
Āditya-vyūha-kīrtana (Praise/Account of the Solar Array and Celestial Motions)
本章开篇,苏多(Lomaharṣaṇa/Romaharṣaṇa)宣示将依次叙述与自生者(Svāyambhuva)创世及时间展开相关的宇宙次第。诸仙询问日、月与诸行星的“行程”(cāra):诸光体如何运行而不相撞,是自转自驱,抑或受外力牵引。苏多答曰,天界运行之枢轴在于德鲁瓦(Dhruva,北极星),其于“湿修摩罗”(Śiśumāra)之形中恒定不动,如枢纽(meḍhī)使诸光体环绕而转。又说群星、宿(nakṣatra)、日、月与诸“摄”(graha)皆随德鲁瓦之动“如轮而行”,并以如“风索”(vātānīka)之带相系。由此以德鲁瓦为中心的秩序,生起升落、征兆、至日、分点、四时、昼夜,以及吉凶果报。继而将太阳之业与水道相连:太阳汲引诸水上升;苏摩(Soma,月)传递或释放湿润,湿气循“脉道”(nāḍī)流转,以成雨泽与资粮,显天文与宇宙生态相融。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे आदित्यव्यूहकीर्त्तनं नामैकविंशतितमो ऽध्यायः सूत उवाच स्वायंभूवनिसर्गे तु व्याख्यातान्यन्तराणि च / भविष्याणि च सर्वाणि तेषां वक्ष्याम्यनुक्रमम्
如是,在《圣梵卵大摩诃往世书》中,风神所宣说的前分第二“附章足”里,有名为《称述阿底提耶诸队列》的第二十一章。苏多曰:于自生者(Svāyaṃbhuva)之创世中,已阐明的诸摩奴劫与未来将至的一切摩奴劫,我将依次叙说其序。
Verse 2
एतच्छ्रुतवा तु मुनयः पप्रच्छू रोमहर्षणम् / सूर्याचन्द्रमसोश्चारं ग्रहाणां चैव सर्वशः
诸牟尼闻之,便问罗摩哈尔沙那:日与月的运行如何?诸行星的行度又究竟怎样?
Verse 3
ऋषय ऋचुः / भ्रमन्ति कथमेतानि ज्योतीषि दिवमण्डलम् / अव्यूहेन च सर्वाणि तथैवासंकरेण वा
诸仙人曰:这些光明天体在天轮之中如何旋转?它们是毫无队列(vyūha)而行,还是彼此不相杂乱而运行?
Verse 4
कश्चिद्भामयते तानि भ्रमन्ते यदि वा स्वयम् / एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम
是有人使它们旋转,还是它们自行运转?我们愿知其理;至善者啊,请为我们宣说真相。
Verse 5
सूत उवाच भूतसंमोहनं ह्येतद्वदतो मे निबोधत / प्रत्यक्षमपि दृश्यं च संमोहयति यत्प्रजाः
苏多说道:此事确能迷惑众生;请听我所言。即使是眼前可见之物,也能使世人迷惘。
Verse 6
यो ऽयं चतुर्द्दिशं पुच्छे शैशुमारे व्यवस्थितः / उत्तानपादपुत्रो ऽसौ मेढीभूतो ध्रुवो दिवि
那位安住于“海豚形天象”(Śaiśumāra)之尾、遍及四方者,即是乌塔那帕达之子德鲁瓦;他在天界如轴般稳固。
Verse 7
स वै भ्रामयते नित्यं चन्द्रादित्यौ ग्रहैः सह / भ्रमन्तमनुगच्छन्ति नक्षत्राणि च चक्रवत्
正是他恒常使月与日连同诸行星运转;群星亦如轮般随其旋行。
Verse 8
ध्रुवस्य मनसा चासौ सर्वते ज्योतिषां गणः / सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह
凭借德鲁瓦的心意,诸天光明之众——日月、群星、星宿与诸行星——皆随之旋转运行。
Verse 9
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै / तेषां योगश्च भेदश्च कालश्चारस्तथैव च
这一切都以风众所成之系缚,系于天极(Dhruva)。它们的合与离、时与行,亦皆如是而定。
Verse 10
