Sukta 1.164
पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा । तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥
पञ्चा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा॑ । तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी॑र्यते॒ सना॑भिः ॥
pañcā́re cakré parivártamāne tásminnā́ tasthur bhúvanāni víśvā | tásya nákṣas tapyate bhū́ribharāḥ sanā́d eva ná śīryate sánābhiḥ ||
Trong bánh xe năm nan đang xoay vần ấy, mọi thế giới đều đứng vào vị trí của mình. Trục của nó, dù gánh tải nặng lớn, vẫn không cháy bỏng; từ thuở xưa, moay-ơ không hề vỡ—vì được đặt nền trên cõi vĩnh hằng.
पञ्च॑ऽअरे । च॒क्रे । प॒रि॒ऽवर्त॑माने । तस्मि॑न् । आ । त॒स्थुः॒ । भुव॑नानि । विश्वा॑ । तस्य॑ । न । अक्षः॑ । त॒प्य॒ते॒ । भूरि॑ऽभारः । स॒नात् । ए॒व । न । शी॒र्य॒ते॒ । सऽना॑भिः ॥पञ्चअरे । चक्रे । परिवर्तमाने । तस्मिन् । आ । तस्थुः । भुवनानि । विश्वा । तस्य । न । अक्षः । तप्यते । भूरिभारः । सनात् । एव । न । शीर्यते । सनाभिः ॥pañca-are | cakre | pari-vartamāne | tasmin | ā | tasthuḥ | bhuvanāni | viśvā | tasya | na | akṣaḥ | tapyate | bhūri-bhāraḥ | sanāt | eva | na | śīryate | sa-nābhiḥ