नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः । तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः
námo’stu rudrébhyo yé diví yéṣāṃ vārṣám-iṣávaḥ | tébhyo dáśa prācī́r dáśa dakṣiṇā́ dáśa pratī́cīr dáśodī́cīr dáśordhvā́ḥ | tébhyo námo astu té no’vantu té no mṛḍayantu té yáṃ dviṣmáḥ yáś ca no dvéṣṭi tám eṣāṃ jámbhe dadhmaḥ
Homage be unto the Rudras that are in the heaven, whose shafts are the rain. Ten be to the east, ten to the south, ten to the west, ten to the north, and ten above: to them be homage! May they protect us, may they be gracious unto us. Whomsoever we hate, and whosoever hateth us, him we consign to their jaws.
नमः । अस्तु । रुद्रेभ्यः । ये । दिवि । येषाम् । वर्षम्-इषवः । तेभ्यः । दश । प्राचीः । दश । दक्षिणाः । दश । प्रतीचीः । दश । उदीचीः । दश । ऊर्ध्वाः । तेभ्यः । नमः । अस्तु । ते । नः । अवन्तु । ते । नः । मृडयन्तु । ते । यम् । द्विष्मः । यः । च । नः । द्वेष्टि । तम् । एषाम् । जम्भे । दध्मः