Sukta 1.164
अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् । जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥
अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या॑नाम् । जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ॥
anáccheye turágātu jīvám éjaddhruváṁ mádhya ā pastyā́nām | jīvó mṛtásya carati svadhā́bhir amártyo mártyenā sáyoniḥ ||
Trong chỗ tựa không lay chuyển ấy, có Sự Sống đi nhanh—kẻ chuyển động—vững ở giữa các nơi cư trú. Quyền năng sống vận hành trong cái đã chết theo svadhā, luật riêng của nó; Đấng Bất Tử được buộc chung một dạ, một chốn với kẻ hữu tử.
अ॒नत् । श॒ये॒ । तु॒रऽगा॑तु । जी॒वम् । एज॑त् । ध्रु॒वम् । मध्ये॑ । आ । प॒स्त्या॑नाम् । जी॒वः । मृ॒तस्य॑ । च॒र॒ति॒ । स्व॒धाभिः॑ । अम॑र्त्यः । मर्त्ये॑न । सऽयो॑निः ॥अनत् । शये । तुरगातु । जीवम् । एजत् । ध्रुवम् । मध्ये । आ । पस्त्यानाम् । जीवः । मृतस्य । चरति । स्वधाभिः । अमर्त्यः । मर्त्येन । सयोनिः ॥anat | śaye | tura-gātu | jīvam | ejat | dhruvam | madhye | ā | pastyānām | jīvaḥ | mṛtasya | carati | svadhābhiḥ | amartyaḥ | martyena | sa-yoniḥ