सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः
sumitriyā́ na ā́pa óṣadhayaḥ santu durmitriyā́s tásmai santu yó’smā́n dvéṣṭi yáṃ ca vayáṃ dvíṣmaḥ
May the Waters and the Plants be kindly friends to us; but ill-friends be they to him who hateth us, and whom we hate.
सु-मित्रियाः । नः । आपः । ओषधयः । सन्तु । दुर्मित्रियाः । तस्मै । सन्तु । यः । अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः