होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपस॒ इडा॒ सर॑स्वती॒ भार॑ती म॒हीः । इन्द्र॑पत्नीर्ह॒विष्म॑ती॒र्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣat tisró devī́r ná bheṣajáṃ tráyas tri·dhā́tavo ’pása iḍā́ sárasvatī bhā́ratī mahī́ḥ | índra·patnīr havíṣmatīr vyantu ā́jyasya hótar yája
Let the Hotṛ offer to the three goddesses—like a remedy—three active powers, threefold-established: Idā, Sarasvatī, and great Bhāratī. Let the Indra-consorts, possessed of oblation, open wide for the ghee—O Hotṛ, sacrifice!
होता । यक्षत् । तिस्रः । देवीः । न । भेषजम् । त्रयः । त्रि-धातवः । अपसः । इडा । सरस्वती । भारती । महीः । इन्द्र-पत्नीः । हविष्मतीः । व्यन्तु । आज्यस्य । होतः । यज ।