अपे॒तो य॑न्तु प॒णयोऽसु॑म्ना देवपी॒यव॑: । अ॒स्य लो॒कः सु॒ताव॑तः । द्युभि॒रहो॑भिर॒क्तुभि॒र्व्य॒क्तं य॒मो द॑दात्वव॒सान॑मस्मै
apetó yantu paṇáyo 'sumnā devapīyávaḥ | asyá lókaḥ sutā́vataḥ | dyúbhir áhobhir aktúbhir vyaktáṃ yamó dadātv avāsā́nam asmai
Departed hence, let the Paṇis go—ungracious, drinkers of the Gods’ (portion). This world belongs to him who hath pressed the Soma. By days, by day-and-nights, by nights, duly apportioned—let Yama assign unto him his resting-place, his appointed end.
अप-इतः । यन्तु । पणयः । अ-सुम्नाः । देव-पीयवः । अस्य । लोकः । सु-तावतः । द्युभिः । अहोभिः । अक्तुभिः । वि-अक्तम् । यमः । ददातु । अवसानम् । अस्मै ।