दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वान्य॑क्षद्यथाय॒थᳪ होता॑रा॒विन्द्र॑म॒श्विना॑ वा॒चा वाच॒ᳪ सर॑स्वतीम॒ग्निᳪ सोम॑ᳪ स्विष्ट॒कृत् स्वि॑ष्ट॒ इन्द्र॑: सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षगि॒ष्टो दे॒वो वन॒स्पति॒: स्वि॒ष्टा दे॒वा आ॑ज्य॒पाः स्वि॑ष्टो अ॒ग्निर॒ग्निना॒ होता॑ हो॒त्रे स्वि॑ष्ट॒कृद्यशो॒ न दध॑दिन्द्रि॒यमूर्ज॒मप॑चितिᳪ स्व॒धां व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑
de̱vó agníḥ sviṣṭakṛ́d devā́n ayakṣad yáthāyatha̱ṁ hotā́rāv índram aśvínā vācā́ vā́ca̱ṁ sárasvatīm agní̱ṁ sóma̱ṁ sviṣṭakṛ́t svi̱ṣṭá índraḥ sutrā́mā savitā́ váruṇo bhiṣág iṣṭó de̱vó vanaspátiḥ sviṣṭā́ devā́ ājyapā́ḥ svi̱ṣṭó agnír agnínā hotā́ hotré sviṣṭakṛ́d yáśo̱ ná dádhad indriyám ūrjá̱m apáciti̱ṁ svadhā́ṁ vasuváne vasudhéyasya vyantu̱ yája
The god Agni, the maker of good offering, hath duly sacrificed to the gods, each in his proper order: the two Hotṛs; Indra; the Aśvins; Speech with Speech; Sarasvatī; Agni; Soma. The maker of good offering—well-offered are Indra the good protector, Savitṛ, Varuṇa, the Physician; well-offered is the god Vanaspati; well-offered are the gods, the ghee-drinkers; well-offered is Agni with Agni as Hotṛ for the Hotṛship. As fame, may he bestow vigour, nourishment, expiation, and inherent power: in the winning of wealth, for the laying-up of treasure, may they spread abroad—Sacrifice thou!
दे॒वः । अ॒ग्निः । स्वि॑ष्ट-कृत् । दे॒वान् । अ॒यक्षत् । यथा॑-य॒थम् । होता॑रौ । इन्द्र॑म् । अ॒श्विना॑ । वा॒चा । वाच॑म् । सर॑स्वतीम् । अ॒ग्निम् । सोम॑म् । स्वि॑ष्ट-कृत् । स्वि॑ष्टः । इन्द्रः॑ । सु॒त्रामा॑ । सवि॒ता । वरु॑णः । भि॒षक् । इ॒ष्टः । दे॒वः । वन॒स्पतिः॑ । स्वि॒ष्टाः । दे॒वाः । आ॑ज्य॒पाः । स्वि॑ष्टः । अ॒ग्निः । अ॒ग्निना॑ । होता॑ । हो॒त्रे । स्वि॑ष्ट-कृत् । यशः॑ । न । दध॑त् । इन्द्रि॒यम् । ऊर्ज॑म् । अप॑-चितिम् । स्व॒धाम् । वसु॒वने॑ । वसु॒धेय॑स्य । व्यन्तु॑ । यज॑