
मदालसोपाख्यानम् — अलर्कनामकरणं (Madālasopākhyānam — Alarkanāmakaraṇam)
Madalasa's Teaching II
本章中,圣母摩达罗萨为幼子举行命名仪式,赐名“阿拉尔迦(Alarka)”。见其心生厌离、欲遁世,她以正法开示,令其回归刹帝利之责:承担王者重任,护佑百姓,伸张公正,守持法度,使出世之志与治世之业相调和。
Verse 1
इति श्रीमार्कण्डेयपुराणे मदालसोपाख्याने पञ्चविंशोऽध्यायः । षड्विंशोऽध्यायः । जड उवाच वर्धमानं सुतं सा तु राजपत्नी दिने दिने । तमुल्लापादिना बोधमनयन्निर्ममात्मकम् ॥
至此,《圣·摩诃迦ṇḍeya往世书》中“玛达拉萨”篇第二十五章告终。第二十六章开始。惰者(Jaḍa)说道:日复一日,随着她的儿子渐渐长大,那位王后以摇篮曲等教诲引导他生起觉悟,使其性情不执取、不贪占有。
Verse 2
यथायथं बलं लेभे यथा लेभे मतिं पितुः । तथा तथात्मबोधञ्च सोऽवापन्मातृभाषितैः ॥
当他渐渐强健,并获得其父系家族所期许的理解力时,同样也因母亲的言教而证得自知之明(对自我的觉悟)。
Verse 3
इत्थं तया स तनयो जन्मप्रभृति बोधितः । चकार न मतिं प्राज्ञो गार्हस्थ्यं प्रति निर्ममः ॥
他自出生起便受她如此教导;那位贤慧之子——离于占有之心——并未将心志系于居家之道(家住期,gṛhastha)。
Verse 4
द्वितीयोऽस्याः सुतो जज्ञे तस्य नामाकरोत्पिता । सुबाहुरयमित्युक्ते सा जाहास मदालसा ॥
她又生下第二个儿子。父亲为他取名;当人们说“此子名为苏巴胡(Subāhu)”时,玛达拉萨便笑了起来。
Verse 5
तमप्येवं यथापूर्वं बालमुल्लापनादिना । प्राह बाल्यात् स च प्राप तथा बोधं माहामतिः ॥
对他亦复如前,她自幼以摇篮曲等方式开示;而他这位胸怀宏大者,也获得了同样的领悟。
Verse 6
तृतीयं तनयं जातं स राजा शत्रुमर्दनम् । यदाह तेन सा सुभ्रूर्जहासातिचिरं पुनः ॥
第三个儿子出生时,国王为他取名“Śatrumardana”(摧灭仇敌者)。他如此宣告之际,那位眉目秀美的王后又长久地笑了起来。
Verse 7
तथैव सोऽपि तन्वङ्ग्या बालत्वादवबोधितः । क्रियाश्चकार निष्कामो न किञ्चिदुपकारकम् ॥
同样,那孩子也——自幼受那位肢体纤秀的母亲教诲——行事无欲,不作任何为求利益或得失之举。
Verse 8
चतुर्थस्य सुतस्याथ चिकीर्षुर्नाम भूमिपः । ददर्श तां शुभाचारामीषद्धासां मदालसाम् । तामाह राजा हसतीं किञ्चित् कौतूहलान्वितः ॥
于是国王欲为第四个儿子命名,见品行端正的玛达拉萨微微含笑。国王略感好奇,便在她笑时向她发问。
Verse 9
राजोवाच क्रियमाणेऽसकृन्नाम्नि कथ्यतां हास्यकारणम् । विक्रान्तश्च सुबाहुश्च तथान्यः शत्रुमर्दनः ॥
国王说道:“你为何每逢赐名便屡屡发笑?请告诉我你发笑的缘由。(我已为他们取名)维克兰塔、苏婆呼,而另一个名为‘Śatrumardana’。”
Verse 10
