Adhyaya 2
Uttara BhagaAdhyaya 255 Verses

Adhyaya 2

Īśvara-gītā (Adhyāya 2) — Ātma-svarūpa, Māyā, and the Unity of Sāṅkhya–Yoga

在《伊湿伐罗歌》中继续开示时,主更深地宣说连诸天也难以领会的秘奥自知之学。祂界定阿特曼为孤一、自立、微细而常住——超越昏暗(tamas)的内在见证者——并否定将自我认作五大、诸根、心意、普拉那(prāṇa)与“我为作者”的执取。束缚根源于无明与叠加(superimposition),由此生起我执、业、福罪与受身。经由经典譬喻(光与暗;虚空不为烟所染;水晶随所依而似染色),经文说明无垢之我如何因摩耶(māyā)而似被诸依止(upādhi)所限。解脱被呈现为由闻、思、观与不间断的瑜伽安住而生的直接证悟:见一切众生在自性中,自性在一切众生中,终至三摩地、独存(kaivalya)与心愿枯竭。主确认数论(Sāṅkhya)与瑜伽归于一味——瑜伽是一境专注,知识为其果——并警诫执著神通(siddhi)的瑜伽行者。章末强调证悟瑜伽者得与主合一(sāyujya)且不再退转,并限定此教仅传于具格的子嗣、弟子或瑜伽者,为后续关于主之摩耶与解脱究竟的守护启示作铺垫。

All Adhyayas

Shlokas

Verse 1

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) प्रथमो ऽध्यायः ईश्वर उवाच अवाच्यमेतद् विज्ञानमात्मगुह्यं सनातनम् / यन्न देवा विजानन्ति यतन्तो ऽपि द्विजातयः

如是《圣龟摩往世书》六千颂本集、后分之中——于《伊湿伐罗歌》中——第一章开启。主宰曰:“此智不可言说,乃真我之永恒密义;诸天亦不能如实了知,二次生者纵然勤求,亦难尽解。”

Verse 2

इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः / न संसारं प्रपद्यन्ते पूर्वे ऽपि ब्रह्मवादिनः

依此智慧而住,最胜的二次生者得安立于梵;即便往昔宣说梵的圣贤,也不再堕入轮回流转之有。

Verse 3

गुह्याद् गुह्यतमं साक्षाद् गोपनीयं प्रयत्नतः / वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम्

如今我将向你们——通达梵(Brahman)之理者与具信爱(bhakti)者——宣说此教:比秘密更为幽秘、直证的真理,须以殷勤之力谨慎守护。

Verse 4

आत्मायः केवलः स्वस्थः शान्तः सूक्ष्मः सनातनः / अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः

自我(Ātman)独一无二(不二),自立自安,寂静、微妙而常住。祂作为直接的见证者,内住于一切众生之中——唯是纯粹觉知——超越无明之暗(tamas)。

Verse 5

सो ऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः / स कालो ऽग्निस्तदव्यक्तं स एवेदमिति श्रुतिः

祂是内在的主宰(Antaryāmin);祂是普鲁沙(Puruṣa);祂是普拉那(Prāṇa,生命气息);祂是大自在天(Maheśvara)。祂是时间(Kāla);祂是火(Agni);祂亦是未显(Avyakta)——诚然,《圣启》(Śruti)宣说:“唯祂即是一切此。”