अस्तोदयौ तथोत्पाता अयने दक्षणोत्तरे / विषुवद्ग्रहवर्णाश्च द्रुवात्सर्वं प्रवर्त्तते
日之没与出,以及诸般异兆;南北二行(ayana);春秋分与诸 ग्रह之色相——一切皆由天极(Dhruva)而转起。
Verse 11
वर्षा घर्मो हिमं रात्रिः संध्या चैव दिनं तथा / शुभाशुभं प्रजानां च ध्रुवात्सर्वं प्रवर्त्तते
雨、暑、寒雪、夜、昏暮与昼;以及众生之吉与凶——一切皆由天极(Dhruva)而运行。
Verse 12
ध्रुवेणाधिष्टितश्चैव सूर्यो ऽपो गृह्य वर्षति / तदेष दीप्त किरणः स कालग्निर्दिवाकरः
在天极(Dhruva)之所主宰下,太阳摄取诸水而降为雨。此光焰炽盛之日神,犹如“时之火”(kālāgni)。
Verse 13
परिवर्त्तक्रमाद्विप्रा भाभिरालोकयन् दिशः / सूर्यः किरमजालेन वायुयुक्तेन सर्वशः
诸婆罗门啊!依其旋转之次第,太阳以与风相应之光线之网,遍照十方,使诸方为其辉光所明。
Verse 14
जगतो जलमादत्ते कृत्स्नस्य द्विजसत्तमाः / आदित्यपीतं सकलं सोमः संक्रमते जलम्
诸位最胜婆罗门啊,阿底提耶(太阳)摄取整个世界之水;凡被太阳饮尽之水,皆由苏摩(月神)再转化为水而流行。
Verse 15
नाडीभिर्वायुयुक्ताभिर्लोकधारा प्रवर्त्तते / यत्सोमात्स्रवते ह्यंबु तदन्नेष्वेव तिष्ठति
凭借与风相应的诸脉(那迪),世间之流得以运行;从苏摩所滴流之水,正安住于诸食物之中。
Verse 16
मेघा वायुविघातेन विसृजन्ति जलं भूवि / एवमुत्क्षिप्यते चैव पतते चासकृज्जलम्
云因风之冲击而向大地散降雨水;如是,水被举起,又一次次坠落。
Verse 17
न नाश उदकस्यास्ति तदेव परिवर्त्तते / संधारणार्थं लोकानां मायैषा विश्वनिर्मिता
水并无毁灭,只是自身转变;为维系诸世界,此乃宇宙所成之幻力(摩耶)。
Verse 18
अन्या मायया व्याप्तं त्रैलोक्यं सचराचरम् / विश्वेशो लोककृद्देवः सहस्राक्षः प्रजापतिः
由此摩耶,含动与不动的三界皆被遍满;彼为毗湿维沙、造世之神、千眼的生主(因陀罗)。
Verse 19
धाता कृत्स्नस्य लोकस्य प्रभविष्णुर्दिवाकरः / सार्वलोकिकमंभो यत्तत्सोमान्नभसश्व्युतम्
日神天照(太阳)为全世界之造化与主宰;而遍及诸界之水,乃由苏摩自苍穹降落而成。
Verse 20
सोमाधारं जगत्सर्वमेतत्तथ्यं प्रकीर्तितम् / सूर्यादुष्णं निस्रवते सोमाच्छीतं प्रवर्त्तते
此被宣说为真实:一切世界依苏摩而立;由太阳流出热力,由苏摩发起清凉。
Verse 21
शीतोष्णवीर्यौं द्वावेतौ युक्त्या धारयतो जगत् / सोमाधारा नदी गङ्गा पवित्रा विमलोदका
冷与热二力以调和之道支撑世界;依苏摩而行的恒河为至圣之河,其水清净无垢。
Verse 22
भद्रसोमपुरोगाश्च महानद्यो द्विजोत्तमाः / सर्वभूतशरीरेषु ह्यापो ह्यनुसृताश्च याः
婆罗门中最胜者啊!以跋陀罗苏摩等大河为先导;而水亦遍随于一切众生之身,处处渗流。
Verse 23
तेषु संदह्यमानेषु जङ्गमस्थावरेषु च / धूमभूतास्तु ता ह्यापो निष्कामन्तीह सर्वशः
当动与不动诸类被焚烧之时,那些水分化为烟气,于此处处逸散而出。
Verse 24
तेन चाभ्राणि जायन्ते स्थानमभ्रमयं स्मृतम् / तेजोर्ऽकः सर्वभूतेभ्य आदत्ते रश्मिभिर्जलम्
