Adhyaya 11
SvarochishaManvantaraDivine Beings32 Shlokas

Adhyaya 11: The Son’s Discourse on Embryogenesis, Birth, and the Wheel of Saṃsāra

गर्भोत्पत्तिसंसारदुःखवर्णनम् (Garbhotpatti-Saṃsāra-Duḥkha-Varṇanam)

Svarochisha Manvantara

本章中,胎中之子开示胚胎如何生成、按月增长、在母胎中的诸苦,以及分娩时的剧痛。众生出生后往往忘却正法与本愿,又被业力牵引而轮转于生死之轮(轮回)。此段叙述引发厌离与觉醒,劝人忆念神圣、修行以出离苦海。

Divine Beings

Vaiṣṇavī Māyā (mohinī śakti)

Celestial Realms

Svarga (heavenly realm)Naraka (hell realms)Yama-loka / Yāmya domains (implied by yāmyaiḥ)

Key Content Points

Embryological sequence: conception (niṣeka) leading through kalala–budbuda–peśī stages and progressive differentiation of limbs and sensory organs.Fetal posture, nourishment, and growth: inverted residence in the womb, development within a membrane (koṣa), and sustenance via a nāḍī bound to the navel.Soteriological argument: remembrance of saṃsāra, attempted resolve to avoid rebirth, māyā-induced loss of knowledge at birth, and inevitable cycling through life stages.Comparative eschatology: duḥkha is portrayed as pervasive in naraka, svarga (fear of falling), and human life (birth, weakness, aging, death).Normative conclusion: the son urges striving for mokṣa, questioning reliance on the “trayī” (Vedic triad) as sufficient for liberation.

Focus Keywords

Markandeya Purana Adhyaya 11pitā putra saṃvāda Markandeya Puranagarbhotpatti kalala budbuda peśīsaṃsāra duḥkha svarga narakaVaiṣṇavī māyā jñānabhraṃśamokṣa teaching Markandeya Purana

Shlokas in Adhyaya 11

Verse 1

इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम दशमोऽध्यायः । एकादशोऽध्यायः । पुत्र उवाच निषेकं मानवः स्त्रीणां बीजं प्राप्तं रजस्यथ । विमुक्तमात्रो नरकात् स्वर्गाद्वापि प्रपद्यते ॥

至此,第十章《父子对话》告终;第十一章开始。儿子说道:当男子之精在女子经期之时入于其身,则众生——或方自地狱解脱,或甚至自天界而来——便进入此一境况。

Verse 2

तेनाभिभूतं तत्स्थैर्यं याति बीजद्वयं पितः । कललत्वं बुद्बुदत्वं ततः पेशित्वमेव च ॥

父亲啊,被此过程所制,二种种子便得以定形:先成“迦罗罗”(kalala,胶凝之团),继成“布陀布陀”(budbuda,如泡之形),而后确然成“佩尸”(peśī,肉团)。

Verse 3

पेष्यां यथाणुबीजं स्यादङ्कुरस्तद्वदुच्यते । अङ्गानां च तथोत्पत्तिः पञ्चानामनुभागशः ॥

如同“佩尸”中的微细种子化为芽苗——人们如是说;同样,诸肢体的生成亦随之而起,分为五类,逐部分而成。

Verse 4

उपाङ्गान्यङ्गुली-नेत्र-नासास्य-श्रवणानि च । प्ररोहं यान्ति चाङ्गेभ्यस्तद्वत्तेभ्यो नखादिकम् ॥

诸附属部分——手指、眼、鼻、口与耳——由诸肢体生出;同样,由彼等又生出指甲等其余诸物。

Verse 5

त्वचि रोमाणि जायन्ते केशाश्चैव ततः परम् । समं समृद्धिमायाति तेनैवोद्भवकोषकम् ॥

于皮肤之上,先生身毛,继而亦生头发。由同一过程,“生起之鞘”均衡增长,直至圆满成熟。

Verse 6

नारिकेलफलं यद्वत् सकोषं वृद्धिमृच्छति । तद्वत् प्रयात्यसौ वृद्धिं सकोषोऽधोमुखः स्थितः ॥

正如椰子果实在坚壳包裹之中仍得生长,如是胎中之有情亦在诸层覆裹之内渐次增长,并以头向下而安住。

Verse 7

तले तु जानुपार्श्वाभ्यां करौ न्यस्य स वर्धते । अङ्गुष्ठो चोपरि न्यस्तौ जान्वोरग्रे तथाङ्गुली ॥

