
मन्वन्तरानुक्रमवर्णनम् (Enumeration of Manvantara Cycles) — with focus on Svārociṣa Manvantara
本章以问答传承展开:商沙波耶那依次(anukramāt)请问余下诸摩奴劫(Manvantara),并求说明各劫之主摩奴、相应的因陀罗(Śakra)及诸天的统摄。苏多答以系统总览,兼述过去与未来的摩奴劫,明确区分已逝与将至,并指出可用略说(samāsa)或广说(vistara)两种体例宣讲。继而列举诸摩奴,先点出前一组,并示意将叙述未来八位摩奴。言及自生摩奴劫(Svāyambhuva)已述之后,转入斯瓦罗奇沙摩奴劫(Svārociṣa):说明第二摩奴时期的众生生成与安立(prajā-sarga),并标明该期活动的天众(deva-gaṇa),尤以兜率(Tuṣita)诸天为要。经文以目录式罗列诸“群”(gaṇa)与具名天神,作为权威名册,用以将神职与特定摩奴劫相互对应。总体而言,本章以清晰的列举建立时间治理(摩奴)与天众编制(诸天/群)的对照框架,供后续宇宙论与谱系叙述反复援引。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुष्गपादे वेदव्यसनाख्यानं स्वायंभुवमन्वन्तरवर्णनं च नाम पञ्चत्रिंशत्तमो ऽध्यायः शांशपायन उवाच मन्वन्तराणि शेषाणि श्रोतुमिच्छाम्यनुक्रमात् / मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान्
如是,在《圣梵卵大摩诃往世书》——由风神(Vāyu)宣说——前分第二段(阿努什图布体)中,为第三十五章,名为“吠陀遭厄之叙与自生摩奴劫之描述”。商沙派耶那曰:我愿依次聆听其余诸摩奴劫,并愿知诸摩奴劫之主,及以释迦(因陀罗)等天神为首者。
Verse 2
सूत उवाच मन्वन्तराणि यानि स्युरतीतानागतानि ह / समासा द्विस्तराच्चैव ब्रुवतो मे निबोधत
苏多曰:凡已过去与将来之诸摩奴劫,我将以略说与详说两种方式宣讲;汝等当谛听我言。
Verse 3
स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा / उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा
最初是自生者摩奴(Svayambhuva Manu),继而是光辉摩奴(Svarocisa Manu);其后有优胜摩奴(Uttama)、昏暗摩奴(Tamasa)、瑞瓦塔摩奴(Raivata)与恰克舒沙摩奴(Caksusa)。
Verse 4
षडेते मनवो ऽतीता वक्ष्याम्यष्टावनागतान् / सावर्णिश्चैव रौच्यश्च भौत्यो वैवस्वतस्तथा
这六位摩奴已成过去;我将宣说未来将至的八位摩奴——萨瓦尔尼(Savarni)、劳恰(Raucya)、鲍提亚(Bhautya)以及毗婆斯瓦特(Vaivasvata)等。
Verse 5
वक्ष्याम्येतान्पुरस्तात्तु मनोर्वेवस्वतस्य च / मनवः पञ्च ये ऽतीता मानसांस्तान्निबोधत
我将先宣说毗婆斯瓦特摩奴之前的诸摩奴;那已逝去的五位摩奴,当以心领受而明了。
Verse 6
मन्वन्तरं मया वो ऽध्य क्रान्तं स्वायंभुवस्य ह / अत ऊर्ध्वं प्रवक्ष्यामि मनाः स्वारोचिषस्य ह
今日我已为你们讲述自生者摩奴的摩奴劫(Manvantara);从此往后,我将宣说光辉摩奴的摩奴劫。
Verse 7
प्रजासर्गं समासेन द्वितीयस्य महात्मनः / आसन्वै तुषिता देवा मनोः स्वारोचिषे ऽन्तरे
此为第二位大圣摩奴时代众生创造之概要;在光辉摩奴(Svarocisa)的摩奴劫中,居有名为“兜率”(Tusita)的诸天。
Verse 8
पारावताश्च विद्वांसो द्वावेव तु गणौ स्मृतौ / तुषितायां समुत्पन्नाः क्रतोः पुत्राः स्वरोचिषः
“Parāvata”与“智者”——唯此二众被经典所记。彼等生于兜率天(Tuṣitā),为圣仙克罗图(Kratu)之子,名为Svarociṣa。
Verse 9
पारावताश्च वासिष्ठा द्वादश द्वौ गणौ स्मृतौ / छन्दजाश्च चतुर्विंशद्देवास्ते वै तदा स्मृताः
Parāvata与Vāsiṣṭha——被记为两众,各十二位。又有名为“Chandaja”的二十四位天神,当时亦被称述。
Verse 10
दिवस्पर्शो ऽथ जामित्रो गोपदो भासुरस्तथा / अजश्च भगवाश्चैव द्रविणश्य महा बलः
其名为:Divasparśa、Jāmitra、Gopada、Bhāsura;以及Aja、Bhagavān与大力者Draviṇaśya。
Verse 11
आयश्चापि महाबाहुर्महौजाश्चापि वीर्यवान् / चिकित्वान्विश्रुतो यस्तु चांशो यश्चैव पठ्यते
Āya亦为大臂者;Mahaujā亦为勇力具足者;又有闻名的Cikitvān,以及诵读中所称的Cāṃśa。
Verse 12
ऋतश्चद्वादशस्तेषां तुषिताः परिकीर्त्तिताः / इत्येते क्रतुपुत्रास्तु तदासन्सोमपायिनः
其中名为“Ṛta”的十二位,被称颂为兜率众(Tuṣita)。如此,这些克罗图之子在当时皆为饮苏摩者。
Verse 13
प्रचेताश्चैव यो देवो विश्वदेवस्तथैव च / समञ्जो विश्रुतो यस्तु ह्यजिह्मश्चारिमर्द्दनः
普罗切塔亦是那位天神,亦称“毗湿瓦天”;萨曼迦声名远播,正直无曲,能摧伏诸敌。
Verse 14
आयुर्दानो महामानो दिव्यमानस्तथैव च / अजेयश्च महाभागो यवीयांश्च महाबलः
阿尤尔达那、摩诃摩那、天辉显耀者;阿阇耶不可战胜,摩诃婆伽福德具足,虽年少而大力无比。
Verse 15
होता यज्वा तथा ह्येते परिक्रान्ताः परावताः / इत्येता देवता ह्यासन्मनोः स्वारोचिषान्तरे
霍塔与耶阇瓦等,皆远行遍历四方;在斯瓦罗奇沙摩奴时代,这些便是当时的诸天神祇。
Verse 16
सोमपास्तु तदा ह्येताश्चतुर्विशति देवताः / तेषामिन्द्रस्तदा ह्यासीद्विपश्चिल्लोकविश्रुतः
当时这二十四位天神皆为饮苏摩者;其中那时的因陀罗名为“毗婆室”,闻名于世。
Verse 17
ऊर्जा वसिष्ठपुत्रश्च स्तंबः काश्यप एव च / भार्गवश्च तधा प्राम ऋषभोंऽङ्गिरसस्तथा
乌尔迦、婆悉吒之子、斯坦婆、迦叶;又有婆尔伽瓦、普罗摩与利沙婆——亦属安吉罗萨一系。
Verse 18
पौलस्त्यश्चैव दत्तो ऽत्रिरात्रेयो निश्चलस्तथा / पौलहो ऽथार्वरीवांश्च एते सप्तर्षयस्तथा
保罗拉斯提亚、达塔、阿特里夜、尼施遮罗;又有保罗诃与阿闼婆利婆——此等即为七圣仙(七仙)。
Verse 19
चैत्रः किंपुरुष श्चैव कृतान्तो विभृतो रविः / बृहदुक्थो नवः सेतुः श्रुतश्चेति नव स्मृताः
柴特罗、金普鲁沙、克利坦塔、毗布利多、罗毗、布里哈杜克塔、那婆、塞都与施鲁塔——此九者如传承所记。
Verse 20
मनोः स्वारोचिषस्यैते पुत्रा वंशकराः प्रभो / पुराणे परिसंख्याता द्वितीयं वै तदन्तरम्
主啊,此等乃斯瓦罗奇沙·摩奴之子,能开创族系;在《普罗那》中已详加列数——此即第二摩奴劫(Manvantara)。
Verse 21