由此云聚而生;彼处被称为“阿婆罗摩耶”。光辉的太阳以其光线从一切众生处摄取水分。
Verse 25
समुद्राद्वायुसंयोगाद्वहन्त्यापो गभस्तयः / संजीवनं च सस्यानामंभस्तदमृतोपमम्
由海洋因与风相合,太阳的光束载运水分。此水使庄稼复苏,宛如甘露。
Verse 26
ततस्त्वृतुवशात्काले परिवत्य दिवाकरः / यच्छत्यापो हि मेघेभ्यः घुक्लाशुक्लैर्गभस्तिभिः
随后随季节之律,时至则日神转变,以明与暗的光束将水施与诸云。
Verse 27
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः / सर्वभूतहितार्थाय वायुमिश्राः समन्ततः
云中之水为风所驱而降;与风相杂,遍洒四方,为一切众生之利益。
Verse 28
ततो वर्षति षण्मासान्सर्वभूतविवृद्धये / वायव्यं स्तनितं चैव वैद्युतं चाग्निसंभवम्
于是为令一切众生增长,雨降六个月;并现起由风而生的雷鸣、闪电之光,以及由火而起的炽焰。
Verse 29
मेहनाच्च मिहेधातोमघत्वं व्यजयन्ति हि / न भ्रश्यन्ति यतश्चापस्तदभं कवयो विदुः
由 mehanā 与 mihedhātu 之力,他们确得云之性;凡水不衰不失之所,诗贤知之名为“阿婆(abh)”。
Verse 30
मेघानां पुनरुत्पत्तिश्त्रिविधा योनिरुच्यते / आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः
云的再生之源被说为三种:火生、梵生,以及翼生;各各不同。
Verse 31
त्रिधा मेघाः समाख्यातास्तेषां वक्ष्यामि संभवम् / आग्नेया स्तूष्णजाः प्रोक्तास्तेषां धूमप्रवर्त्तनम्
云被宣说为三类;我将述其生起。火生之云名“斯图什那迦(stūṣṇajā)”;其发动起于烟气。
Verse 32
शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः / महिषाश्च वाराहाश्च मत्तमातङ्गरूपिणः
寒冷、阴晦之日与狂风,是其自性之德已然安立;它们现为水牛、野猪与狂醉之象的形貌。
Verse 33
भूत्वा धरणिमभ्येत्य रमन्ते विचरन्ति च / जीमूता नाम ते मेघा ह्येतेभ्यो जीवसंभवः
既成其形,便趋近大地,嬉游而行。此等云名为“吉穆塔(jīmūta)”;由它们而有众生之生起。
Verse 34
विद्युद्गुणविहीनाश्च जलधारा विलंबिनः / मूकमेघा महाकाया आवहस्य वशानुगाः
那些不具雷电之性、雨流缓缓垂落的云;沉默而巨大的云团,皆随从“阿瓦诃”(Āvaha)之权。
Verse 35
क्रोशमात्राच्च वर्षन्ति क्रोशार्द्धादपि वा पुनः / पर्वताग्र नितंबेषु वर्षति च रसंति च
它们能在一拘舍之遥降雨,或又在半拘舍处降雨;在山巅与山腰之处,既降霖亦轰鸣。
Verse 36
बलाकागर्भदाश्चैव बलाकागर्भधारिणः / ब्रह्मजा नाम ते मेघा ब्रह्मनिश्वाससंभवाः
它们能赐与并怀持“鹭胎”(balākā);这些云名为“梵生”(Brahmajā),由梵天的气息所生。
Verse 37
ते हि विद्युद्गुणोपेतास्तनयित्नुप्रियस्वनाः / तेषां शश्र्वत्प्रणादेन भूमिः स्वाङ्गरूहोद्भवा
它们具足雷电之性,发出悦耳的雷鸣;凭其恒常的轰响,大地从自身肢体中萌生新芽。
Verse 38
राज्ञी राज्याभिषिक्तेव पुनर्यौंवनमश्नुते / तेष्वियं प्रावृडासक्ता भूतानां जीवितोद्भवा
