अ॒jशुर॑ᳪशुष्टे देव सो॒माप्या॑यता॒मिन्द्रा॑यैकधन॒विदे॑ । आ तुभ्य॒मिन्द्र॒: प्याय॑ता॒मा त्वमिन्द्रा॑य प्यायस्व । आ प्या॑यया॒स्मान्त्सखी॑न्त्स॒न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय । एष्टा॒ राय॒: प्रेषे भगा॑य ऋ॒तमृ॑तवा॒दिभ्यो॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म्
aṃśúḥ aṃśuṣṭe deva soma ā́pyāyatām índrāyaikadhanavídē | ā́ túbhyam índraḥ pyāyatām ā́ tvám índrāya pyāyasva | ā́ pyāyaya asmā́n sakhī́n sanyā́ médhayā svastí te deva soma sutyā́m aśīya | eṣṭā́ rā́yaḥ préṣe bhágāya ṛtám ṛtavādíbhyo námo dyā́vāpr̥thivī́bhyām
Let the Soma-shoot, O divine Soma, swell for Indra, the knower of the single treasure. May Indra swell unto thee; and do thou swell for Indra. Make us, thy friends, to swell with winning wisdom; may we attain well-being for thee, O divine Soma, in the pressing. The desired wealth is sent forth for Bhaga; homage to Heaven and Earth, to the speakers of ṛta.
अंशुः । अंशुष्टे । देव । सोम । आप्यायताम् । इन्द्राय । एक-धन-विदे । आ । तुभ्यम् । इन्द्रः । प्यायताम् । आ । त्वम् । इन्द्राय । प्यायस्व । आ । प्यायय । अस्मान् । सखीन् । सन्या । मेधया । स्वस्ति । ते । देव । सोम । सुत्याम् । अशीय । एष्टा । रायः । प्रेषे । भगाय । ऋतम् । ऋत-वादिभ्यः । नमः । द्यावा-पृथिवीभ्याम्