सप्तर्षयो मनुर्देवाः पितरश्च चतुष्टयम् / मूलं मन्वन्तरस्यैते तेषां चैवान्वयाः प्रजाः
七圣仙、摩奴、诸天与四类祖灵(Pitṛ)——此等为一劫(Manvantara)之根本;众生皆由其系谱而生。
Verse 22
ऋषीणां देवताः पुत्राः पितरो देवसूनवः / ऋषयो देवपुत्राश्च इति शास्त्रे विनिश्चयः
经论所定:诸天为圣仙之子;祖灵为诸天之子;而圣仙亦称为天子(神之子)。
Verse 23
मनोः क्षत्रं विशश्चैव सप्तर्षिभ्यो द्विजा तयः / एतन्मन्वन्तरं प्रोक्तं समासाच्च न विस्तरात्
刹帝利与吠舍出自摩奴,二次生者(婆罗门等)出自七圣仙。此一摩奴劫已略说之,未作广陈。
Verse 24
स्वायंभुवे न विस्तारो ज्ञेयः स्वारोचिषस्य च / न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि
斯瓦扬布瓦与斯瓦罗奇沙两大摩奴劫之广大,实难尽知;其详尽铺陈,即使历经百年亦难道尽。
Verse 25
पुनरुक्तबहुत्वात्तु प्रजानां वै कुलेकुले / तृतीये त्वथ पर्याये उत्तमस्यान्तरे मनोः
由于众生在各族各姓中反复叙述已多,今于第三次次第,转说优多摩摩奴之世间。
Verse 26
पञ्च देवगणा प्रोक्तास्तान्वक्ष्यामि निबोधत / सुधामानश्च ये देवा ये चान्ये वशवर्त्तिनः
已说有五类天众;我将为汝宣说,当谛听:名为“苏达摩那”的诸天,以及其他随顺主宰之天众。
Verse 27
प्रतर्दनाः शिवाः सत्यागणा द्वादशकाः स्मृताः / सत्यो धृतिर्दमो दान्तः क्षमः क्षामो ध्वनिः शुचिः
普拉塔尔达那、湿婆与“真实众”(萨提亚伽那)被忆为十二位:萨提亚、德里提、达摩、达安塔、克沙玛、克沙摩、德瓦尼与舒奇。
Verse 28
इषोर्ज्जश्च तथा श्रेष्ठः सुपर्णो द्वादशस्तथा / इत्येते द्वादश प्रोक्ताः सुधामानस्तु नामभिः
伊索尔佳、至胜者、金翅鸟,以及第十二位;如是这十二位以“苏达曼”之名而宣说。
Verse 29
सहस्रधारो विश्वायुः समितारो वृहद्वसुः / विश्वधा विश्वकर्मा च मानसस्तु विराजसः
千流者、遍风者、调和者、广大财者;又有遍持者、宇宙工匠,以及出自毗罗阇的摩那斯。
Verse 30
ज्योतिश्चैव विभासश्च कीर्त्तिता वंशवर्तिनः / अवध्यो ऽवरतिर्देवो वसुर्धिष्ण्यो विभावसुः
光辉者与照耀者,被称为承续家系者;又有不可伤者、止息之天、富藏者、圣座者与炽焰者。
Verse 31
वित्तः क्रतुः सुधर्मा च धृतधर्मा यशस्विजः / रथोर्मिः केतुमाञ्छ्चैव कीर्त्तितास्तु प्रतर्दनाः
财丰者、祭行者、善法者、持法者与名誉生者;又有车浪者与旗幢者——皆在普罗达那一系中被称颂。
Verse 32
हंसस्वारौ वदान्यौ च प्रतर्दनयशस्करौ / सुदानो वसुदानश्च सुमञ्जसविषावुभौ
天鹅妙音者与慷慨者,能增益普罗达那之声名;又有善施者与财施者;以及苏曼加萨与毗沙瓦二者。
Verse 33
यमो वह्निर् यतिश्चैव सुचित्रः सुतपास्तथा / शिवा ह्येते तु विज्ञेया यज्ञिया द्वादशापराः
阎摩、火神(阿耆尼)、苦行者耶提、苏吉特罗与苏塔帕——当知此等皆具湿婆之性;他们是祭祀(耶祭)所奉的另十二尊神。
Verse 34
सत्यानामपि नामानि निबोधत यथातथम् / दिक्पतिर्वाक्पतिश्चैव विश्वः शंभुस्तथैव च
亦当如实知晓诸“萨提亚”之名:方主(Dikpati)、言主(Vākpati)、毗湿瓦(Viśva)以及商布(Śambhu)。
Verse 35
स्वमृडीको दिविश्चैव वर्चोधामा बृहद्वपुः / अश्वश्चैव सदश्वश्च क्षेमानन्दौ तथैव च
斯瓦姆里迪迦(Svamṛḍīka)、迪维(Divi)、瓦尔乔达摩(Varcodhāmā)、广体(Bṛhadvapu)、阿湿瓦(Aśva)、常马(Sadaśva),以及克谢摩(Kṣema)与阿难陀(Ānanda)。
Verse 36
सत्या ह्येते परिक्रान्ता यज्ञिया द्वादशापराः / इत्येता देवता ह्यासन्नौत्तमस्यान्तरे मनोः
此等确为名为“萨提亚”的祭祀诸神之另十二尊;如是,这些神祇存在于乌塔摩·摩奴的摩奴劫之中。
Verse 37
तेषामिन्द्रस्तु देवानां सुशान्तिर्नाम विश्रुतः / पुत्रास्त्तवङ्गिरसस्ते वै उत्तमस्य प्रजापतेः
在这些神中,他们的天帝(因陀罗)以“苏善提”(Suśānti)之名著称;而他们乃安吉拉斯(Aṅgiras)族系之子,乌塔摩·般若波提(Prajāpati)的后裔。
Verse 38
वशिष्ठपुत्राः सप्तासन्वाशिष्ठा इति विश्रुताः / सप्तर्षयस्तु ते सर्व उत्तमस्यान्तरे मनोः
婆悉吒(Vasiṣṭha)有七子,世称“婆悉吒族(Vāśiṣṭha)”。他们皆为七圣仙(Saptarṣi),住于优多摩·摩奴(Uttama Manu)之摩奴劫(Manvantara)中。
Verse 39
आचश्च परशुश्चैव दिव्यो दिव्यौषधिर्नयः / देवाम्वुजश्चाप्रतिमौ महोत्साहो गजस्तथा
阿遮(Āca)、斧(Paraśu)、天妙(Divya)、天药(Divyauṣadhi)、正道(Naya)、天莲(Devāmbuja)、无比(Apratima)、大勇(Mahotsāha)以及象(Gaja)——皆为其名。
Verse 40
विनीतश्च सुकेतुश्च सुमित्रः सुमतिः श्रुतिः / उत्तमस्य मनोः पुत्रास्त्रयोदश महात्मनः
毗尼多(Vinīta)、苏计都(Suketu)、苏密多罗(Sumitra)、苏摩底(Sumati)、施鲁底(Śruti)——这些大士皆为优多摩·摩奴的十三子。
Verse 41
एते क्षत्रप्रणेतारस्तृतीयं चैतदन्तरम् / औत्तमः परिसंख्यातः सर्गः स्वारोचिषेण तु
此诸人乃刹帝利之制度奠立者;此为第三摩奴劫(Manvantara)。依斯瓦罗奇沙·摩奴(Svārociṣa Manu)之计,此创生称为“奥多摩创世(Auttama-sarga)”。
Verse 42
विस्तरेणानुपूर्व्या च तामसस्य निबोधत / चतुर्थे त्वथ पर्याये तामसस्यातरे मनोः
今当依次详明谛听有关昏暗相(Tāmasa)之摩奴。至第四轮次,即为昏暗相·摩奴之摩奴劫(Manvantara)。
Verse 43
सत्याः सुरूपाः सुधियो हरयश्च गणाः स्मृताः / पुलस्त्यपुत्रास्ते देवास्तामसस्यान्तरे मनोः
“真实者、端严者、善慧者与哈利”被忆为诸天众(gaṇa)。这些天神乃普罗娑底耶之子,属于塔摩萨·摩奴的中间时期。
Verse 44
गणस्तु तेषां देवानामेकैकः पञ्चविंशकः / इन्द्रियाणां प्रतीयेत ऋषयः प्रतिजानते
那些天神的每一众(gaṇa)各为二十五位。诸根(indriya)即由他们而被领会——诸仙如是宣说。
Verse 45
सप्रमाणास्तु शीर्षण्यं मनश्चैवाष्टमं तथा / इन्द्रियाणि तथा देवा मनोस्तस्यान्तरे स्मृताः