如同受王权灌顶的王后再得青春,这依附于诸云的“普罗伐栗特”(Prāvṛṭ,雨季)乃一切众生生命之源。
Verse 39
द्वितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः / एतं योजनमात्राच्च साध्यर्द्धा निष्कृतादपि
第二种风名为“普拉瓦哈”(Pravaha),诸云依止其上。越过一由旬之量,它吹行至萨陀耶(Sādhya)界的半周,甚至超出尼什克里提(Niṣkṛti)的边际。
Verse 40
वृष्टिर्गर्भस्त्रिधा तेषां धारासारः प्रकीर्त्तितः / पुष्करावर्त्तका नाम ते मेघाः पक्षसंभवाः
那些云的降雨之胎分为三类,称为“达拉萨拉”(Dhārāsāra)。它们是由翅翼所生、名为“普什卡拉瓦尔塔卡”(Puṣkarāvarttaka)的云。
Verse 41
शक्रेण पक्षच्छिन्ना ये पर्वतानां महौजसाम् / कामागानां प्रवृद्धानां भूतानां शिवमिच्छता
那些具大威力、曾有翅翼的群山,被释迦罗(因陀罗)剪断其翼——它们是随欲而行、日益强盛的“部多”之类;此举乃出于湿婆欲求安吉之意。
Verse 42
पुष्करा नाम ते मेघा बृंहन्तस्तोयमत्सराः / पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः
它们名为“普什卡拉”(Puṣkara)之云,充盈雨水而轰鸣。正因如此,此处称它们为“普什卡拉瓦尔塔卡”(Puṣkarāvarttaka)。
Verse 43
नानारूपधराश्चैव महाघोरस्वनाश्च ते / कल्पान्तवृष्टेः स्रष्टारः संवर्ताग्ने र्नियामकाः
它们能现种种形相,发出极其可怖的轰鸣;它们是劫末大雨的造作者,也是“桑瓦尔塔之火”(Saṃvarta-agni)的调御者。
Verse 44
वर्षन्त्येते युगान्तेषु तृतीयास्ते प्रकीर्त्तिताः / अनेकरूपसंस्थानाः पूरयन्तो महीतलम्
在劫末之时,这第三类云众降下甘霖;形态万千,充满大地之面。
Verse 45
वायुं पुरा वहन्तः स्युराश्रिताः कल्पसाधकाः / यान्यण्डस्य तु भिन्नस्य प्राकृतस्याभवंस्तदा
往昔他们承载风神伐由,为成就一劫而为依止;当时便化作那已裂开的自然宇宙卵之诸部分。
Verse 46
यस्मिन्ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयंप्रभुः / तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्त्तिताः
在那宇宙卵中,自光四面之梵天诞生;那卵之壳片,皆被称颂为一切云众。
Verse 47
तेषामाप्यायनं धूमः सर्वेषामविशेषतः / तेषां श्रेष्ठस्तु पर्जन्यश्चत्वारश्चैव दिग्गजाः
他们一切皆由“烟雾/蒸气”(dhūma)同等滋养;其中最胜者为降雨神帕尔迦尼亚,且有四方护持之地象。
Verse 48
गजानां पर्वतानां च मेघानां भोगिभिः सह / कुलमेकं पृथग्भूतं योनिरेका जलं स्मृतम्
大象、群山、云众并诸“波吉因”(那伽)同出一族,虽各别显现;其共同之胎源,被忆为“水”。
Verse 49
पर्जन्यो दिग्गजा श्चैव हेमन्ते शीतसंभवाः / तुषारवृष्टिं वर्षन्ति शिष्टः सस्यप्रवृद्धये
在寒季(Hemanta),由寒气所生的雨神帕尔贾尼亚与守方位的神象降下霜雪之雨,使五谷滋长。
Verse 50
षष्ठः परिवहो नाम तेषां वायुरपाश्रयः / यो ऽसौ बिबर्त्ति भगवान्गङ्गामाकाशगोचराम्