शोभनानीति नामानि मया मन्ये कृतानि वै । योग्यानि क्षत्रबन्धूनां शौर्याटोपयुतानि च ॥
“我认为我所赐之名确实美善——配得上刹帝利的后裔,并具勇武之光辉。”
Verse 11
असन्त्येतानि चेद्भद्रे ! यदि ते मनसि स्थितम् । तदस्य क्रियतां नाम चतुर्थस्य सुतस्य मे ॥
噢,吉祥的夫人,若你心中认为这些名号不相称,那么请你亲自为此——我的第四子——制定一个名字。
Verse 12
मदालसोवाच मयाज्ञा भवतः कार्याः महाराज ! यथात्थ माम् । तथा नाम करिष्यामि चतुर्थस्य सुतस्य ते ॥
玛达拉萨说道:“噢,大王,你所吩咐之命,我当依你所言而奉行。因此,我将为你的第四子赐名。”
Verse 13
अलर्क इति धर्मज्ञः ख्यातिं लोके प्रयास्यति । कनीयानेष ते पुत्रो मतिमांश्च भविष्यति ॥
“(他将被称为)阿拉尔迦(Alarka)。他将通达达摩,并在世间获得声名。你这儿子最为年幼,却将具足聪慧。”
Verse 14
तच्छ्रुत्वा नाम पुत्रस्य कृतं मात्रा महीपतिः । अलर्क इत्यसंबद्धं प्रहस्येदमथाब्रवीत् ॥
国王听到母亲为儿子所赐之名,心想“阿拉尔迦”似乎突兀不相连,便笑了起来,随后说道如下。
Verse 15
राजोवाच भवत्या यदिदं नाम मत्पुत्रस्य कृतं शुभे । किमीदृशमसंबद्धमर्थः कोऽस्य मदालसे ॥
国王说道:“噢,吉祥者,你为我儿所取之名,为何如此不相称、显得突兀?噢,玛达拉萨,它的含义是什么?”
Verse 16
मदालसोवाच कल्पनेयं महाराज ! कृता सा व्यावहारिको / त्वत्कृतानां तथा नाम्नां शृणु भूप ! निरर्थताम्
玛达拉萨说道:“噢,大王,这不过是世间所 कल्प想出来的习俗约定而已。请听,噢统治者,你所赋予的那些名字本身其实毫无实义。”
Verse 17
वदन्ति पुरुषाः प्राज्ञा व्यापिनं पुरुषं यतः / क्रान्तिश्च गतिरुद्दिष्टा देशाद्देशान्तरं तु या
“智者称‘普鲁沙’(人格之我、真我)为‘遍在者’(vyāpī),因为所谓‘krānti’被说成是运动——从一处到另一处的迁移。”
Verse 18
सर्वगो न प्रयातीति व्यापी देहेश्वरो यतः / ततो विक्रान्तसंज्ञेयं मता मम निरर्थिका
“既然住于此身之内、遍在的主并不‘去’往任何地方,那么称其为‘维克兰塔’(行步者/移动者),在我看来便毫无意义。”
Verse 19
सुबाहुरिति या संज्ञा कृतान्यस्य सुतस्य ते / निरर्था साप्यमूर्तत्वात् पुरुषस्य महीपते
“你给另一位儿子取的名字‘苏巴胡’也同样无义,噢大王,因为普鲁沙(真我)本是无相无形。”
Verse 20
पुत्रस्य यद् कृतं नाम तृतीयस्यारिमर्दनः / मन्ये तदप्यसंबद्धं शृणु चाप्यत्र कारणम्
“你给第三个儿子所取的名字——‘阿里玛尔达那’——我也认为不相称。也请听我说明其中缘由。”
Verse 21
एक एव शरीरेषु सर्वेषु पुरुषो यदा / तदास्य राजन् ! कः शत्रुः को वा मित्रमिहेष्यते
“当同一位至上之人遍住于一切身中时,哦,国王啊,谁能成为他的敌人?此处又该寻谁为友?”
