ये जने॑षु म॒लिम्ल॑व स्ते॒नास॒स्तस्क॑रा॒ वने॑ । ये कक्षे॑ष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः
yé janéṣu malímlava stenā́s táskarā vané | yé kakṣéṣv aghāyávas tā́ṃs te dadhāmi jámbhayoḥ
The malignant among men, the thieves and robbers in the forest, the evil-minded that lurk in thickets,—them I place within thy jaws.
ये । जने॑षु । म॒लिम्ल॑वः । स्ते॒नासः । तस्क॑राः । वने॑ । ये । कक्षे॑षु । अ॒घा॒यवः । तान् । ते॒ । दधामि । जम्भ॑योः