वरू॑त्रीं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒नाᳪ रज॑स॒: पर॑स्मात् । म॒हीᳪ सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हि॑ᳪसीः पर॒मे व्यो॑मन्
varū́trīṃ tváṣṭur váruṇasya nā́bhim áviṃ jajñānā́ṃ rájasaḥ párasmāt | mahī́ṃ sāhasrī́m ásurasya māyā́m agne mā́ hiṃsīḥ paramé vyòman
The protecting form of Tvaṣṭṛ, Varuṇa’s navel—an ewe brought forth from beyond the region; the great, thousandfold power of the Asura: O Agni, injure it not in the highest heaven.
वरूत्रीम् । त्वष्टुः । वरुणस्य । नाभिम् । अविम् । जज्ञानाम् । रजसः । परस्मात् । महीम् । साहस्रीम् । असुरस्य । मायाम् । अग्ने । मा । हिंसीः । परमे । व्योमन्