七种量(pramāṇa)与至上之首(śīrṣaṇya),第八为意(manas)。同样,诸根与诸天也被记为属于那位摩奴的中间时期。
Verse 46
तेषां बभूव देवानां शिबिरिन्द्रः प्रतापवान् / सप्तर्षयोंऽतरे ये च तान्निबोधत सत्तमाः
在那些天神之中,威德炽盛的希毗利因陀罗为首。至于那中间时期的七仙(Saptarṣi),诸贤当悉心听知。
Verse 47
काव्य आङ्गिरसश्चैव काश्यपः पृथुरेव च / अत्रेयस्त्वग्निरित्येव ज्योतिर्धामा च भार्गवः
迦毗耶、安吉罗娑、迦叶与普利图;又有阿特雷耶、阿耆尼、光明之居(Jyotirdhāmā)与婆尔伽瓦——此等即为七仙。
Verse 48
पौलहश्चरकश्चात्र वाशिष्ठः पीवरस्तथा / चैत्रस्तथैव पौलस्त्य ऋषयस्तामसेंऽतरे
在塔摩萨(Tāmāsa)摩奴时期,此处所记的圣仙有:保罗哈、恰拉迦、瓦希什塔、毗瓦罗、柴特罗与保罗斯提耶。
Verse 49
जानुजङ्घस्तथा शान्तिर्नरः ख्यातिः शुभस्तथा / प्रियभृत्यो परीक्षिच्च प्रस्थलो ऽथ दृढेषुधिः
又有阇奴旃伽、寂静(Śānti)、那罗、名闻(Khyāti)、吉祥(Śubha);以及亲侍(Priyabhṛtya)、帕利克希、普拉斯塔拉与坚箭智者(Dṛḍheṣudhi)。
Verse 50
कृशाश्वः कृतबन्धुश्च तामसस्य मनोः सुताः / पञ्चमेत्वथ पर्याये मनोः स्वारोचिषेंऽतरे
克里沙阿湿瓦与克里塔班度,是塔摩萨摩奴之子;而在斯瓦罗奇沙摩奴时期的次第中,此为第五段。
Verse 51
गुणास्तु ये समाख्याता देवानां तान्निबोधत / अमिताभा भूतरयो वैकुण्ठाः ससुमेधसः
当知诸天所宣说的德性之名:阿弥陀光(Amitābha)、部多罗耶(Bhūtaraya)、毗昆陀(Vaikuṇṭha)与萨苏梅达萨(Sasumedhasa)。
Verse 52
वरिष्ठाश्च शुभाः पुत्रा वसिष्ठस्य प्रजापतेः / चतुर्दश तु चत्वारो गणास्तेषां सुभास्वराः
生主(Prajāpati)瓦希什塔之子皆为最胜吉祥;其众分为四部,每部十四位,音声清妙而光耀。
Verse 53
उग्रः प्रज्ञो ऽग्निभावश्च प्रज्योतिश्चामृतस्तथा / सुमतिर्वा विरावश्च धामा नादः श्रवास्तथा
乌格罗、智者、具火性者、光辉之光与甘露者;又有善意者、洪响者、光宅者、圣音者与闻名者。
Verse 54
वृत्तिराशी च वादश्च शबरश्च चतुर्दश / अमिताभाः स्मृता ह्येते देवाः स्वारोचिषेंऽतरे
“行持、星宿、圣言与沙婆罗”等共十四位;在斯瓦罗奇沙摩奴时期,这些天神被称为“无量光”。
Verse 55
मतिश्च सुमतिश्चैव ऋतसत्यौ तथैधनः / अधृतिर्विधृतिश्चैव दमो नियम एव च
又有意慧与善慧,正法与真实,以及艾达那;并有不动与善持,克制与戒律。
Verse 56
व्रतो विष्णुः सहश्चैव द्युतिमान्सुश्रवास्तथा / इत्येतानीह नामानि आभूतयसां विदुः
誓行、毗湿奴、同力、光辉者与善闻者——这些便是此处所知“阿布塔耶”诸天之名。
Verse 57
वृषो भेत्ता जयो भीमः शुचिर्दान्तो यशो दमः / नाथो विद्वानजेयश्च कृशो गौरो ध्रुवस्तथा
又有公牛者、破敌者、胜利者、威猛者、清净者、调伏者、名誉者、克制者;并有主宰者、智者、不败者、清瘦者、皎白者与恒定者。
Verse 58
कीर्त्तितास्तु विकुण्ठा वै सुमेधांस्तु निबोधत / मेधा मेधा तिथिश्चैव सत्यमेधास्तथैव च
诸位毗昆塔已被称颂;诸位善慧者当知:梅达、梅达、提提,以及真慧(萨提亚梅达)。
Verse 59
पृश्निमेधाल्पमेधाश्च भूयोमेधाश्च यः प्रभुः / दीप्तिमेधा यशोमेधा स्थिरमेधास्तथैव च
又有主名为:普里什尼梅达、少慧(阿尔帕梅达)、多慧(布尤梅达);并有光慧(迪普提梅达)、名慧(亚绍梅达)、定慧(斯提拉梅达)。
Verse 60
सर्वमेधा सुमेधाश्च प्रतिमेधाश्च यः स्मृतः / मेधजा मेधहन्ता च कीर्त्तितास्ते सुमेधसः
又有被忆念为:全慧(萨尔瓦梅达)、善慧(苏梅达)、对慧(普拉提梅达);并称慧生(梅达迦)与慧灭(梅达汉塔)——这些善慧者已被颂扬。
Verse 61
विभुरिन्द्रस्तथा तेषामासीद्वि क्रान्तपौरुषः / पौलस्त्यो दवबाहुश्च सुधामा नाम काश्यपः
他们之中有威能的因陀罗,勇力超卓;又有保罗拉斯提亚、达瓦巴胡,以及名为苏达玛的迦叶。
Verse 62
हिरण्यरोमाङ्गिरसो वेदश्रीश्चैव भार्गवः / ऊर्ध्वबाहुश्च वाशिष्ठः पर्जन्यः पौलहस्तथा
还有安吉罗萨系的金毛(希兰亚罗玛),婆尔伽瓦族的吠陀吉祥(韦达施里);瓦西什塔系的举臂者(乌尔德瓦巴胡),以及帕尔贾尼亚与保罗哈。
Verse 63
सत्यनेत्रस्तथात्रेय ऋषयो रैवतेंऽतरे / महावीर्यः सुसंभाव्यः सत्यको हरहा शुचिः
在罗伊伐多(Raivata)摩奴期中,圣名有:萨提亚内特拉、阿特雷耶仙人,以及大勇力者摩诃毗利耶、苏桑婆毗耶、萨提亚迦、诃罗诃与清净者舒支。
Verse 64
बलबन्धुर्निरामित्रः कंबुः शृगो धृतव्रतः / रैवतस्य च पुत्रास्ते पञ्चमं वै तदन्तरम्
巴拉班度、尼罗蜜特罗、甘布、室哩伽与持誓者陀哩多弗罗多,皆为罗伊伐多之子;此期确为第五摩奴期。
Verse 65
स्वारोचिषश्चोत्तमो ऽपि तामसो रैवतस्तथा / प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः
斯瓦罗奇沙、乌त्त摩、塔摩萨与罗伊伐多——此四位摩奴被忆念为普利耶弗罗多一系的传承。
Verse 66
षष्ठे खल्वपि पर्याये देवा ये चाक्षुषेंऽतरे / आद्याः प्रसूता भाव्यश्च पृथुकाश्च दिवौकसः
在第六次轮转、即恰克舒沙(Cākṣuṣa)摩奴期中,诸天神众为:阿底耶、普罗苏多、婆维耶与普哩图迦;他们皆称为天居者(divaukasa)。
Verse 67
महानुभावा लेखास्छ पञ्च देवगणाः स्मृताः / दिवौकसः सर्व एव प्रोच्यन्ते मातृनामभिः
“大威德者”(Mahānubhāva)与“勒迦”(Lekhā)等,被忆念为五类天神众;这些天居者皆以诸母神(Mātṛ)之名而称。
Verse 68
अत्रेः पुत्रस्य नप्तारो ह्यारण्यस्य प्रजापतेः / गणस्तु तेषां देवानामेकैको ह्यष्टकः स्मृतः
他们是圣者阿特里之子的孙辈,出自阿兰尼耶·生主(Prajāpati)的后裔;在那诸天之众中,每一位都被记为一尊“阿什塔迦”(Aṣṭaka)。
Verse 69
अन्तरिक्षो वसुर्हव्यो ह्यतिथिश्च प्रियव्रतः / श्रोता मन्तानुमन्ता च त्वाद्या ह्येते प्रकीर्त्तिताः
安达利克沙(Antarikṣa)、瓦苏(Vasu)、哈维亚(Havya)、阿提提(Atithi)与普利耶弗拉塔(Priyavrata);又有“聆听者”Śrotā、“思惟者”Mantā与“允可者”Anumantā——这些被称颂为最初的诸神。
Verse 70
