
रुद्रसर्गः / मन्वन्तरप्रमाणवर्णनम् (Rudrasargaḥ / Manvantarapramāṇa-varṇanam)
The Great Flood
本章叙述“鲁陀罗创生”(Rudrasarga),即鲁陀罗之显现,并说明诸摩奴劫(Manvantara)的时间尺度与次第。又讲到自生摩奴(Svayambhuva Manu)、普利耶弗拉塔(Priyavrata)之系谱,以及世界分为七洲(七Dvipas)的结构与分布,文风庄严而具纲目之详。
Verse 1
इति श्रीमार्कण्डेयपुराणे रुद्रसर्गाभिधानो नाम द्विपञ्चाशोऽध्यायः । त्रिपञ्चाशोऽध्यायः— क्रौष्टुकिरुवाच— स्वायम्भुवं त्वयाख्यातमेतन्मन्वन्तरञ्च यत् । तदहं भगवन् सम्यक् श्रोतुमिच्छामि कथ्यताम् ॥
如是,在《圣·摩尔甘德耶往世书》中,名为“鲁陀罗之创生”(Rudra-sarga)的第五十二章至此终了。(今)第五十三章开始。克劳什图基(Krauṣṭuki)说道:“你已叙述自生者(Svāyambhuva)摩奴及其摩奴期(Manvantara)。我愿如实、圆满地聆听,噢吉祥者——请为我宣说。”
Verse 2
मन्वन्तरप्रमाणञ्च देवा देवर्षयस्तथा । ये च क्षितीशा भगवन् देवेन्द्रश्चैव यस्तथा ॥
并请你也宣说:一摩奴期(Manvantara)的量度(时长),其间诸天与天界圣仙,以及人间诸王,噢吉祥者;并同样说明那一时期的因陀罗(Indra)是谁。
Verse 3
मार्कण्डेय उवाच— मन्वन्तराणां संख्याता साधिका ह्येकसप्ततिः । मानुषेण प्रमाणेन शृणु मन्वन्तरं च मे ॥
摩尔甘德耶(Mārkaṇḍeya)说道:摩奴期(Manvantara)被计为七十一(且尚有更多)。请听我依人间算法宣说一摩奴期的量度。
Verse 4
त्रिंशत्कोट्यस्तु संख्याताः सहस्राणि च विंशतिः । सप्तषष्टिस्तथान्यानि नियुतानि च संख्यया ॥
其数被计为三十俱胝(crore),再加二万,又加六十七,并且还要按数加上若干“尼由多”(niyuta,万为单位)。 (此为所述摩奴期量度之一部分。)
Verse 5
मन्वन्तरप्रमाणञ्च इत्येतत् साधिकं विना । अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम् ॥
而此一摩奴劫(Manvantara)的度量——不计其“附加”(sādhika)部分——在天界的计数中被记为八十万。
Verse 6
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि च । स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ॥
并且另加五万二千。最初的是自生者摩奴(Svāyambhuva Manu);同样,其后为善光摩奴(Svārociṣa Manu)。
Verse 7
औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा । षडेते मनवोऽतीतास्तथा वैवस्वतोऽधुना ॥
其后为奥多摩(Auttama)、塔摩萨(Tāmasa)、赖瓦塔(Raivata)与恰克舒沙(Cākṣuṣa)。这六位摩奴已然过去;而今为毗婆斯瓦特(Vaivasvata)摩奴。
Verse 8
सावर्णिः पञ्च रौच्याश्च भौत्याश्चागामिनस्त्वमी । एतेषां विस्तरं भूयो मन्वन्तरपरिग्रहे ॥
萨伐尔尼(Sāvarṇi)、五位劳恰(Raucyas)以及婆乌提耶(Bhoutya)——这些是未来将至的摩奴。关于他们的详尽叙述,将在论述诸摩奴劫时于后文再行说明。
Verse 9
वक्ष्ये देवानृषींश्चैव यक्षेन्द्राः पितरश्च ये । उत्पत्तिं संग्रहं ब्रह्मन् श्रूयतामस्य सन्ततिः ॥
我将宣说诸天与诸仙(ṛṣi),以及夜叉之主,并及诸祖灵(Pitṛ)。又将述其起源与纲要/总摄——婆罗门啊,请聆听此事的次第传承。
Verse 10
यच्च तेषामभूत् क्षेत्रं तत्पुत्राणां महात्मनाम् । मनोः स्वायम्भुवस्यासन् दश पुत्रास्तु तत्समाः ॥
凡属那些大心之子所有的疆域(kṣetra),同样也有自生摩奴(Svāyambhuva Manu)的十位儿子,与他们身量与威仪相等。
Verse 11
यैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता । ससमुद्राकरवती प्रतिवर्षं निवेशिता ॥
由他们,这整个大地——由七大洲及其群山,并有海洋与矿藏——得以安置众生并加以分配,按一一varṣa(各区域)而定。
Verse 12
ससमुद्राकरवती प्रतिवर्षं त्रेतायुगे तथा । प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायम्भुवस्य च ॥
因此,在特雷塔纪(Tretāyuga)亦然:这具足海洋与矿藏的大地,由普利耶弗拉塔(Priyavrata)之子与自生摩奴(Svāyambhuva Manu)之孙,按各varṣa分区而加以整治。
Verse 13
प्रियव्रतात् प्रजावत्यां वीरात् कन्या व्यजायत । कन्या सा तु महाभागा कर्दमस्य प्रजापते ॥
由英勇的普利耶弗拉塔(Priyavrata)与普罗阇伐蒂(Prajāvatī)诞生一位女儿。那位具福德的女儿(与之相系)者,为生主迦尔达摩(Kardama Prajāpati)。
Verse 14
कन्ये द्वे दश पुत्रांश्च सम्राट्कुक्षी च ते उभे । तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश ॥
有两位女儿——萨姆拉特(Samrāṭ)与库克希(Kukṣi)——并且还有十位儿子。他们的兄弟为十位英雄,其威德宏大,堪与诸生主(Prajāpati)比肩。
Verse 15
आग्नीध्रो मेधातिथिश्च वपुष्मांश्च तथापरः । ज्योतिष्मान्द्युतिमान् भव्यः सवनः सप्त एव ते ॥
他们恰为七位:阿格尼陀罗(Āgnīdhra)、梅陀提提(Medhātithi)、瓦普什曼(Vapuṣmān)、焦提什曼(Jyotiṣmān)、丢提曼(Dyutimān)、婆维耶(Bhavya)与萨瓦那(Savana)。
Verse 16
प्रियव्रतोऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान् । द्वीपेषु तेन धर्मेण द्वीपांश्चैव निबोध मे ॥
普利耶弗罗多(Priyavrata)依彼法(dharma)为那七位行灌顶礼,立为统治七大洲的诸王。如今也当从我处了解诸洲的名称与分区。
Verse 17
जम्बुद्वीपे तथाग्नीध्रं राजानं कृतवान् पिता । प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥
在阎浮提(Jambūdvīpa),父王立阿格尼陀罗为王;又立梅陀提提为朴叉洲(Plakṣadvīpa)之主。
Verse 18
शाल्मलेस्तु वपुष्मन्तं ज्योतिष्मन्तं कुशाह्वये । क्रौञ्चद्वीपे द्युतिमन्तं भव्यं शाकाह्वयेश्वरम् ॥
在娑罗摩罗洲(Śālmaladvīpa)他立瓦普什曼;在名为俱舍洲(Kuśadvīpa)者立焦提什曼;在鸠兰遮洲(Krauñcadvīpa)立丢提曼;又立婆维耶为沙迦洲(Śākadvīpa)之主。
Verse 19
पुष्कराधिपतिं चापि सवनं कृतवान् सुतम् । महावीतो धातकीश्च पुष्कराधिपतेः सुतौ ॥
又立其子萨瓦那为普什迦罗洲(Puṣkaradvīpa)之统治者。那位普什迦罗之主有二子:摩诃毗多(Mahāvīta)与陀多吉(Dhātakī)。
Verse 20
द्विधा कृत्वा तयोर्वर्षं पुष्करे संन्यवेशयत् । भव्यस्य पुत्राः सप्तासन्नामतस्तान्निबोध मे ॥
他将那一方域(varṣa)分为两部分,并安置于普什迦罗(Puṣkara)。婆维耶(Bhavya)有七个儿子——请从我这里听取他们的名字。
Verse 21
जलदश्च कुमारश्च सुकुमारो मनीवकः । कुशोत्तरोऽथ मेधावी सप्तमस्तु महाद्रुमः ॥
他们是:阇罗陀(Jalada)、库摩罗(Kumāra)、苏库摩罗(Sukumāra)、摩尼婆迦(Manīvaka)、俱舍乌多罗(Kuśottara)、梅陀维(Medhāvī)——第七位是摩诃树(Mahādruma)。
Verse 22
तन्नामकानि वर्षाणि शाकद्वीपे चकार सः । तथा द्युतिमतः सप्त पुत्रास्तांश्च निबोध मे ॥
他使娑迦洲(Śākadvīpa)中的诸方域(varṣa)都以那些名字命名。同样,光明者(Dyutimat)也有七个儿子——他们的名字也请从我这里听取。
