिर्नाम चतुर्दशोऽध्यायः ॥ १४ ॥
至此,尊贵的《大那罗陀往世书》后分(Uttara-bhāga)中,名为“蜥蜴得解脱(Godhā-vimukti)”的第十四章圆满结束。
The chapter frames water-sprinkling (and wet-cloth binding) as a generally prescribed first remedy for blows and injuries, while also symbolically aligning physical cooling with moral ‘relief’—a narrative bridge from compassion in action to liberation through merit.
It treats such acts as adharma: subjugation through powders/amulets leads to amplified sin, severe illness outcomes, hellish punishment, and degraded rebirths—serving as a cautionary moral theology against misusing ritual power.
They are presented as high-yield vrata observances whose merit becomes ‘imperishable’; the lizard requests access to that accrued punya (especially Dvādaśī fasting with correct Trayodaśī pāraṇa) as the salvific means to wash residual sin and reach Viṣṇu’s worlds.
They establish a dharma-ethic for rulers: truth, self-sacrifice, and protection of the vulnerable are paradigms that justify compassionate intervention and the dedication of personal merit for another’s uplift.