श्येनभद्रस्तथा चैव श्वेतचक्षुर्महायशाः / सुमनाश्च प्रचेताश्च वनेनः सुप्रचेत्सौ
又有:施耶那跋陀罗(Śyenabhadra)、大名鼎鼎的“白眼者”室韦塔恰克舒(Śvetacakṣu)、苏摩那(Sumanā)、普拉切塔斯(Pracetas)、瓦涅那(Vanena)与苏普拉切塔斯(Supracetas)——他们也在此众之中。
Verse 71
मुनिश्चैव महासत्त्वः प्रसूताः परिकीर्त्तिताः / विजयः सुजयश्चैव मनस्योदौ तथैव च
“牟尼”(Muni)与“大勇德者”(Mahāsattva)被称为已出生的神祇;同样还有胜利者Vijaya、善胜者Sujaya,以及Manasyu与Uda。
Verse 72
मतिः परिमतिश्चैव विचेताः प्रियनिश्चयः / भव्या ह्येते स्मृता देवाः पृथुकांश्च निबोधत
摩提(Mati)、帕利摩提(Parimati)、维切塔(Vicetā)与“善决意者”普利耶尼施恰耶(Priyaniścaya)——这些天神被忆念为“吉祥庄严”;并且也当知晓“普利图迦昂沙”(Pṛthukāṃśa)。
Verse 73
ओजिष्ठः शकुनो देवो वानत्दृष्टस्तथैव च / सत्कृतः सत्यदृष्टिश्च जिगीषुर्विजयस्तथा
奥吉什塔、沙库那、天神德瓦与瓦那特德里什塔;又有受敬者、真见者、求胜者与胜利者——皆为诸天之名。
Verse 74
अजितश्च महाभागः पृथुकास्ते दिवौकसः / लेशास्तथा प्रवक्ष्यामि नामतस्तान्निबोधत
阿吉塔亦为大福德者;他们是名为“普利图迦”的天居者。今我将略说其部分名号——汝等当谛听领受。
Verse 75
मनोजवः प्रघासश्च प्रचेताश्च महायशाः / ध्रुवो ध्रुवक्षितिश्चैव अत्युतश्चैव वीर्यवान्
摩诺阇瓦、普拉迦萨与大名声的普罗切塔;又有德鲁瓦、德鲁瓦克希提,以及勇力具足的阿提尤塔。
Verse 76
युवना बृहस्पतिश्चैव लेखाः संपरिकीर्त्तिताः / मनोजवो महावीर्यस्तेषामिन्द्रस्तदाभवत्
尤瓦那与布里哈斯帕提——这些“勒卡”之名亦被传颂;其间大勇力的摩诺阇瓦,于彼时成为因陀罗。
Verse 77
उत्तमो भार्गवश्चैव हविष्मानङ्गिरःसुतः / सुधामा काश्यपश्चैव वशिष्ठो विरजास्तथा
乌塔摩、婆尔伽瓦,以及安吉罗之子哈维什曼;又有苏达摩、迦叶、婆悉吒与维拉阇——皆为圣贤之名。
Verse 78
अतिनामा च पौलस्त्यः सहिष्णुः पौलहस्तथा / मधुरात्रेय इत्येते सप्त वै चाक्षुषेंऽतरे
阿提那摩、保罗拉斯提亚、萨希什努,以及保罗哈与玛杜拉特雷耶——此等即为恰克舒萨劫中的七位圣仙(ṛṣi)。
Verse 79
ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कृतिः / अग्निष्टुदतिरात्रश्च सुद्युम्नशचेति ते नव
乌鲁、普鲁、沙塔迪尤姆纳、苦行者塔帕斯维、真实言行者萨提亚瓦克克里提、阿格尼什图特、阿提拉特拉与苏迪尤姆纳——此等共为九位。
Verse 80
अभिमन्युश्च दशमो नाड्वलेया मनोः सुताः / चाक्षुषस्य सुताः ह्येते षष्ठं चैव तदन्तरम्
第十位为阿毗曼纽;他们是那德瓦雷耶·摩奴之子。此等皆为恰克舒萨之子;而此即第六个摩奴劫(Manvantara)。
Verse 81
वैवस्वतेन संख्यातस्तत्सर्गः सांप्रतेन तु / विस्तरेणानुपूर्व्या च चाक्षुषस्यान्तरे मनोः
彼等之创生曾由毗婆斯瓦塔(摩奴)略作计述;而今之叙述者将依次详陈恰克舒萨·摩奴之摩奴劫。
Verse 82
ऋषय ऊचुः चाक्षुषः कस्य दायादः संभूतः सक्य वान्वये / तस्यान्ववाये ये ऽप्यन्येतान्नो ब्रूहि यथातथम्
诸圣仙曰:“恰克舒萨为谁之嗣子,出自何等族系?其后裔中其余诸人,亦请如实为我等宣说。”
Verse 83
सूत उवाच चाक्षुषस्य विसर्गं तु समासाच्छृणुत द्विजाः / यस्यान्ववाये संभूतः पृथुर्वैन्यः प्रतापवान्
苏多说道:诸位二生者,请简要聆听恰克舒沙摩奴的放出(visarga);在他的世系中诞生了威德炽盛的普利图·维因耶。
Verse 84
प्रजानां पतयश्चान्ये दक्षः प्राचेतसस्तथा / उत्तानपादं जग्राह पुत्रमत्रिप्रजापतिः
众生亦有其他主宰:如普罗切塔之子达克沙;而阿特里·生主则收取乌塔那帕达为子。
Verse 85
दत्तकः स तु पुत्रो ऽस्य राजा ह्यासीत्प्रजापतिः / स्वायंभुवेन मनुना दत्तो ऽत्रेः कारणं प्रति
他是其养子;而那位国王确实成为生主。自生摩奴因某种缘由,将他交付给阿特里。
Verse 86
मन्वन्तरमथासाद्य भविष्यच्चाक्षुषस्य ह / षष्ठं तदनु वक्ष्यामि उपोद्धातेन वै द्विजाः
如今谈及恰克舒沙之后将来的摩奴期,诸位二生者,我将以序言叙述第六摩奴期。
Verse 87
उत्तानपादाच्चतुरः सूनृतासूत भामिनी / धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता
由乌塔那帕达,那位丽人苏尼利塔生下四子;她是法(Dharma)之女,腰肢秀美,以“苏尼利塔”之名著称。
Verse 88
उत्पन्ना जापि धर्मेम ध्रुवस्य जननी शुभा / धर्मस्य पत्न्यां लक्ष्मयां वै उत्पन्ना सा शुचिस्मिता
虽生于达摩之系,她吉祥的舒婆成为德鲁瓦之母;而那含净微笑的舒奇斯弥塔,实由达摩之妻吉祥天女拉克什米所生。
Verse 89
ध्रुवं च कीर्त्तिमन्तं च त्वायुष्मन्तं वसुं तथा / उत्तानपादो ऽजनयत्कन्ये द्वे च शुचिस्मिते
乌塔那帕达生下德鲁瓦、基尔提曼、阿尤什曼与婆苏;又啊,舒奇斯弥特啊,还生了两位女儿。
Verse 90
स्वरामनस्विनी चैव तयोः पुत्राः प्रकीर्त्तिताः / ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान्
斯瓦拉与摩那斯维尼被称为他们的儿子;而英勇的德鲁瓦行苦行达十个天界千年。
Verse 91
तपस्तेपे निराहारः प्रार्थयन्विपुलं यशः / त्रेतायुगे तु प्रथमे पौत्रः स्वायंभुवस्य तु
他断食修苦行,祈求广大声名;作为自生摩奴之孙,在特雷塔纪元之初,他便如此行持。
Verse 92
आत्मानं धारयन्योगान्प्रार्थयन्सुमहद्यशः / तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम्
他以瑜伽摄持其身心,祈求至大的声名;梵天欢喜,赐他在诸天光曜之中最殊胜的位处。
Verse 93
आभूतसंप्लवाद्दिव्यमस्तोदयविवार्जितम् / तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य तु
当他观见大劫溃灭之后那神圣境界,远离日落日出之别,并目睹其无量昌盛与威德之时。
Verse 94
दैत्या सुराणामाचार्यः श्लोकमप्युशाना जगौ / अहो ऽस्य तपसो वीर्यमहो श्रुतमहो व्रतम्
阿修那(乌沙那),为阿修罗与诸天之师,也吟诵一偈:“嗟乎!其苦行之威力;嗟乎!其所持圣闻(Śruti);嗟乎!其誓戒(Vrata)!”