Verse 23
कुशलो मनुगश्चोष्णः प्राकरश्चार्थकारकः । मुनिश्च दुन्दुभिश्चैव सप्तमः परिकीर्तितः ॥
俱舍罗(Kuśala)、摩奴伽(Manuga)、乌施那(Oṣṇa)、钵罗迦罗(Prākara)、义作(Arthakāraka)、牟尼(Muni)与敦度毗(Dundubhi),被宣说为七子。
Verse 24
तेषां स्वनामधेयानि क्रौञ्चद्वीपे तथाभवन् । ज्योतिष्मतः कुशद्वीपे पुत्रनामाङ्कितानि वै ॥
在鸻洲(Krauñcadvīpa),诸区域各以其自身之名而称。又在俱舍洲(Kuśadvīpa),诸区域确由光辉者(Jyotiṣmat)诸子的名字所标定。
Verse 25
तत्रापि सप्त वर्षाणि तेषां नामानि मे शृणु । उद्भिदं वैष्णवञ्चैव सुरथं लम्बनं तथा ॥
彼处亦有七个“varṣa”(地域);请从我处听其名:Udbhida、Vaiṣṇava、Suratha与Lambana。
Verse 26
धृतिमत् प्राकरञ्चैव कापिलं चापि सप्तमम् । वपुष्मतः सुताः सप्त शाल्मलेशस्य चाभवन् ॥
Dhṛtimat、Prākara与Kāpila亦被称名,为第七。又Vapuṣmat——Śālmaladvīpa之主——亦有七子。
Verse 27
श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतो मानसश्चैव केतुमान् सप्तमस्तथा ॥
Śveta、Harita、Jīmūta、Rohita、Vaidyuta、Mānasa——以及同样作为第七者的Ketumān。
Verse 28
तथैव शाल्मले तेषां समनामानि सप्त वै । सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ॥
同样,在Śālmaladvīpa确有七个区域,名称与他们相同。又Plakṣadvīpa之主Medhātithi亦有七子。
Verse 29
येषां नामाङ्कितैर्वर्षैः प्लक्षद्वीपस्तु सप्तधा । पूर्वं शाकभवं वर्षं शिशिरन्तु सुखोदयम् ॥
由于诸varṣa以其名为标识,Plakṣadvīpa遂成七分。第一地域为Śākabhava;又有Śiśira,称为Sukhodaya。
Verse 30
आनन्दञ्च शिवञ्चैव क्षेमकञ्च ध्रुवन्तथा । प्लक्षद्वीपादिभूतेषु शाकद्वीपान्तिमेषु वै ॥
(他们被称为)阿难陀(Ānanda)、湿婆(Śiva)、克舍摩迦(Kṣemaka),以及同样的德鲁瓦(Dhruva)——这些名称见于诸国土,自普拉克沙洲(Plakṣadvīpa)起,延至最后的沙迦洲(Śākadvīpa)。
Verse 31
ज्ञेयः पञ्चसु धर्मश्च वर्णाश्रमविभागजः । नित्यः स्वाभाविकश्चैव अहिंसाविधिवर्धितः ॥
当知在那五个(区域)中,法(dharma)由种姓(varṇa)与住期(āśrama)的分立而生;其恒常而自然,并由阿希ṃ萨(ahiṃsā,不害)之戒律而得以增上。
Verse 32
पञ्चस्वेतेषु वर्षेषु सर्वसाधारणः स्मृतः । अग्नीध्राय पिता पूर्वं जम्बूद्वीपं ददौ द्विज ॥
在那五个伐尔沙(varṣa)中,人们忆念(法,dharma)为众人所共。往昔,他的父亲将阎浮提洲(Jambūdvīpa)赐与阿格尼陀罗(Āgnīdhra),噢,二次生者。
Verse 33
तस्य पुत्रा बभूवुर्हि प्रजापतिसमा नव । ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषो 'नुजः ॥
他确有九子,堪与诸生主(Prajāpati)比肩。长子以那毗(Nābhi)著称;其弟为金普鲁沙(Kimpuruṣa)。
Verse 34
हरिवर्षस्तृतीयस्तु चतुर्थो 'भूदिलावृतः । वश्यश्च पञ्चमः पुत्रो हिरण्यः षष्ठ उच्यते ॥
第三子为哈利伐尔沙(Harivarṣa);第四子为伊拉弗利陀(Ilāvṛta)。瓦舍耶(Vaśya)为第五子;第六子据说名为希兰尼亚(Hiraṇya)。
Verse 35
कुरुस्तु सप्तमस्तेषां भद्राश्वश्चाष्टमः स्मृतः । नवमः केतुमालश्च तन्नाम्ना वर्षसंस्थितिः ॥
