मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्त॒: सद॒मित् त्वा॑ हवामहे
mā́ nas tóke tánaye mā́ na ā́yuṣi mā́ no góṣu mā́ no áśveṣu rīriṣaḥ | mā́ no vīrā́n rudra bhā́mino vadhīr havíṣmantaḥ sádám ít tvā havāmahe
In our offspring and in our children, in our life, in our kine, in our horses—injure us not. Slay not our heroes, O Rudra the fierce; we, possessed of oblation, ever call upon thee.
मा । नः । स्तोके । तनये । मा । नः । आयुषि । मा । नः । गोषु । मा । नः । अश्वेषु । रीरिषः । मा । नः । वीरान् । रुद्र । भामिनः । वधीः । हविष्मन्तः । सदम् । इत् । त्वा । हवामहे