其双手置于足底,靠近两膝之侧而渐长;拇指在上,其余诸指亦在膝之前方。

Verse 8

जानुपृष्ठे तथा नेत्रे जानुमध्ये च नासिका । स्फिचौ पार्ष्णिद्वयस्थे च बाहुजङ्घे बहिः स्थिते ॥

双眼(如同)在两膝之后,鼻在两膝之间;髋部在双跟之处,而臂与胫则向外伸展而卧。

Verse 9

एवं वृद्धिं क्रमाद्याति जन्तुः स्त्रीगर्भसंस्थितः । अन्यसत्त्वोदरे जन्तोर्यथा रूपं तथा स्थितिः ॥

如是,安住于女子胎中的众生渐次获得增长。若在他类众生之胎中,其所处之状况则随其形相而定(即依其身类而有其位)。

Verse 10

काठिन्यमग्निना याति भुक्तपीतेन जीवति । पुण्यापुण्याश्रयमयी स्थितिर्जन्तोस्तथोदरे ॥

它由身中之火(体热)而得坚实,并以所食所饮而维生。是故,在胎中众生之境况系于福德与罪业。

Verse 11

नाडी चाप्यायनी नाम नाभ्यां तस्य निबध्यते । स्त्रीणां तथान्त्रसुषिरे सा निबद्धोपजायते ॥

有一条名为“Āpyāyanī”的脉道系于脐部;在女子身中亦如是,于肠腔之内同样系连而生。

Verse 12

क्रामन्ति भुक्तपीतानि स्त्रीणां गर्भोदरे यथा । तैराप्यायितदेहोऽसौ जन्तुर्वृद्धिमुपैति वै ॥

女子所食所饮流入子宫;凭此滋养,胎中众生之身得以维持,并确然增长。

Verse 13

स्मृतीस्तस्य प्रयान्त्यस्य बह्व्यः संसारभूमयः । ततो निर्वेदमायाति पीड्यमान इतस्ततः ॥

当其前行之时,诸多忆念涌现——关于轮回(saṃsāra)根基之忆;继而四面受逼恼,遂生离欲之心。

Verse 14

पुनर्नैवं करिष्यामि मुक्तमात्र इहोदरात् । तथा तथा यतिष्यामि गर्भं नाप्स्याम्यहं यथा ॥

“一旦我从此胎中得解脱,我决不再如此行事。我将以如是如是之法精进,使我不再复入胎中。”

Verse 15

इति चिन्तयते स्मृत्वा जन्मदुःखशतानि वै । यानि पूर्वानुभूतानि दैवभूतानि यानि वै ॥

如是思惟时,他确然忆起数百种生之苦——先前所经历者,以及由命运/天命所引生者。

Verse 16

ततः कालक्रमाज्जन्तुः परिवर्तत्यधोमुखः । नवमे दशमे वापि मासि सज्जायते यतः ॥

随后,随着时日推移,有身之众生便头向下转;因为自第九月——或第十月——起,他已具足出生之准备。

Verse 17

निष्क्रम्यमाणो वातेन प्राजापत्येन पीड्यते । निष्क्राम्यते च विलपन् हृदि दुःखनिपीडितः ॥

当其出离(分娩之时),为“般若阇钵底风”(prājāpatya)所逼恼;遂啼哭而出,心为痛苦所压。

Verse 18

निष्क्रान्तश्चोदरान्मूर्च्छामसह्यां प्रतिपद्यते । प्राप्नोति चेतनां चासौ वायुस्पर्शसमन्वितः ॥

既从胎中出来,便陷入难以忍受的昏厥;随后因空气触及而复得知觉。

Verse 19

ततस्तं वैष्णवी माया समास्कन्दति मोहिनी । तया विमोहितात्मासौ ज्ञानभ्रंशमवाप्नुते ॥

尔时,迷惑之毗湿奴女神幻力(Vaiṣṇavī Māyā)制伏于他;其自我为彼所惑,遂从正知中堕落。

Verse 20

भ्रष्टज्ञानो बालभावं ततो जन्तुः प्रपद्यते । ततः कौमारकावस्थां यौवनं वृद्धतामपि ॥

既从知中堕落,众生便入于童年;继而历经少年的阶段,复至青年,亦终归老年。

Verse 21

पुनश्च मरणं तद्वज्जन्म चाप्नोति मानवः । ततः संसारचक्रे 'स्मिन् भ्राम्यते घटियन्रवत् ॥

