नाभा॑ पृथि॒व्याः स॑मिधा॒ने अग्नौ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे । इ॒र॒म्म॒दं बृ॒हदु॑क्थ्यं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम्
nā́bhā pṛthivyā́ḥ samidhāné agnáu rāyás-poṣā́ya bṛhaté havāmahe | irám-madáṃ bṛhád-ukthyaṃ yájatraṃ jétāram agníṃ pṛtánāsu sāsahím
At the navel of the Earth, when Agni is kindled, we invoke the Great One for the increase of wealth and prosperity,—him that rejoiceth in refreshment, worthy of the lofty hymn, adorable, the Conqueror, Agni, who in battles is the overpowering victor.
नाभा॑ । पृथि॒व्याः । स॑मिधा॒ने । अग्नौ । रा॒यः-पोषा॑य । बृह॒ते । ह॑वामहे । इ॒र॒म्-म॒दम् । बृ॒हत्-उ॑क्थ्यम् । यज॑त्रम् । जेता॑रम् । अ॒ग्निम् । पृत॑नासु । सास॒हिम्