स॒प्तास्या॑सन् परि॒धय॒स्त्रिः स॒प्त स॒मिध॑: कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न् पुरु॑षं प॒शुम्
saptā́syāsan paridháyas tríḥ saptá samídhaḥ kṛtā́ḥ | devā́ yád yajñáṃ tanvānā́ abádhnan púruṣaṃ paśúm ||
Cọc gỗ bao quanh (paridhi) của Ngài có bảy; củi mồi (samidh) được sắp đặt ba lần bảy. Khi chư thiên cử hành tế lễ, họ trói Puruṣa làm con vật hiến tế.
सप्त । अस्य । आसन् । परिधयः । त्रिः । सप्त । समिधः । कृताः । देवाः । यत् । यज्ञम् । तन्वानाः । अबध्नन् । पुरुषम् । पशुम् ।