Verse 6

अस्माद् विजायते विश्वमत्रैव प्रविलीयते / स मायी मायया बद्धः करोति विविधास्तनूः

由祂而生此一切宇宙,亦唯归于祂而融没。那位主宰——掌御幻力(māyā)者——虽似被自身的幻力所系缚,却示现种种形体。

Verse 7

न चाप्ययं संसरति न च संसारयेत् प्रभुः / नायं पृथ्वी न सलिलं न तेजः पवनो नभः

此至上主既不在轮回(saṃsāra)中流转,也不令他者流转。祂非地,非水,非火,非风,亦非虚空(以太)。

Verse 8

न प्राणे न मनो ऽव्यक्तं न शब्दः स्पर्श एव च / न रूपरसगन्धाश्च नाहं कर्ता न वागपि

我非普拉那(生命之息),非意(manas),亦非未显(avyakta)。我非声,非触;亦非色、味、香。我非作者(kartā),亦非言语(vāc)。

Verse 9

न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः / न कर्ता न च भोक्ता वा न च प्रकृतिपूरुषौ / न माया नैव च प्राश्चैतन्यं परमार्थतः

噢,最胜二生者,于至上真谛中,至高者非手非足,非肛门,亦非生殖之器;非行者,非受用者;亦非普拉克里蒂与普鲁沙之二元。彼非摩耶,亦非受限之原初识——此即绝对义之真实。

Verse 10

यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते / तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोः

正如光明与黑暗之间不能成立真实的关联,如是,显现世界(prapañca)与至上我(Paramātman)之间所说的“合一”亦非关系;因为关系唯属现相之域。

Verse 11

छायातपौ यथा लोके परस्परविलक्षणौ / तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः

如世间阴影与日光彼此殊异,如是,于至上真谛中,显现之宇宙(prapañca)与觉知之我(puruṣa)本自分离而不同。

Verse 12

यद्यात्मा मलिनो ऽस्वस्थो विकारी स्यात् स्वभावतः / नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि

若我(内在之我,ātman)本性污浊、不安而多变,则此人之解脱(mokṣa)终不生起——纵历百世轮回亦然。

Verse 13

पश्यन्ति मुनयो युक्ताः स्वात्मानं परमार्थतः / विकारहीनं निर्दुः खमानन्दात्मानमव्ययम्

持戒修瑜伽的牟尼圣者,于至上真实中观见自我——无变异、离忧苦、以安乐为体,且不坏不灭。

Verse 14

अहं कर्ता सुखी दुः खी कृशः स्थूलेति या मतिः / सा चाहङ्कारकर्तृत्वादात्मन्यारोप्यते जनैः

“我是作者;我乐或苦;我瘦或胖”的观念,源于我慢与作意之执;众生因这种我执之作,便将其强加于真我之上。

Verse 15

वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् / भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम्

通达吠陀者宣说(真我)为见证者,超越自然(Prakṛti)之上——为受用者,不坏不灭,清净无染,平等遍在一切处。

Verse 16

तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् / अज्ञानादन्यथा ज्ञानं तच्च प्रकृतिसंगतम्

因此,一切具身众生的轮回(saṃsāra)确以无明为根。由无明生起一种颠倒之“知”,而此误解与自然(Prakṛti)相系相缚。

Verse 17

नित्योदितः स्वयं ज्योतिः सर्वगः पुरुषः परः / अहङ्काराविवेकेन कर्ताहमिति मन्यते

至上之人(Purusha)恒常显现,自明自照,遍满一切;然而因我慢所生的不辨之迷,人便妄想:“我是作者。”

Verse 18

पश्यन्ति ऋषयो ऽव्यक्तं नित्यं सदसदात्मकम् / प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः

诸圣仙观见“不显”(Avyakta)——恒常不变,兼具有与无之性。了知其为主质(Pradhāna)、为自然本原(Prakṛti),阐释梵(Brahman)者宣说:它是万象显现之因地。

Verse 19

तेनायं संगतो ह्यात्मा कूटस्थो ऽपि निरञ्जनः / स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः

由于无明与其覆加,此我似乎与身心相连;然而它实为不变的见证者,清净无垢。于是人不能如实觉悟:自我本是不可坏的梵(Brahman)。

Verse 20

अनात्मन्यात्मविज्ञानं तस्माद् दुः खं तथेतरम् / रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः

将非我执为我,因此生起痛苦,以及一切与解脱相违之事。贪著、嗔恚等诸过失,皆以迷妄为其系缚之因。

Verse 21

कर्मण्यस्य भवेद् दोषः पुण्यापुण्यमिति स्थितिः / तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः

对这具身者而言,于行为之中生起所谓福德与罪业之相。并在此业力的支配下,一切众生的一切身相皆得以发生。

Verse 22

नित्यः सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः / एकः स भिद्यते शक्त्या मायया न स्वभावतः

我(Ātman)恒常遍一切处,安住不变(kūṭastha),离诸过失。虽唯是一者,却因神力——因幻力(Māyā)——而似乎分裂,并非其自性本然。

Verse 23

तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः / भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया

因此,诸牟尼圣者于究竟义中宣说:真实唯是一味不二(不二论)。一切差别之觉受,起于诸相之显现性;而此差别依止于摩耶(Māyā),即依自我(Ātman)而起之力。

Verse 24

यथा हि धूमसंपर्कान्नाकाशो मलिनो भवेत् / अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते

譬如虚空虽与烟相接,实不为烟所染;如是,真我(Ātman)亦不为内器(心意智)所生诸态与情所污。

Verse 25

यथा स्वप्रभया भाति केवलः स्फटिको ऽमलः / उपाधिहीनो विमलस्तथैवात्मा प्रकाशते

如同无瑕清净的水晶(sphaṭika),独自以自光而辉;真我亦复如是:离诸依止(upādhi),无垢清净,显现为纯然光明。

Verse 26

ज्ञानस्वूपमेवाहुर्जगदेतद् विचक्षणाः / अर्थस्वरूपमेवाज्ञाः पश्यन्त्यन्ये कुदृष्टयः

明辨者宣说:此世界本具觉知之性(jñāna)。而无明之人、邪见之辈,却只把它看作物质对象之相(artha)。

Verse 27

कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः / दृश्यते ह्यर्थरूपेण पुरुषैर्भ्रान्तिदृष्टिभिः

真我为库塔斯塔(kūṭastha)不变,超越诸古那,遍一切处,本性即纯觉知;然而对见惑之人,它却似乎呈现为诸物之形。

Verse 28

यथा संलक्ष्यते रक्तः केवलः स्फटिको जनैः / रक्तिकाद्युपधानेन तद्वत् परमपूरुषः

正如一块全然澄澈的水晶,置于红色染料等底座之上时,人们便见其似红;同样,至上之人(Paramapuruṣa)也仿佛因诸种限制性的附属条件(upādhi)而显现为具相、被“染色”。

Verse 29

तस्मादात्माक्षरः शुद्धो नित्यः सर्वगतो ऽव्ययः / उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः

因此,求解脱者当礼敬观修此自我——不坏之体(akṣara)、清净、常住、遍一切处而不衰变;应当供奉而观想,应当思惟而省察,并应当聆听关于祂的圣教。

Verse 30

यदा मनसि चैतन्यं भाति सर्वत्रगं सदा / योगिनो ऽव्यवधानेन तदा संपद्यते स्वयम्

当纯净的觉知(caitanya)在心中恒常照耀,遍一切处而不离时;对那无间安住的瑜伽行者,证悟便自然而然成就。

Verse 31

यदा सर्वाणि बूतानि स्वात्मन्येवाभिपश्यति / सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा

当人真实地观见一切众生皆在自我之中,又观见自我亦遍在一切众生之内;就在那一刻,他便证得梵(Brahman)。

Verse 32

यदा सर्वाणि भूतानि समाधिस्थो न पश्यति / एकीभूतः परेणासौ तदा भवति केवलः

当他安住于三摩地时,不再将一切众生见为彼此分离;既与至上合一,于是便安住为“独一者”——在解脱的独存(kaivalya)中自在。

Verse 33

यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि स्थिताः / तदासावमृतीभूतः क्षेमं गच्छति पण्डितः

