Akrūra’s Journey to Vraja and His Devotional Vision of Kṛṣṇa and Balarāma
ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ । पीतनीलाम्बरधरौ शरदम्बुरुहेक्षणौ ॥ २८ ॥ किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ । सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥ २९ ॥ ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजम् । शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ ॥ ३० ॥ उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ । पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ ॥ ३१ ॥ प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती । अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३२ ॥ दिशो वितिमिरा राजन्कुर्वाणौ प्रभया स्वया । यथा मारकत: शैलो रौप्यश्च कनकाचितौ ॥ ३३ ॥
dadarśa kṛṣṇaṁ rāmaṁ ca vraje go-dohanaṁ gatau pīta-nīlāmbara-dharau śarad-amburahekṣaṇau
阿克鲁拉随后在弗罗阇看见克里希纳与巴拉罗摩正去挤牛奶。克里希纳着黄衣,巴拉罗摩着蓝衣;二位的眼如秋莲。两位大臂的少年乃吉祥天女之所依:一位肤色深蓝,一位洁白;面容端丽,为众美之冠,步态如壮健幼象。二主以慈悲含笑的目光四顾,用印有旗帜、金刚杵、象钩与莲花等标记的足迹装点牧场。其戏游宏阔而迷人,佩宝项与花鬘,身涂吉祥芳香,沐浴新净,衣着无垢。他们是原初至上人格,宇宙之因与主宰;为大地福祉,以自分降现为凯沙瓦与巴拉。帕利克希特王啊,他们以自身光辉驱散十方昏暗,宛如两座镶金的山岳:一座翡翠,一座白银。