Verse 95
कृत्वा यदेनमुपरि ध्रुवं सप्तर्षयः स्थिताः / द्रुवे त्रिदिवमासक्तमीश्वरः स दिवस्पतिः
将其立为“德鲁瓦”者,其上七仙安住;于德鲁瓦处,三天界亦相系——彼自在主即为“日之主”(Divaspati)。
Verse 96
ध्रुवात्सृष्टिं च भव्यं च भूमिस्तौ सुषुवे नृपौ / स्वां छायामाह वै सृष्टिर्भवनारीति तां प्रभुः
由德鲁瓦而生,大地女神(Bhūmi)诞下两位国王:名为“创造”(Sṛṣṭi)与“吉祥”(Bhavya)。主对“创造”说道:“你是我的影子;当名为‘居世之女’(Bhavanārī)。”
Verse 97
सत्याभिव्यहृतेस्तस्य सद्यः स्त्री साभवत्तदा / दिव्यसंहनना छाया दिव्याभरणभूषिता
因他一句真实之言,那影子当即化为女子:身相天成,佩戴天界庄严之饰。
Verse 98
छायायां सृष्टिराधत्त पञ्च पुत्रानकल्मषान् / प्राजीनगर्भं वृषभं वृकञ्च वृकलं धृतिम्
由影神(Chāyā)化生出五位无垢之子:普罗吉那伽尔婆、弗利沙婆、弗利迦、弗利迦罗与持力(Dhṛti)。
Verse 99
पत्नी प्राचीनगर्भस्य सुवर्चा सुषुवे नुपम् / नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि
普罗吉那伽尔婆之妻苏瓦尔恰诞下一位卓越之子,名为乌达拉提;他在前世曾为因陀罗。
Verse 100
संवत्सरसहस्रान्ते सकृदाहारमाहरन् / एवं मन्वन्तरं युक्त इन्द्रत्वं प्राप्तवान्प्रभुः
每满一千年,他才进食一次;如此在整个摩奴劫中守持戒律,主尊遂得因陀罗之位。
Verse 101
उदारधेः सुतं भद्राजनयत्सा दिवञ्जयम् / रिपुं रिपुञ्जयाज्जज्ञे वराङ्गी तु दिवञ्जयात्
由乌达拉提,跋陀罗生子名“天胜”(Divañjaya);由天胜,瓦兰吉生“胜敌”(Ripuñjaya);由胜敌,又生“敌”(Ripu)。
Verse 102
रिपोराधत्त बृहती वक्षुषं सर्वतेजसम् / तस्य पुत्रो मनुर्विद्वान् ब्रह्मक्षत्त्रप्रवत्तकः / व्यजीजनत्पुष्करिणी वारुणी चाक्षुषं मनुम्
由“敌”(Ripu),布丽哈蒂生下具一切光威的瓦克舒沙(Vakṣuṣa)。其子为博学的摩奴,开立婆罗门与刹帝利之法统。普什卡里尼与瓦鲁尼又生“眼生摩奴”(Cākṣuṣa Manu)。
Verse 103
ऋषय ऊचुः प्रजापतेः सुता कस्माद्वारुणी प्रोच्यते ऽनघ / एतदाचक्ष्व तत्वेन कुशलो ह्यसि विस्तरे
诸仙人说道:无垢者啊,普罗阇波提之女为何被称为“伐楼尼”(Vāruṇī)?请依真实之理详尽开示,因为你善于阐述。
Verse 104
सूत उवाच अरण्यस्योदकः पुत्रो वरुणत्वमुपागतः / तेन सा वारुणी ज्ञेया भ्रात्रा ख्यातिमुपागता
苏多说道:阿兰尼耶之子乌达迦得证伐楼那之位;因此她应知名为“伐楼尼”,并因其兄而得声名。
Verse 105
मनोरजायन्त दश नड्वलायां सुताः शुभाः / कन्यायां सुमहावीर्या विरजस्य प्रजापतेः
在那德瓦拉处,摩奴诞生了十位吉祥之子;而在迦尼娅处,生出了普罗阇波提毗罗阇那极具大勇力的诸子。
Verse 106
ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कृतिः / अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति वै नव
乌鲁、普鲁、沙塔德尤姆那、苦行者、真实言行者、赞火者、阿提罗特罗与苏德尤姆那——这九位(儿子)如是列名。
Verse 107
अभिमन्युश्च दशमो नड्वलायां मनोः सुताः / ऊरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान्
阿毗曼纽亦为摩奴在那德瓦拉所生第十子;而由乌鲁,阿格涅伊生下六位大光辉之子。
Verse 108
अङ्गं सुमनसं ख्यातिङ्गयं शुक्रं व्रजाजिनौ / अङ्गात्सुनीथापत्यंवै वेनमेकं व्यजायत
在安伽、苏摩那萨、迦耶提因伽耶、舒克罗、弗拉阇与阿吉那诸支系之中;由安伽与苏尼塔所生,诞下一子,名为维那。
Verse 109
तस्यापराधाद्वेनस्य प्रकोपस्तु महानभूत् / प्रजार्थमृषयो यस्यममन्थुर्दक्षिणां करम्
因维那之罪,激起了巨大的愤怒;为众生繁衍之故,诸仙人搅拌(摩挲)他的右手。
Verse 110
जनितस्तस्य पाणौ तु मथिते रूपवान्पृथुः / जनयित्वा सुतं तस्य पृथुं प्रथितपौरुषम्
当其手被搅拌之时,容貌端严的普利图诞生;由此显现出那位以雄武著称的王子普利图。
Verse 111
अब्रु वंस्त्वेष वो राजा ऋषयो मुदिताः प्रजाः / स धन्वी कवची जज्ञे तेजसा निर्दहन्निव
他们说道:“此乃你们的君王”;仙人与众民皆欢喜。他生而执弓披甲,仿佛以威光灼烧万物。
Verse 112
वृत्तीनामेष वो दाता भविष्यति नराधिपः / पृथुर्वैन्यस्तदा लोकान्ररक्ष क्षत्रपूर्वजः
此人王将成为你们生计之施主;当时,刹帝利之先祖普利图·维那雅守护诸世界。
Verse 113
राजसूयाभिषिक्तानामाद्यस्स वसुधाधिपः / तस्य स्तवार्थमुत्पन्नौ निपुणौ सूतमागधौ
在受“王祭”(Rājasūya)灌顶的诸王之中,他是最初的大地之主。为颂扬他,精通赞歌的苏多与摩伽陀应运而生。
Verse 114
तेनेयं गौर्महाराज्ञा दुग्धा सस्यानि धीमता / प्रजानां वृत्तिकामानां देवैश्चर्षिगणैः सह
那位睿智的大王挤取这如母牛般的大地之乳;为众生生计,五谷丰稔涌现,并与诸天及仙圣众同在。
Verse 115
पितृभिर् दानवैश्चैव गन्धर्वैश्चाप्सरोगणैः / सर्पैः पुण्यजनैश्चैव पर्वतैर्वृक्षवीरुधैः
又由祖灵众(Pitṛ)、达那婆(Dānava)、乾闼婆与天女众(Apsaras)、诸蛇族、福德众(Puṇyajana),以及群山、树木与藤蔓。
Verse 116
तेषु तेषु तु पात्रेषु दुह्यमाना वसुंधरा / प्रादाद्यथेप्सि तं क्षीरं तेन प्राणानधारयन्
大地女神在不同的器皿中被挤乳时,便赐下各自所求之乳;众生凭此维系生命。
Verse 117
शांशपायन उवाच विस्तरेण पृथोर्जन्म कीर्त्तयस्व महाव्रत / यथा महात्मना तेन पूर्वं दुग्धा वसुंधरा
商沙巴耶那说道:持大誓者啊,请详述普利图的诞生,如同那位大圣昔日如何挤取大地女神之乳。
Verse 118
यथा देवैश्च नागैश्च यथा ब्रह्मर्षिभिः सह / यक्षै राक्षसगन्धर्वैरप्सरोभिर्यथा पुरा
正如往昔与诸天与龙族(那伽)同在,亦如与诸梵仙同在;又如古时与夜叉、罗刹、乾闼婆及天女(阿普萨拉)同在一般。
Verse 119
यथा यथा च वै सूत विधिना येन येन च / तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव च
苏多啊,依何等仪轨、以何等方式而成,请述说他们各自器皿的差别、挤乳者,以及那乳汁(吉祥之乳)本身。
Verse 120
तथा वत्सविशेषांश्च त्वंनः प्रब्रूहि पृच्छताम् / यथा क्षीरविशेषांश्च सर्वानेवानुपूर्वशः
同样地,我们请问你:也请宣说诸“犊”(vatsa)的种种差别;并将乳汁(kṣīra)的诸般差别依次详述。
Verse 121
यस्मिंश्च कारणे पाणिर्वनस्य मथितः पुरा / कुद्धैर्महर्षिभिः पूर्वैः कारणं ब्रूहि तद्धि नः
又因何缘故,往昔诸忿怒的大圣仙以手“搅拌”森林而取其精髓?请为我们说出那缘由。
Verse 122
सूत उवाच कथयिष्यामि वो विप्राः पृथोर्वैन्यस्य संभवम् / एकाग्राः प्रयताश्चैव शुश्रूषध्वं द्विजोत्तमाः
苏多说道:诸位婆罗门啊,我将为你们讲述普利图·维尼亚的出世因缘。诸位最胜二生者,当摄心专注、恭敬聆听。
Verse 123
नाशुद्धाय न पापाय नाशिष्यायाहिताय च / वर्त्तनीयमिदं ब्रह्म नाव्रताय कथञ्चन
此梵之圣言不可对不净者、罪人、非弟子及作恶者宣说;对不守誓戒者更是万万不可。
Verse 124
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमितम् / रहस्यमृषिभिः प्रोक्तं शृणुयाद्यो ऽनसूयकः
此事迹吉祥、增名声、益寿命、具功德,且与吠陀相符;诸仙所宣之秘义,唯无嫉妒者当聆听。
Verse 125
यश्चैवं श्रावयेन्मर्त्यः पृथोर्वैन्यस्य संभवम् / ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम्
凡人若先礼敬婆罗门,如此宣讲普利图·维因亚的出世因缘,便不为已作未作而忧悔。
Verse 126
गोप्ता धर्मस्य राजासौ बभूवात्रिसमः प्रभुः / अत्रिवंशसमुत्पन्नो ह्यङ्गो नाम प्रजापतिः
那位国王成为护持正法之主,威德如阿特里;在阿特里族系中,诞生了名为“安伽”的生主(Prajāpati)。
Verse 127
तस्य पुत्रो ऽभवद्वेनो नात्यर्थं धार्मिकस्तथा / जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः
他的儿子名为维那,并非十分守法行德;这位生主出自苏尼塔之胎,而苏尼塔乃死神(Mṛtyu)之女。
Verse 128
स मातामहदोषेण वेनः कालात्म जात्मजः / स धर्मं वृष्ठतः कृत्वा कामाल्लोकेष्वर्तत
由于外祖之过,迦罗阿特摩阇之子维那把达摩抛在身后,受欲望驱使而行于诸世间。
Verse 129
स्थापनां स्थापयामास धर्मायेतां स पार्थिवः / वेदशास्त्राण्यतिक्रम्य सो ऽधर्मे निरतो ऽभवत्
那位国王以“为达摩”为名设立制度,却违越吠陀与诸论典,反而沉溺于非达摩。
Verse 130
निःस्वाध्यायवष्ट्कारे तस्मिन्राज्यं प्रशासति / न पिबन्ति तदा सोमं महायज्ञेषु देवताः
当他统治时,诵习与“婆刹特”祭呼皆绝;于是诸天在大祭中也不再饮苏摩。
Verse 131
न यष्टव्यं न दातव्यमिति तस्य प्रजापतेः / आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते
那位“众生之主”立下残酷誓言:“不可行祭,不可施舍”;毁灭已然逼近。
Verse 132
अहमीज्यश्च पूज्यश्च यज्ञे देवद्विजातिभिः / मयि यज्ञा विधातव्या मयि होतव्यमित्यपि
他说:“在祭祀中,诸天与婆罗门当唯我为应祭应敬者;一切祭礼当为我而设,供献亦当归于我。”
Verse 133
तमतिक्रान्तमर्यादमवदानसुसंवृतम् / ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा
当时以摩利支为首的一切大圣仙,见他逾越法度、为罪业所覆,便说道:
Verse 134
वयं दीक्षां प्रवेक्ष्यामः संवत्सरशतं नृप / त्वं मा कार्षीरधर्मं वै नैष धर्मः सनातनः
大王,我们将入持戒受戒之行一百年;你切莫行不法,因为这并非永恒之法。
Verse 135
निधने संप्रसूतस्त्वं प्रजापतिरसंशयः / पालयिष्ये प्रजाश्चेति पूर्वं ते समयः कृतः
你生于败亡之时;毫无疑问,你是众生之主(Prajāpati)。你先前曾立约:‘我将护持万民。’
Verse 136
तां स्तथा वादिनः सर्वान्ब्रह्मर्षीनब्रवीत्तदा / वेनः प्रहस्य दुर्बुद्धिर्विदितेन च कोविदः
面对如此劝诫的诸位梵仙,当时愚昧的韦那嗤笑一声,自诩通晓而说道。
Verse 137
स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया / वीर्यण तपसा सत्यैर्मया वा कः समो भुवि
除我之外,谁是法的制定者?我又该听谁的?以勇力、苦行与真实而言,大地之上谁能与我相比?
