इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे । तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं॑ दे॒वास॒: शव॑सामद॒न्ननु॑
imā́ṃ te dhíyaṃ prá bhare maho mahī́m asyá stótre dhiṣáṇā yát ta ānáje | tám utsavé ca prasavé ca sāsahím índraṃ devā́saḥ śávāsā adann ánu
This thought of mine I bring unto thee,—a mighty, most majestic,—for this thy hymn of praise, O Impulse, which hath reached thee. Him, the all-conquering Indra, in the uplifting and in the onward setting of the rite, the Gods, by their strength, have followed and accepted.
इ॒माम् । ते॒ । धिय॑म् । प्र । भ॑रे । म॒हः । म॒हीम् । अ॒स्य । स्तो॒त्रे । धि॒षणा॑ । यत् । ते॒ । आ॒न॒जे । तम् । उ॒त्स॒वे । च॒ । प्र॒स॒वे । च॒ । सा॒स॒हिम् । इन्द्र॑म् । दे॒वासः॑ । शव॑सा । अ॒द॒न् । अनु॑