मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्नम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः । ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे | वास॑न्तिकावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम्
mádhuś ca mā́dhavaś ca vāsantikāv ṛtū́ agnér antaḥ śléṣo ’si | kálpetāṃ dyāvāpṛthivī́ kálpantām ā́pa óṣadhayaḥ kálpantām agnáyaḥ pṛthág námo jyáiṣṭhyāya sávratāḥ | ye agnáyaḥ sámanaso ’ntarā dyāvāpṛthivī́ imé | vāsantikāv ṛtū́ abhíkalpamānā indrám iva devā́ abhísaṃviśantu | tayā́ devátayā ’ṅgirasvád dhruvé sīdatam ||
Madhu and Mādhava, the two vernal seasons, thou art the inner joint of Agni. Let Heaven and Earth be duly fitted; let the Waters be fitted; let the Plants be fitted; let the Fires be fitted—separate obeisance (be) to the eldest, to those of one ordinance. Those Fires which, of one mind, are between this Heaven and Earth—let the two vernal seasons, being duly adjusted, enter in and settle, as the Gods (settle) upon Indra. With that deity, Angiras-wise, upon the steadfast (place) do ye sit down.
मधु॑ः । च॒ । माध॑वः । च॒ । वा॒स॒न्ति॒का॒वृ॒तू । अ॒ग्नेः । अ॒न्तः । श्ले॒षः । अ॒सि॒ । कल्पे॑ताम् । द्यावा॑-पृथि॒वी । कल्प॑न्ताम् । आपः॑ । ओष॑धयः । कल्प॑न्ताम् । अ॒ग्नयः॑ । पृ॒थक् । नमः॑ । ज्यैष्ठ्या॑य । सव्र॑ताः । ये । अ॒ग्नयः॑ । सम॑नसः । अ॒न्त॒रा । द्यावा॑-पृथि॒वी । इ॒मे । वा॒स॒न्ति॒का॒वृ॒तू । अ॒भि॒कल्प॑मानाः । इन्द्र॑म्-इव । दे॒वाः । अ॒भि॒संवि॑शन्तु । तया॑ । दे॒वत॑या । अ॒ङ्गि॒र॒स्वत् । ध्रु॒वे । सी॑दतम् ।