第六种风名为“遍运”(Parivaha),为水之所依;正是这位神圣者托持着行于虚空的恒河。
Verse 51
दिव्यामृतजला पुण्यां त्रिधास्वातिपथे स्थिताम् / तस्या निष्यन्दतोयानि दिग्गजाः पृथुभिः करैः
圣洁的恒河充满天界甘露之水,在“斯瓦提”之道上以三重形态安住;其所渗流之水,由守方位的神象以宽大的象鼻引流。
Verse 52
शीकरं संप्रमुञ्चन्ति नीहार इति स स्मृतः / दक्षिणेन गिरिर्यो ऽसौ हेमकूट इति स्मृतः
他们散放细微水珠,此称为“尼诃罗”(nīhāra,雾露);而南方那座山,被称作“赫摩库塔”(Hemakūṭa)。
Verse 53
उदग्घिमवतः शैल उत्तरप्रायदक्षिणे / पुण्ड्रं नाम समाख्यातं नगरं तत्र विस्तृतम्
在喜马瓦特山之北、面向南方的山地一带,有一座广阔的城邑,名闻于世,称为“本陀罗”(Puṇḍra)。
Verse 54
तस्मिन्निपतितं वर्षं तत्तुषारसमुद्भवम् / ततस्तदा वहो वायुर्हेमवन्तं समुद्वहन्
在那里降下由霜雪所生之雨;随即流行之风将其托起,运向雪山希摩梵(喜马万)。
Verse 55
आनयत्यात्मयोगेन सिंचमानो महागिरिम् / हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम्
他以自身瑜伽之力引来此雨,润泽大山;越过希摩梵之后,又将余雨送往更远之处。
Verse 56
इहाभ्येति ततः पश्चादपरान्तविवृद्धये / वर्षद्वयं समाख्यातं सस्यद्वयविवृद्धये
随后它来到此处,为使西方边地兴盛;经中宣说有两种降雨,为令两类庄稼增长。
Verse 57
मेघाश्चाप्यायनं चैव सर्वमेतत्प्रकीर्त्तितम् / सूर्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते
云与其滋养等一切皆已宣说;然诸雨之创造者,被教示为唯有太阳。
Verse 58
सूर्यमूला च वै वृष्टिर्जलं सूर्यात्प्रवर्तते / ध्रुवेणाधिष्ठितः सूर्यस्तस्यां वृष्टौ प्रवर्त्तते
降雨以太阳为根本;水亦由太阳而起。太阳为德鲁瓦所安立,遂在此降雨之业中运行。
Verse 59
ध्रुवेणाधिष्टितो वायुर्वृष्टिं संहरते पुनः / ग्रहो निःसृत्य सूर्यात्तु कृत्स्ने नक्षत्रमण्डले
在德鲁瓦(Dhruva)的主宰下,风神复又收摄降雨;诸行星自太阳而出,遍行于整个星宿之环。
Verse 60
चरित्वान्ते विशत्यर्कं ध्रुवेण समाधिष्ठितम् / ततः सूर्यरथस्याथ सन्निवेशं निबोधत
当其行程终了,便归入由德鲁瓦所安立的太阳(Arka)。于是当知太阳战车的布置形制。
Verse 61
संस्थितेनैकचक्रेण पञ्चारेण त्रिनाभिना / हिरण्मयेन भगवांस्तथैव हरिदर्वणा
世尊太阳安住于一轮之上,具五辐三毂,金辉灿然,并带青翠之光。
Verse 62
अष्टापदनिबद्धेन षट्प्रकारैकनेमिना / चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्पति
太阳乘其车而行,具光耀之轮:以八支为系,唯一本缘而分六类。
Verse 63
दशयोजनसाहस्रो विस्तारायामतः स्मृतः / द्विगुणो ऽस्य रथोपस्थादीषादण्डः प्रमाणतः
其宽与长被传为一万由旬;自车座起算,其辕杆(īṣā-daṇḍa)之量为其两倍。
Verse 64
स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु / असंगः काञ्चनो दिव्यो युक्तः पवनगैर्हयैः