在诸地域之中,俱卢为第七;跋陀罗湿婆被忆为第八。第九为计都摩罗,而该地域(varṣa)亦以此名而确立。
Verse 36
यानि किपुरुषाद्यानि वर्जयित्वा हिमाह्वयम् । तेषां स्वबावतः सिद्धिः सुखप्राया ह्यत्नतः ॥
除去自金普鲁沙等起始之诸域,以及名为希摩之域,在其余诸域中,成就自然而生;生命多为安乐,诸事不劳而得。
Verse 37
विपर्ययो न तेष्वस्ति जरा मृत्युभयं न च । धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥
在他们之中并无衰退;既无老迈,亦无对死亡之惧。于他们而言,无所谓法(dharma)与非法(adharma),亦无上、中、下之差别。
Verse 38
न वै चतुर्युगावस्था नार्तवा ऋतवो न च । आग्नीध्रसूनोर्नाभेस्तु ऋषभो 'भूत् सुतो द्विज ॥
在那里确无四劫(四瑜伽)之相,亦无按月之节候,亦无循常之四时。然而,阿格尼陀罗之子那毗得一子,名曰梨沙婆,噢二次生者。
Verse 39
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताद्वरः । सो 'भिषिच्यर्षभः पुत्रं महाप्रव्राज्यमास्थितः ॥
由梨沙婆而生勇士婆罗多——为其百子之中最为卓越者。梨沙婆为其子行灌顶立嗣之后,便入于大出离之行(mahā-pravrājya)。
Verse 40
तपस्तेपे महाभागः पुलहाश्रमसंश्रयः । हिमाह्विं दक्षिणं वर्षं भरताय पिता ददौ ॥
那位有福者依止于普罗诃(Pulaha)仙人的精舍,修行苦行。其父将名为“希摩诃婆”(Himāhva)的南方地域赐予婆罗多(Bharata)。
Verse 41
तस्मात् तु भारतं वर्षं तस्य नाम्ना महात्मनः । भतस्याप्यभूत् पुत्रः सुमतिर्नाम धार्मिकः ॥
因此,此地以那位大心者之名而称为“婆罗多洲”(Bhārata-varṣa)。他又有一子名为苏摩提(Sumati),为持法之正人。
Verse 42
तस्मिन् राज्यं समावेश्य भरतोऽपि वनं ययौ । एतेषां पुत्रपौत्रैस्तु सप्तद्वीपा वसुन्धरा ॥
将其安置于王位之后,婆罗多亦入林而居。由这些君王的子与孙,具七大洲之大地遂得以享用并统治。
Verse 43
प्रियव्रतस्य पुत्रैस्तु भुक्त्वा स्वायम्भुवेऽन्तरे । एष स्वायम्भुवः सर्गः कथितस्ते द्विजोत्तम ॥
如是,在自生者(Svāyambhuva)摩奴时期,大地由普利耶弗罗多(Priyavrata)之诸子统治。此自生者之创世记述,已为汝宣说,噢诸二生中之最胜者。
Verse 44
पूर्वमन्वन्तरे सम्यक् किमन्यत् कथयामि ते ॥
如今,关于更早的摩奴时期——我还应按次第向你叙述什么呢?
The chapter’s guiding inquiry concerns cosmic order: how time is measured across Manvantaras and how legitimate rule and dharmic administration manifest through Manu-lineages that structure the world into named regions and successions.
It formalizes Manvantara chronology by naming past, present, and future Manus and then details the Svāyambhuva Manvantara’s internal organization—linking temporal measurement to genealogical succession and the settlement of the seven dvīpas.
It establishes the Priyavrata–Āgnīdhra–Nābhi–Ṛṣabha–Bharata line and the seven-dvīpa framework with varṣas named after rulers’ sons. This provides the Purāṇic rationale for sacral geography (especially Bhārata-varṣa) and anchors later Manvantara accounts in a consistent genealogical-cosmographic map.