Sukta 1.100
तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय । सो अन्धे चित्तमसि ज्योतिर्विदन्मरुत्वान्नो भवत्विन्द्र ऊती ॥
तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना॑य । सो अ॒न्धे चि॒त्तम॑सि॒ ज्योति॑र्विदन्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
tám apsanta śávaso utsavéṣu náro náram ávase tám dhánāya | só ándhe cit támási jyótir vidan marútvān no bhavatu índra ūtī́ ||
Trong những đợt dâng trào của sức mạnh, con người tìm đến Ngài—Người của loài Người—để được trợ giúp và để được sung mãn. Ngài tìm ra Ánh Sáng ngay cả trong bóng tối mù lòa—nguyện Indra (Indra) cùng các Marut (Marut) là sự phù trợ cho chúng ta.
तम् । अ॒प्स॒न्त॒ । शव॑सः । उ॒त्ऽस॒वेषु॑ । नरः॑ । नर॑म् । अव॑से । तम् । धना॑य । सः । अ॒न्धे । चि॒त् । तम॑सि । ज्योतिः॑ । वि॒द॒त् । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥तम् । अप्सन्त । शवसः । उत्सवेषु । नरः । नरम् । अवसे । तम् । धनाय । सः । अन्धे । चित् । तमसि । ज्योतिः । विदत् । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥tam | apsanta | śavasaḥ | ut-saveṣu | naraḥ | naram | avase | tam | dhanāya | saḥ | andhe | cit | tamasi | jyotiḥ | vidat | marutvān | naḥ | bhavatu | indraḥ | ūtī