Verse 138
मन्दात्मानो न नूनं मां यूयं जानीत तत्त्वतः / प्रभवं सर्वलोकानां धर्माणां च विशेषतः
愚钝之人啊,你们确实未能如实知我;我乃一切世界之本源,尤为诸法(达摩)之根本。
Verse 139
इच्छन्दहेयं पृथिवीं प्लावयेयं जलेन वा / सृजेयं वा ग्रसेयं वा नात्र कार्या विचारणा
若我愿意,可焚烧大地,亦可以水淹没;可创造,亦可吞噬——无需犹豫思量。
Verse 140
यदा न शक्यते स्तंभादानार्य्यभृशसंहितः / अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः
当无法劝服那如柱般顽固、失却雅正而极其残暴的维那时,诸大圣仙便愤怒起来。
Verse 141
निगृह्य तं च बाहुभ्यां विस्फुरन्तं महा बलम् / ततो ऽस्य वामहस्तं ते ममन्थुर्भृशकोपिताः
他们以双臂制住那力大而挣扎者;继而盛怒之下,便搓炼(挤压)他的左手。
Verse 142
तस्मात्प्रमथ्यमानाद्वै जज्ञ पूर्वमिति श्रुतिः / ह्रस्वो ऽतिमात्रं पुरुषः कृष्णश्चापि बभूव ह
据圣传所说,从那搓炼之中先出生一男子:身材矮小,肢体过大,且呈黑色。
Verse 143
स भीतः प्राञ्जलिश्चैव तस्थिवानाकुलेन्द्रियः / तमार्त्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल
他心怀恐惧,合掌而立,诸根纷乱;见他困苦恍惚,众人便说道:“坐下吧。”
Verse 144
निषादवंशकर्तासौ बभूवानन्तविक्रमः / धीवरानसृजच्चापि वेनकल्मषसंभवान्
他成为尼沙陀族系的开创者,勇力无穷;又生出由维那之污秽所成的提婆罗(渔人)一族。
Verse 145
ये चान्ये विन्ध्यनिलयास्तंबुरास्तुबुराः खशाः / अधर्मरुचयश्चापि विद्धि तान्वेनकल्मषान्
又有居于温陀山的坦布罗、图布罗、卡沙等,以及喜好非法者;当知他们皆为维那之罪垢所生。
Verse 146
पुनर्महर्षयस्तस्य पाणिं वेनस्य दक्षिणम् / अरणीमिव संरब्धा ममन्थुर्जातमन्यवः
随后诸大圣仙怒意勃发,如同搓磨取火的阿罗尼一般,搅动维那的右手。
Verse 147
पृथुस्तस्मात्समुत्पन्नः कराज्जलजसन्निभात् / पृथोः करतलाद्वापि यस्माज्जातः पृषुस्ततः
从那如莲花般的手中诞生了普利图;又因普利图的掌心生出普鲁舒,故名为“普鲁舒”。
Verse 148
दीप्यमानश्च वपुषा साक्षादग्निरिव ज्वलन् / आद्यमाजगवं नाम धनुर्गृह्य महारवम्
他以光辉之身炽然如真火;执起名为“阿阇伽婆”的原初神弓,发出震天大吼。
Verse 149
शारांश्च बिभ्रद्रक्षार्थ कवचं च महाप्रभम् / तस्मिञ्जा ते ऽथ भूतानि संप्रहृष्टानि सर्वशः
为护卫之故,他佩持箭矢并披上大光明的甲胄;他一出现,诸类众生无不遍处欢喜。
Verse 150
समापेतुर्महाराजं वेनश्च त्रिदिवं गतः / समुत्पन्नेन राजर्षिः सत्पुत्रेण महात्मना
众人皆聚集于大王之前;而韦那已往三天界而去。因那位大心之贤子出生,王仙之事遂得成就。
Verse 151
त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा / तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः
于是那位人中猛虎从名为“普恩那摩”的地狱中得救;诸河与大海从四方携来珍宝,汇至其前。
Verse 152
अभिषेकाय तोयं च सर्व एवोपत स्थिरे / पितामहश्च भगवानङ्गिरोभिः सहामरैः
为行灌顶之礼,众人皆携净水肃立在前;而圣祖梵天亦与安吉罗等仙圣及诸天同来。
Verse 153
स्थावराणि च भूतानि जङ्गमानि च सर्वशः / समागम्य तदा वैन्यमभ्य षिञ्चन्नराधिपम्
当时一切有情,或静或动,悉皆汇集,共同为维因耶王举行灌顶加冕。
Verse 154
महता राजराजेन प्रजापालं महाद्युतिम् / सो ऽभिषिक्तो महाराजो देवैरङ्गिरसः सुतैः
伟大的万王之王令安吉罗娑之子诸天,为那位护民而光辉的摩诃罗阇行灌顶加冕。
Verse 155
आदि राजो महाभागः पृथुर्वैन्यः प्रतापवान् / पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः
维因耶·普利图乃有大福德、具威力的初代之王;其民因其父而欢悦,而他亦令百姓心生爱戴。
Verse 156
ततो राजेति नामास्य ह्यनुरागादजायत / आपस्तस्तंभिरे तस्य समुद्रमभियास्यतः
于是因众人爱戴,他得名“罗阇(王)”;当他趋向大海之时,诸水为他而止,如被镇住。
Verse 157
पर्वताश्चावदीर्यन्त ध्वजभङ्गश्च नाभवत् / अकृष्टपच्या पृथिवी सिद्ध्यन्त्यन्नानि चिन्तया
群山崩裂,而旌旗不折;大地不耕自熟,唯起一念,粮食便得成就。
Verse 158
सर्वकामदुघा गावः पृटके पुटके मधु / एतस्मिन्नेव काले तु यजतस्तस्य वै मखे
群牛能满足一切愿望;篮与罐中皆有甘蜜。就在那时,祭主正在其神圣祭仪中奉献供品。
Verse 159
सोमे सुते समु त्पन्नः सूतः सौत्ये तदाहनि / तस्मिन्नेवं समुत्पन्ने पुनर्जज्ञे ऽथ मागधः
在榨取苏摩之日,于“苏提耶”仪式中诞生了苏多;当他如此诞生之后,随后又诞生了摩伽陀。
Verse 160
सामगेषु च गायत्सु शुभाण्डे वैश्वदेविके / समागते समुत्पन्नस्तस्मान्मागध उच्यते
当诵唱《娑摩》者歌咏之时,在吉祥的毗湿婆提维迦祭仪中众人齐集,他便出现;因此被称为“摩伽陀”。
Verse 161
ऐन्द्रेण हविषा चापि हविः पृक्तं बृहस्पतेः / जुहावेन्द्राय दैवेन ततः सूतो व्यजायत
以因陀罗之供品为祭时,婆罗诃斯波提的供品也混入其中;因神意而将其献给因陀罗,于是苏多诞生。
Verse 162
प्रमादस्तत्र संजज्ञ प्रायश्चित्तं च कर्मसु / शिष्यहव्येन यत्पृक्तमभिभूतं गुरोर्हविः
彼处发生了疏失,诸仪轨中遂需行“普罗耶施吉多”(忏悔赎罪);因为师者之供品与弟子之供品相混而被压覆。
Verse 163
अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम् / यच्च क्षत्रात्समभवद्ब्राह्मण्यां हीनयोनितः
由于卑下与高等行为的交杂,那个种姓遂生变异;又有从刹帝利与婆罗门女所生、出自卑劣胎系者。
Verse 164
सूतः पूर्वेण साधर्म्यात्तुल्यधर्मः प्रकीर्त्तितः / मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीवनम्
苏多因与前一阶层相近而被称为同类之法者;苏多的中等本分,是依田地而生,即以农耕为业。
Verse 165
रथनागाश्वचरितं जघन्यं च चिकित्सितम् / पृथुस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः
驾驭战车、象与马之技,以及被视为下等之业的医术——皆被提及;为赞颂普利图,那二人被诸大圣召至彼处。
Verse 166
तावूचुर्मुनयः सर्वे स्तूयतामेष पार्थिवः / कर्मैतदनुरूपं च पात्रं चायं नराधिपः
于是诸牟尼皆言:“当赞颂此地上之王;此举与其业相称,而此人主亦为堪受之器。”
Verse 167
तावूचतुस्ततः सर्वांस्तानृषीन्सूतमागधौ / आवां देवानृषींश्चैव प्रीणयावः स्वकर्मतः
随后苏多与摩伽陀对诸仙人说道:“我们将以自身之业,使诸天与诸仙同得欢喜。”
Verse 168
न चास्य विद्वो वै कर्म न तथा लक्षणं यशः / स्तोत्रं येनास्य कुर्याव प्रोचुस्तेजस्विनो द्विजाः
诸贤尚未如实知晓他的功业、瑞相与名声;于是光辉的婆罗门说道:我们当以何等赞颂之歌来称扬他?