Verse 22
भूतैर्भूतानि मृद्यन्ते अमूर्तो मृद्यते कथम् / क्रोधादीनां पृथग्भावात् कल्पनेयं निरर्थिका
“众生为众生所摧压;无相者又怎会被摧压?既然嗔怒等作为可分离的不同状态而存在,此不过是妄想——并无真实义。”
Verse 23
यदि संव्यवहारार्थमसन्नाम प्रकल्प्यते / नाम्नि कस्मादलर्काख्ये नैरर्थ्यं भवतो मतम्
“若为世间往来而假立不实之名,那么对于‘阿拉尔迦(Alarka)’这一名称,你为何不认为它也是‘无义’呢?”
Verse 24
जड उवाच एवमुक्तस्तया साधु महीष्या स महीपतिः / तथे त्याह महाबुद्धिर्दयितां तथ्यवादिनीम्
阇荼(Jaḍa)说道:被那位高贵的王后如此开示后,大地之王——大智之君——对其爱妃、真实语者说道:“如是。”
Verse 25
तञ्चापि सा सुतं सुभ्रूर्यथा पूर्वसुतांस्तथा / प्रोवाच बोधजननं तामुवाच स पार्थिवः
而她,那位秀眉之人,也以启发智慧之言教诲那位儿子——如同教诲先前诸子一般;随后国王也对她说道(于是)。
Verse 26
करोषि किमिदं मूढे ! ममाभावाय सन्ततेः । दुष्टावबोधदानेन यथापूर्वं सुतेषु मे ॥
“愚人啊,你在做什么——竟要使我的族系断绝吗?你给出这等乖谬的教诲,正如先前对我的诸子所做的一样!”
Verse 27
यदि ते मत्प्रियं कार्यं यदि ग्राह्यं वचो मम । तदेनं तनयं मार्गे प्रवृत्तेः सन्नियोजय ॥
“若你愿行我所喜爱之事,若你愿受纳我之言——就当坚定地使此子安住于积极履行世间义务之道(pravṛtti)。”
Verse 28
कर्ममार्गः समुच्छेदं नैवं देवि ! गमिष्यति । पितृपिण्डनिवृत्तिश्च नैवं साध्वि ! भविष्यति ॥
“噢,女神(Devi)啊,如此并不能断绝所规定之行持之道。噢,贤德者啊,如此一来,向祖先奉献饭团(piṇḍa)的供养亦不可终止(不可停废)。”
Verse 29
पितरो देवलोकस्थास्तथा तिर्यक्त्वमागताः । तद्वन्मनुष्यतां याता भूतवर्गे च संस्थिताः ॥
“祖先或居于诸天之界;亦或已堕入畜生之趣;同样也可能得为人身,或安处于诸类众生(bhūtas)之中。”
Verse 30
सपुण्यानसपुण्यांश्च क्षुत्क्षामान् तृट्परिप्लुतान् । पिण्डोदकप्रदानेन नरः कर्मण्यवस्थितः ॥
“无论其有福德与否,无论为饥饿所耗或为干渴所苦——以饭团(piṇḍa)与清水施供,安住于法(dharma)之人便能资养扶持他们。”
Verse 31
सदाप्यायते सुभ्रु ! तद्वद्देवातिथोऽनपि । देवैर्मनुष्यैः पितृभिः प्रेतैर्भूतैः सगुह्यकैः ॥
噢,眉目秀美者,同样地,诸天与宾客也恒常得以滋养——由诸天、人类、祖灵(pitṛ)、亡灵(preta)、诸bhūta以及乃至隐秘的guhyaka所供养。
Verse 32
वयोभिः कृमिकीडैश्च नर एवोपजीव्यते । तस्मात् तन्वङ्गि ! पुत्रं यत्कार्यं क्षत्रयोनिभिः ॥
人自身也依赖飞鸟,乃至蠕虫与昆虫的扶持而生。故而,噢,肢体纤秀者,凡生于刹帝利者,当就子嗣之事行其所当行。
Verse 33
ऐहिकामुष्मिकफलं तत् सम्यक् प्रतिपादय ॥
当将此事如法确立——使其结出今世与来世两种果报。
Verse 34
जड उवाच तेनैवमुक्ता सा भर्त्रा वरनारी मदालसा । अलर्कं नाम तनयमुवाचोल्लापवादिनी ॥
阇荼(Jaḍa)说道:她既被丈夫如此告诫,那位卓越的女子摩达拉萨(Madālasā),善于柔和之辞,便对其名为阿拉尔迦(Alarka)的儿子开口。
Verse 35
