र॒थ॒वाह॑णᳪ ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मᳪ स॑देम वि॒श्वाहा॑ व॒यᳪ सु॑मन॒स्यमा॑नाः
ratha-vā́haṇaṃ havírasya nā́ma yátrā́yudhaṃ níhitaṃ asya várma | tátrā rathám úpa śagmáṃ sadema viśvā́hā vayáṃ sumanasyámānāḥ ||
‘Chariot-bearer’ is the name of the oblation, whereon his weapon is laid, his armour set in place. There, beside the chariot, in auspicious ease may we sit, all our days, being of gracious mind.
र॒थ॒-वाह॑णम् । ह॒विषः॑ । नाम॑ । यत्र॑ । आयु॑धम् । निहि॑तम् । अस्य॑ । वर्म॑ । तत्र॑ । रथ॑म् । उप॑ । श॒ग्मम् । स॑देम । वि॒श्वाहा॑ । व॒यम् । सु॒मन॒स्यमा॑नाः ।