为他,梵天因应所需造出一乘战车;此车神圣金辉、无所系著,并以疾如风的骏马驾驭。
Verse 65
छन्दोभिर्वाजिरूपैस्तु यतश्चक्रं ततः स्थितैः / वारुणस्यन्दनस्येह लक्षणैः सदृशस्तु सः
由于诸“韵律”(chandas)化作马形,车轮又安住其位,此车在诸般相状上与伐楼那之车相似。
Verse 66
तेनासौ सर्वते व्योम्नि भास्वता तु दिवाकरः / अथैतानि तु सूर्यस्य प्रत्यङ्गानि रथस्य ह
凭借此车,光辉的日神遍行苍穹四方。现在将宣说太阳战车的诸肢分部件。
Verse 67
संवत्सरस्यावयवैः कल्पि तस्य यथाक्रमम् / अहस्तु नाभिः सौरस्य एकचक्रस्य वै स्मृतः
其结构依岁时诸分而次第安立;在太阳的一轮战车中,“阿诃”(昼日)被记为轮毂之心。
Verse 68
अराः पञ्चार्त्तवांस्तस्य नेमिः षडृतवः स्मृतः / रथनीडः स्मृतो ह्येष चायने कूबरावुभौ
其辐条被视为五种季时段(ārtava),轮缘(nemi)被记为六季(ṛtu)。此即战车之座(rathanīḍa);而两“阿耶那”(ayana,南北行)为其双轴(kūbara)。
Verse 69
मुहूर्त्ता बन्धुरास्तस्य रम्याश्चास्य कलाः स्मृताः / तस्य काष्ठा स्मृता घोणा अक्षदण्डः क्षणस्तु वै
他的诸“穆呼尔塔”(muhūrta)被称为庄美,他的诸“卡拉”(kalā,时分)亦被记为可爱。对他而言,“卡什塔”(kāṣṭhā)名为“戈那”(ghoṇā),“阿克沙丹达”(akṣadaṇḍa)即为“刹那”(kṣaṇa)。
Verse 70
निमेषश्चानुकर्षो ऽस्य हीषा चास्य लवाःस्मृताः / रात्रिर्वरूथो धर्मो ऽस्य ध्वज ऊर्द्ध्व समुच्छ्रितः
他的“霎目”(nimeṣa)称为“随引”(anukarṣa),“希沙”(hīṣā)被记为他的“拉瓦”(lava)。黑夜是他的护围,达摩是他高高竖起的旗幡。
Verse 71
युगाक्षकोडी ते तस्य अर्थकामावुभौ स्मृतौ / सप्ताश्वरूपाश्छन्दासि वहन्तो वामतो धुरम्
对他而言,“瑜伽轴”(yugākṣa)与“科迪”(koḍī)被记为“义利”(artha)与“欲乐”(kāma)。七种韵律(chandas)化作七马,在左侧牵负轭梁。
Verse 72
गायत्री चैव त्रिष्टुप्य ह्यनुष्टुब्जगती तथा / पङ्क्तिश्च बृहती चैव ह्युष्णिक्चैव तु सप्तमी
伽雅特丽(Gāyatrī)、特里什图布(Triṣṭubh)、阿努什图布(Anuṣṭubh)、贾伽蒂(Jagatī),以及潘克提(Paṅkti)、布里哈蒂(Bṛhatī)、乌什尼克(Uṣṇik)——此七种韵律为所共记。
Verse 73
चक्रमक्षे निबद्धं तु ध्रुवे चाक्षः समर्पितः / सहचक्रो भ्रमत्यक्षः सहक्षो भ्रमते ध्रुवः
轮系系于轴上,而轴安置于“德鲁瓦”(Dhruva)之处。轴随轮而转,德鲁瓦亦随轴而旋。
Verse 74
अक्षेण सह चक्रेशो भ्रमते ऽसौ ध्रुवेरितः / एवमर्थवशात्तस्य सन्निवेशो रथस्य तु
在德鲁瓦的推动下,轮之主与车轴一同旋转。正因这一缘由,他的战车之布局也如此安置。
Verse 75
तथा संयोगभावेन संसिद्धो भासुरो रथः / तेनासौ तरणिर्देवो भास्वता सर्पते दिवि
同样,由于相合之势,那辉煌的战车得以圆满成就。凭此,天神塔拉尼——太阳——以光辉在天穹中滑行。
Verse 76
युगाक्षकोटिसन्नद्धौ द्वौ रश्मी स्यन्दनस्य तु / ध्रुवे तौ भ्राम्यते रश्मी च चक्रयुगयोस्तु वै
此战车有两道光缰,系于轭轴之端。二者绕德鲁瓦而转,光缰也随双轮一同回旋。
Verse 77
भ्रमतो मण्डलान्यस्य खेचरस्य रथस्य तु / युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य हि
在那行于虚空之战车的回旋诸轮中,其轭轴之端确在战车的南侧。
Verse 78
ध्रुवेण प्रगृहीते वै विचक्रम तुरक्षवत् / भ्रमन्तमनुगच्छेतां ध्रुवं रश्मी तु तावुभौ
当德鲁瓦执持之时,它虽无轮却宛如骏马牵引。那两道光缰随逐旋转不息的德鲁瓦。
Verse 79
युगाक्षकोटिस्तत्तस्य रश्मिभिः स्यन्दनस्य तु / कीलासक्ता यथा रज्जुर्भ्रंमते सर्वतो दिशम्
由于那车辕轭端所系的光线,它便如钉上系绳一般,向四方旋转不息。
Verse 80
ह्रसतस्तस्य रश्मी तु मण्डलेषूत्तरायणे / वर्द्धते दक्षिणे चैव भ्रमतो मण्डलानि तु
在北行(Uttarāyaṇa)的诸轮中,其光线缩短;在南行(Dakṣiṇāyaṇa)则增长,而诸轮仍不断旋转。
Verse 81
युगाक्षकोटिसंबद्धौ रश्मी द्वौ स्यन्दनस्य तु / ध्रुवेण प्रगृहीतौ वै तौ रश्मी नयतो रविम्
那车轭端系有两道光线;由极星(Dhruva)执持,这两道光线牵引着日神而行。
Verse 82
आकृष्येते यदा तौ वै ध्रुवेण सम धिष्ठितौ / तदा सो ऽभ्यन्तरे सूर्यो भ्रमते मण्डलानि तु
当那两道光线被极星平衡执持而牵引时,太阳便在内层诸轮中旋转运行。
Verse 83
अशीतिर्मण्डलशतं काष्ठयोरन्तरं स्मृतम् / ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु
两“刹那/刻”(kāṣṭhā)之间的间隔被记为“八十百轮”(即八千);而由极星所放开的两道光线,又使其再度发生。
Verse 84
तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु / उद्वेषाटयन्स वेगेन मण्डलानि तु गच्छति
同样地,在外层,太阳循诸轮环而旋转;疾速前行之时,仿佛以嗔厌之力搅动诸轮环。
The chapter attributes orderly motion to Dhruva as a fixed pivot in the Śiśumāra formation; luminaries revolve in coordinated circuits ‘like a wheel,’ held in place by vātānīka (wind-like) bonds that preserve non-interference and regularity.
Rising and setting, omens (utpāta), the southern and northern courses (dakṣiṇottara ayana), equinox (viṣuva) conditions, seasonal changes, day-night and twilight, and even auspicious/inauspicious outcomes for beings are framed as Dhruva-governed effects.
It describes a cosmic hydrology where the Sun draws up the world’s waters, Soma mediates their transformation/flow, and moisture circulates through channels (nāḍīs) to become rainfall and ultimately reside in food—linking astronomy to ecological sustenance.