当一切安住于心中的欲望都彻底解脱时,那位智者便超越生死,成就不死,证得kṣema——在至上自在主(Īśvara)中的安稳寂静。

Verse 34

यदा भूतपृथग्भावमेकस्थमनुपश्यति / तत एव च विस्तारं ब्रह्म संपद्यते तदा

当人真实地观见众生似乎各别的差异皆安住于“一”之中时,正由此洞见,便证得梵(Brahman)——既为万有之源,亦为万有广大展开的真实。

Verse 35

यदा पश्यति चात्मानं केवलं परमार्थतः / मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः

当人以究竟义观见唯有自我(Ātman)为至上真实,并见整个宇宙不过是幻力(māyā),那时便彻底寂静安息,住于解脱的清凉寂然。

Verse 36

यदा जन्मजरादुः खव्याधीनामेकभेषजम् / केवलं ब्रह्मविज्ञानं जायते ऽसौ तदा शिवः

当纯净的梵智(Brahma-jñāna)——医治生、老、病诸苦的唯一良药——在其内心生起之时,此人便真实成为“湿婆”(Śiva):吉祥而解脱者。

Verse 37

यथा नदीनदा लोके सागरेणैकतां ययुः / तद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत्

正如世间江河溪流归入大海而成一味,同样,这具身之我应当归一于不坏之我(Akṣara-Ātman)——无分无裂、无有差别。

Verse 38

तस्माद् विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः / अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति

因此,唯有真实的觉知(vijñāna)存在;实相中并无纷繁的世相显现(prapañca),亦无轮回流转(saṃsāra)。然而世间为无明所覆,遂对那本然觉知而起迷惑。

Verse 39

तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् / अज्ञानमितरत् सर्वं विज्ञानमिति मे मतम्

彼真知者,清净无垢,微妙幽深,离诸分别概念(nirvikalpa),且不坏不灭。除此之外的一切皆为无明;此即我对证悟之辨知(vijñāna)的定见。

Verse 40

एतद् वः परमं सांख्यं भाषितं ज्ञानमुत्तमम् / सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता

如是,我已向汝等宣说至上的数论(Sāṅkhya)——此最胜之智。诚然,它乃一切吠檀多之精髓;而于此教中,瑜伽即是一心专注(ekacittatā)。

Verse 41

योगात् संजायते ज्ञानं ज्ञानाद् योगः प्रवर्तते / योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित्

由瑜伽而生真知,由真知而瑜伽得以坚立。凡兼修瑜伽与智慧者,处处无有不可得之事。

Verse 42

यदेव योगिनो यान्ति सांख्यैस्तदधिगम्यते / एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित्

瑜伽行者所至之境,亦为数论(Sāṃkhya)修行者所证得。能见数论与瑜伽本为一者,即是真知实相者(tattvavit)。

Verse 43

अन्ये च योगिनो विप्रा ऐश्वर्यासक्तचेतसः / मज्जन्ति तत्र तत्रैव न त्वात्मैषामिति श्रुतिः

又有其他瑜伽行者,噢婆罗门圣贤,他们的心执著于神通与主宰之乐,便一次又一次沉溺于那些成就之中;然而《闻传》(Śruti)宣示:“那并非他们的真我(Ātman)。”

Verse 44

यत्तत् सर्वगतं दिव्यमैश्वर्यमचलं महत् / ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात्

那遍一切处的神圣主权,广大、至上而不动;恒常安住于智瑜伽(Jñāna-yoga)者,于身终之际(命终时)得以证得。

Verse 45

एष आत्माहमव्यक्तो मायावी परमेश्वरः / कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः

我即是那真我——未显现者、执持幻力(māyā)者、至上主(Parameśvara)——在一切吠陀中被称颂为万有之我,面向诸方,遍满一切。

Verse 46

सर्वकामः सर्वरसः सर्वगन्धो ऽजरो ऽमरः / सर्वतः पाणिपादो ऽहमन्तर्यामी सनातनः

我成就一切欲愿,是诸味之精髓,是万香之中之香;我不朽不死。手足遍在,我是永恒的内在主宰(Antaryāmin),安住于一切众生之中。

Verse 47

अपाणिपादो जवनो ग्रहीता हृदि संस्थितः / अचक्षुरपि पश्यामि तथाकर्णः शृणोम्यहम्

虽无手足,彼却迅疾而能摄取,安住于心中;虽无眼,我亦能见;虽无耳,我亦能闻。

Verse 48

वेदाहं सर्वमेवेदं न मां जानाति कश्चन / प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः

我知此一切——确乎尽皆;然而无人真正知我。见真如的圣贤宣说:唯我是一切中的大丈夫(摩诃补卢沙,Mahā-puruṣa)。

Verse 49

पश्यन्ति ऋषयो हेतुमात्मनः सूक्ष्मदर्शिनः / निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम्

具微妙慧眼的圣仙见到自性的根因:即那超越诸性(guṇa)、无垢之实相所具的至上主权。

Verse 50

यन्न देवा विजानन्ति मोहिता मम मायया / वक्ष्ये समाहिता यूयं शृणुध्वं ब्रह्मवादिनः

连诸天也因我之幻力(māyā)而迷惑、不能了知的,我今将宣说。汝等当摄心安住,专注聆听;听吧,诸位宣说梵(Brahman)者。

Verse 51

नाहं प्रशास्ता सर्वस्य मायातीतः स्वभावतः / प्रेरयामि तथापीदं कारणं सूरयो विदुः

以我自性,我超越幻力(Māyā);我并非统御万有的支配者。然我仍令此过程运转——此即智者所知的因之法则。

Verse 52

यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः / प्रविष्टा मम सायुज्यं लभन्ते योगिनो ऽव्ययम्

见真理的瑜伽行者,入于我最深秘、遍一切处之形相,便得不坏的萨尤吉亚(sāyujya)——与我圆满合一。

Verse 53

तेषां हि वशमापन्ना माया मे विश्वरूपिणी / लभन्ते परमां शुद्धिं निर्वाणं ते मया सह

对他们而言,我那遍现万相、具宇宙之形的摩耶将受其调御;他们得至至上清净与涅槃,与我同住同安。

Verse 54

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि / प्रसादान्मम योगीन्द्रा एतद् वेदानुशासनम्

对他们而言,再无回返轮回之事,即使历经数百俱胝劫亦然。噢诸瑜伽中之最胜者,凭我的恩赐——此乃吠陀之训令。

Verse 55

नापुत्रशिष्ययोगिभ्यो दातव्यं ब्रह्मवादिभिः / मदुक्तमेतद् विज्ञानं सांख्ययोगसमाश्रयम्

宣说梵者,不应将此智授予非子、非弟子、亦非具德瑜伽行者之人。此乃我所宣示之明知,依止数论与瑜伽而立。

← Adhyaya 1Adhyaya 3

Frequently Asked Questions

Saṃsāra is rooted in ignorance: egoic confusion produces the sense of doership, which generates karma (merit and demerit) and thereby the succession of bodies; the Self itself remains the immutable Witness, only appearing associated through māyā and superimposition.

They are presented as one in truth: Yoga is one-pointedness of mind that stabilizes realization, while Sāṅkhya is discriminative knowledge of Reality; knowledge arises from Yoga, and Yoga becomes firm through knowledge.

It asserts non-dual Reality in the highest sense (paramārtha) while explaining perceived difference as belonging to manifestation and māyā; the Self remains stainless and undivided, though it appears diversified through adjuncts.

Because it is described as ‘more secret than the secret’ (guhyāt guhyatara), requiring adhikāra—ethical and yogic qualification—so it is to be given only to a son, a disciple, or a qualified yogin capable of guarding and realizing it.