पुत्र वर्धस्व मद्भर्तुर्मनो नन्दय कर्मभिः । मित्राणामुपकाराय दुर्हृदां नाशनाय च ॥
孩子啊,愿你成长而昌盛;以你的作为使父亲之心欢悦——既利益友人,也摧破怀敌意之仇寇。
Verse 36
धन्योऽसि रे यो वसुधामशत्रुरेकश्चिरं पालयितासि पुत्र । तत्पालनादस्तु सुखोपभोगो धर्मात्फलं प्राप्स्यसि चामरत्वम् ॥
你是有福的——在此国土上不怀怨敌之人。吾子,你将长久护持大地。由此护持,你当享受昌盛;由法(Dharma)你将得其果报,乃至在诸天之中得不死之位。
Verse 37
धरामरान् पर्वसु तर्पयेथाः समीहितं बन्धुषु पूरयेथाः । हितं परस्मै हृदि चिन्तयेथाः मनः परस्त्रीषु निवर्तयेथाः ॥
在诸般圣仪之时,当使诸神与祖灵得以满足;成就亲族正当的愿望;心中常怀利他之意;并当收摄其心,远离他人之妻。
Verse 38
यज्ञौरनेकैर्विबुधानजस्त्रमर्थैर्द्विजान् प्रीणय संश्रितांश्च । स्त्रियश्च कामैरतुलैश्चिराय युद्धैश्चारींस्तोṣयितासि वीर ॥
以众多祭祀,恒常令诸神欢喜;以财物,使两次生者(婆罗门)及依赖于你者得以满足。以无比之乐,久长安慰你的诸妻;以战斗,勇士啊,使你的敌人得其所当(即在正当的交战中与之相遇)。
Verse 39
बालो मनो नन्दय बान्धवानां गुरोस्तथाज्ञाकरनैः कुमारः । स्त्रीणां युवा सत्कुलभूषणानां वृद्धो वने वत्स ! वनॆचराणाम् ॥
为童子时,当悦亲族之心;为青年、为学子时,当遵师命。为壮年时,当为高贵家族之可敬装饰(亦为女子之相称伴侣);及至年老,吾子,当居于林野,与林栖之人同住。
Verse 40
राज्यं कुर्वन् सुहृदो नन्दयेथाः साधून् रक्षंस्तात ! यज्ञैर्यजेथाः । दुष्टान्निघ्रन् वैरिणश्चाजिमध्ये गोविप्रार्थे वत्स ! मृत्युं व्रजेथाः ॥
治理王国之时,当使友人欢悦;护持正法之士,爱子啊,当行祭祀。摧伏恶人,并于战阵之中直面仇敌——若为护牛与护婆罗门之故,孩子啊,纵至于死亦当往。
The chapter tests the tension between metaphysical insight and social duty: Madālasa argues that names like “Vikrānta” or “Śatrumardana” are ultimately empty when the Self is formless and one in all beings, while the king insists that kṣatriya action, lineage-continuity, and ritual obligations must still be upheld.
This Adhyāya does not develop a Manvantara sequence or Manu-lineage; it remains within the Madālasa domestic-royal exemplum, using a courtly setting to explore dharma, karma, and the limits of conventional designation.
It is outside the Devi Māhātmya section (Adhyāyas 81–93). Its relevance is ethical-philosophical rather than shaktic: it models how spiritual instruction can be recalibrated to varṇa-dharma—here, reshaping Madālasa’s teaching into a kṣatriya-oriented program for Alarka.