死亡再次到来——同样地,人又获得出生;因此,在这轮回(saṃsāra)之轮中,他如同水车的机关一般往复漂转。

Verse 22

कदाचित् स्वर्गमाप्नोति कदाचिन्निरयं नरः । नरकं चैव स्वर्गं च कदाचिच्च मृतो 'श्नुते ॥

有时人得生天;有时又堕地狱。死后,他在不同的时段中,分别经历地狱与天界。

Verse 23

कदाचिदत्रैव पुनर्जातः स्वं कर्म सो 'श्नुते । कदाचिद्भुक्तकर्मा च मृतः स्वल्पेन गच्छति ॥

有时,他就在此处(人间)再生,承受自己行为的果报。有时,某些业已耗尽,他便在短暂间隔后死亡而离去。

Verse 24

कदाचिदल्पैश्च ततो जायते 'त्र शुभाशुभैः । स्वर्लोके नरके चैव भुक्तप्रायो द्विजोत्तम ॥

而有时,此后他因善业与恶业仅余少分而生于此处——其大部分果报已在天界与地狱中受尽,噢,最胜的二次生者。

Verse 25

नरकेषु महद्दुःखमेतद् यत् स्वर्गवासिनः । दृश्यन्ते तात मोदन्ते पात्यमानाश्च नारकाः ॥

这便是诸地狱中的大苦:噢,亲爱者,眼见天界众生欢喜享乐——而地狱之众却被抛掷下坠。

Verse 26

स्वर्गेऽपि दुःखमतुलं यदारोहणकालतः । प्रभृत्यहं पतिष्यामीत्येतन्मनसि वर्तते ॥

即使在天界也有无比的忧苦;因为自登临之时起,心中便常存此念:“从那里我还将再度堕落。”

Verse 27

नारकांश्चैव संप्रेक्ष्य महद्दुःखमवाप्यते । एतां गतिमहं गन्तेत्यहर्निशमनिर्वृतः ॥

而当见到地狱中的众生时,便被巨大的痛苦所攫住,昼夜无间地思惟不息:“如此命运,我亦可能前往。”

Verse 28

गर्भवासे महद्दुःखं जायमानस्य योनितः । जातस्य बलाभावे च वृद्धत्वे दुःखमेव च ॥

居于母胎有大苦;从胎中出生亦苦;新生婴儿在无助之中亦苦;而老年之苦亦确然存在。

Verse 29

कामेर्ष्याक्रोधसम्बन्धं यौवने चातिदुःसहम् । दुःखप्राया वृद्धता च मरणे दुःखमुत्तमम् ॥

在青春之时,与欲望、嫉妒与嗔怒相伴,极难忍受;老年亦多为忧苦——而临终之际,痛苦最为深重。

Verse 30

कृष्यमाणस्य याम्यैश्च नरकेषु च पात्यतः । पुनश्च गर्भो जन्माथ मरणं नरकस्तथा ॥

被阎摩之使者拖拽,投入诸地狱之后,(众生)复入母胎,继而出生,继而死亡——而后又再入地狱。

Verse 31

एवं संसारचक्रेऽस्मिन् जन्तवो घटियन्त्रवत् । भ्राम्यन्ते प्राकृतैर्बन्धैर्बद्ध्वा बाध्यन्ति चासकृत् ॥

因此,在这轮回之轮中,众生如汲水器的机括般旋转不息;为自然(物质)的系缚所缠,屡屡受制。

Verse 32

नास्ति तात! सुखं किञ्चिदत्र दुःखशताकुले । तस्मान्मोक्षाय यतता कथं सेव्याऽ मया त्रयी ॥

父亲啊,此处毫无安乐,在充满百般忧苦之地。故我既求解脱,怎能只去追逐那吠陀三部之学?

Frequently Asked Questions

It interrogates why embodied existence is intrinsically duḥkha-laden and argues that repeated birth is sustained by ignorance (jñānabhraṃśa) and māyā, thereby positioning mokṣa as the rational telos beyond ritual or worldly aspiration.

It does not develop a Manvantara chronology; instead, it supplies a general anthropological and eschatological framework—embryogenesis, karmic cycling, and post-mortem destinations—that can underwrite later Purāṇic histories without naming a specific Manu or lineage here.

This Adhyāya is outside the Devi Māhātmya (Adhyāyas 81–93) and contains no śākta battle narrative or stuti; its closest theological marker is the reference to Vaiṣṇavī māyā as the delusive power causing post-birth forgetfulness, used to explain continued saṃsāra.