Verse 169
एष कर्मरतो नित्यं सत्यवाक्संयतेन्द्रियः / ज्ञानशीलो वदान्यश्च संग्रामेष्वपरजितः
他恒常勤于正业,言语真实,调伏诸根;具足智慧,慷慨施与,于战阵之中未尝败北。
Verse 170
ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति / यानि कर्माणि कृतवान् पृथुः पश्चान्महाबलः
诸仙人嘱托那二人:“当使后世称颂此王”;而后,大力的普利图所成就的一切功业。
Verse 171
तानि गीतनिबद्धानि ह्यस्तुतां सूतमागधौ / ततस्तवान्ते सुप्रीतः पृथुः प्रादात्प्रजेश्वरः
他们将那些功业编成歌咏,由苏多与摩揭陀歌者加以赞颂;赞歌既毕,众生之主普利图大悦,遂赐予赏赐。
Verse 172
अनूपदेशं सूताय मगधं मागधाय च / तदादि पृथिवीपालाः स्तूयन्ते सूतमागधैः
普利图赐予苏多以阿努婆地区,赐予摩揭陀歌者以摩揭陀国;自此以来,世间诸王皆由苏多与摩揭陀之人歌颂称扬。
Verse 173
आशीर्वादैः प्रबोध्यन्ते सूतमागधबन्दिभिः / तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः
苏多、摩伽陀与颂赞者以祝福之辞唤醒他。见到他,百姓与大圣仙极其欢喜,便说道:
Verse 174
एष वृत्तिप्रदो वैन्यो भविष्यति नराधिपः / ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः
此人便是维尼耶,将成为赐予民众生计的人王。于是百姓奔向那位大福德的维尼耶。
Verse 175
त्वं नो वृत्तिं विधत्स्वेति महार्षिवच नात्तदा / सो ऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया
“请为我们安排生计”,大圣仙如此说道,他当时并未应允。尽管如此,出于护民之愿,百姓仍奔来将他围拢。
Verse 176
धनुर्गृहीत्वा बाणांश्च वसुधामाद्रवद्बली / ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही
那勇猛者执弓持箭,奔向大地追逐。于是大地因惧怕维尼耶,化作母牛疾奔而逃。
Verse 177
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत / सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा
普利图执弓追赶那奔逃的大地。她因惧怕维尼耶,当时奔至诸界,从梵天界等处而去。
Verse 178
संददर्शाग्रतो वैन्यं कार्मुकोद्यतपाणिकम् / ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम्
她在前方看见维尼亚,手举弓弩,锐利燃耀之箭闪烁,周身放射如阿周陀般的神圣光辉。
Verse 179
महायोगं महात्मानं दुर्द्धर्षममरैरपि / अलबन्ती तु सा त्राणं वैन्यमेवान्वपद्यत
他是大瑜伽行者、大圣者,连诸天也难以抗衡;她得不到庇护,便唯有投归维尼亚为依怙。
Verse 180
कृताञ्जलिपुटा देवी पूज्या लोकैस्त्रिभिः सादा / उवाच वैनं नाधर्मः स्त्रीवधे परिपश्यति
那位常受三界礼敬的女神合掌对维尼亚说道:“杀害妇女之事,非为正法。”
Verse 181
कथं धारयिता चासि प्रजा या वर्द्धिता मया / मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत्
大王啊,我所养育增长的众生,你将如何维系?诸世界安住于我;此宇宙亦由我承持。
Verse 182
मत्कृते न विनश्येयुः प्रजाः पार्थिव वर्द्धिताः / स मां नर्हसि वै हन्तुं श्रेयस्त्वं च चिकीर्षसि
大地之王啊,愿因我而增长的众生不致毁灭;因此若你欲行至善,便不应杀我。
Verse 183
प्रजानां पृथिवीपाल शृणु चेदं वचो मम / उपायतः समारब्धा सर्वे सिद्ध्यन्त्युपक्रमाः
大地之主啊,请为众生聆听我言;以善巧方便而发起的一切事业,皆能成就。
Verse 184
हत्वापि मां न शक्तस्त्वं प्रजानां पालने नृप / अन्तर्भूता भविष्यामि जहि कोपं महाद्युते
国王啊,即使杀了我,你也无力护持众生;我将隐没不现——大光明者啊,息怒吧。
Verse 185
अवध्यश्च स्त्रियः प्राहुस्तिर्यग्योनिगतेष्वपि / सत्त्वषु पृथिवीपाल धम न त्यक्तुमर्हसि
人们说女子不可杀害,即便堕于畜生之胎亦然;大地之主啊,对一切众生不可舍弃正法。
Verse 186
एवं बहुविधं वाक्यं श्रुत्वा तस्या महामनाः / क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत्
听罢她种种言辞,那位大心之人、持法者抑制怒火,对大地女神瓦苏达如是说道。
Verse 187
एकस्यार्थाय यो हन्यादात्मनो वा परस्य च / एकं प्राणी बहून्वापि कर्म तस्यास्ति पातकम्
若为一人之利——为己或为他——而杀一命或多命,此业即为其罪。
Verse 188
यस्मिंस्तु निहते भद्रे जीवन्ते बहवः सुखम् / तस्मिन्हते नास्ति शुभे पातकं चोपपातकम्
吉祥者啊!如果杀一人能让众人幸福生存,那么杀之并无大罪或小过。
Verse 189
सो ऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे / यदि मे वचनं नाद्य करिष्यसि जगद्धितम्
因此,瓦孙达拉(大地)啊!如果你今天不为了世界的福祉执行我的命令,为了我的子民,我将杀了你。
Verse 190
त्वां निहत्याशु बाणेन मच्छासनपराङ्मुखीम् / आत्मानं प्रथयित्वेह प्रजा धारयिता स्वयम्
既然你背弃我的命令,我将用箭迅速射杀你,然后亲自扩展自身来供养子民。
Verse 191
सा त्वं वचनमास्थाय मम धर्मभृतां वरे / संजीवय प्रजा नित्यं शक्ता ह्यसि न संशयः
因此,维护正法者中的佼佼者啊!请遵从我的话语,常使子民复苏;你确实有此能力,这毫无疑问。
Verse 192
दुहितृत्वं च मे गच्छ चैवमेतमहं शरम् / नियच्छेयं त्वद्वधार्थमुद्यन्तं घोरदर्शनम्
做我的女儿吧。这样,我就会收回这支为了杀你而举起的、看起来很可怕的箭。
Verse 193
प्रत्युवाच ततो वैन्यमेवमुक्ता सती मही / सर्वमेतदहं राजन्विधास्यामि न संशयः
于是大地女神对维尼亚答道:“大王,我必成就这一切;毫无疑虑。”
Verse 194
वत्सं तु मम तं पश्य क्षरेयं येन वत्सला / समां च कुरु सर्वत्र मां त्वं धर्म्मभृतां वर / यथा विस्पन्दमानं मे क्षीरं सर्वत्र भावयेत्
“看我这头小牛;因它我将以慈爱涌出乳汁。持法者中最胜者啊,使我处处平坦,好让我颤动的乳汁遍流四方。”
Verse 195
सूत उवाच तत उत्सारयामास शिलाजालनि सर्वशः / धनुष्कोट्या तथा वैन्यस्तेन शैला विवर्द्धिताः
苏多说道:随后维尼亚四处驱散石块之群;又以弓端使群山增高。
Verse 196
मन्वन्तरेष्वतीतेषु विषमासीद्वसुन्धरा / स्वभावेना भवत्तस्याः समानि विषमाणि च
在往昔诸摩奴劫中,大地曾崎岖不平;依其本性,有处平坦,有处险峻。
Verse 197
न हि पूर्वनिसर्गे वै विषमे पृथिवीतले / प्रविभागः पुराणां वा ग्रामाणां वापि विद्यते
因为在上古初创之时,大地表面崎岖不平,既无城邑之分,也无村落之界。
Verse 198
न सस्यानि न गोरक्षं न कृषिर्न वणिक्पथः / चाक्षुषस्यान्तरे पूर्वमासीदेतत्पुरा किल
据说在恰克舒沙(Cākṣuṣa)摩奴时代之前的远古,并无谷物收成,无护牛之事,无农耕,亦无商旅之道。
Verse 199
वैवस्वतेंऽतरे तस्मिन्सर्व स्यैतस्य संभवः / समत्वं यत्र यत्रासीद्भूमेः कस्मिंश्चिदेव हि
在毗婆斯瓦特(Vaivasvata)摩奴时代,这一切才得以发生;凡大地某处平坦之地,皆可成就此事。
Verse 200
तत्र तत्र प्रजास्ता वै निवसंति च सर्वशः / आहारः फल मूले तु प्रजानामभवत्किल
众生在各处各方居住;据说他们的食粮只是果实与根茎。
The narrative shifts from the already-covered Svāyambhuva Manvantara to the Svārociṣa Manvantara, signaled by the statement that Svāyambhuva has been ‘crossed/covered’ and that the next exposition will be of Svārociṣa.
Administrative cosmology: it preserves structured rosters—Manu sequence and the deva-gaṇas (notably Tuṣitas) assigned to a given Manvantara—serving as an index for time-cycle governance rather than terrestrial measurements.
Because Purāṇic chronology ties each Manvantara to a specific divine administration; detailed lists function as identifiers for that age, allowing later sections to anchor events, rites, and lineages to a precise temporal regime.